________________
१४७.
दक्षिणावर्तकम्बुरत्नम् ४] सरसामोदव्याख्यासहितम् ।
ध्वन्योरेव स्वतोऽर्थस्य संभवित्वात्तथा कवेः । तन्निबद्धस्य नेतुश्च प्रौढवागेकसिद्धितः ॥ १९२ ॥ षडिरप्येवमेतैश्च वस्त्वलंकारयोः पुनः।। ध्वननाद्वादशैते स्युर्भेदास्तेऽनुक्रमादिमे ॥ १९३ ॥ समुन्मीलन्ति माकन्दाः प्राहेति नतलोचना।
प्रवसन्तं निजं कान्तं स्वरभङ्गाकुलाक्षरम् ॥ १९४ ॥ दसप्तकमध्ये तावदलक्ष्यक्रमव्यङ्गयाख्यं शक्तिमूलत्वेन विवक्षितान्यपरवाच्यापरनामकं रसध्वनि सपरिकरं प्रपञ्च्यावसरसंगल्या लक्ष्यव्यङ्ग्यक्रमाख्यस्य शब्दार्थशक्तिमूलत्वाभ्यां वस्त्वलंकारत्वाभ्यां च चतुर्विधस्य ध्वनेर्निरूपणीयत्वात्तत्र शब्दशक्तिमूलयोस्तयोः प्रत्येकमेकविधत्वस्यैव संभवात्तदुदाहरणयोः सामान्यतः सप्तध्वन्युदाहरणावसर एवोक्तत्वादधुना तदुक्त्यनुपयोगादवशिष्टयोरर्थशक्तिमूलयोरेव तयोर्वक्ष्यमाणरीत्या प्रत्येकं षडिधत्वसंभवाद्वादशानामपि तेषां कथनमुक्तानुवादपूर्वकं तद्धेतूनपि बोधयन्प्रतिजानीते-अथेत्यादित्रिश्लोकात्मकेन विशेषकेण । लक्ष्यव्यङ्गचक्रमध्वनिप्रकरणारम्भार्थोऽयमथशब्दः । तत्र चतुर्विधलक्ष्यव्यङ्गया. मध्वनौ । अर्थशक्तिजयोः अर्थशक्तिमूलयोः ॥ १९१ ॥ अर्थस्य व्यङ्ग्यार्थस्य खतः लोकादावप्युचितवभावेनेत्यर्थः । संभवित्वाद्युक्तत्वात् । तन्निबद्धस्य तेन कविना निबद्धस्य काव्यादौ ग्रथितस्य नेतु यकस्य-प्रौढेति । प्रौढा मान्या या वाग्वाणी तयैव एका केवला सिद्धिर्यस्य तस्मात् । भावप्रधानो निर्देशः । कवेरथ च तदुक्तनायकस्य सरसोक्तिमात्रसिद्धत्वादित्यर्थः ॥ १९२ ॥ एवं एतैः षनिरपि भेदैः पुनः वस्त्वलंकारयोर्ध्वननादित्याद्यग्रे निगदित एव संबन्धः । बुधैर्बोध्या इति शेषः ॥ १९३ ॥ तत्रायमुक्तध्वनिक्रमः । प्रथममर्थशक्तिमूलवस्तुध्वनयः षड्डिधाः-स्वतःसंभविवस्तुना वस्तुध्वनिः १, तत्रैवालंकारेण वस्तुध्वनिः २, कविप्रौढोक्तिसिद्धवस्तुना वस्तुध्वनिः ३, तत्रैवालंकारेण वस्तुध्वनिः ४, कविनिबद्धनायकप्रौढोक्तिमात्रसिद्धवस्तुना वस्तुध्वनिः ५, तत्रैवालंकारेण वस्तुध्वनिरिति ६, । तथा तत्रैवालंकारध्वनयोऽपि षोढा–स्वतःसंभविवस्तुनालंकारध्वनिः १, तत्रैवालं. कारेणालंकारध्वनि: २, कविप्रौढोक्तिसिद्धवस्तुनाऽलंकारध्वनिः ३, तत्रैवालंकारेणालंकार ध्वनिः ४, कविनिबद्धनायकप्रौढोक्तिमात्रसिद्धवस्तुनाऽलंकार ध्वनिः ५, तत्रैवालंकारेणालंकारध्वनिरिति ६, । तत्रार्थशक्तिमूलं स्वतःसंभविवस्तुना वस्तुध्वनिमुदाहरति-समुन्मीलन्तीति । नतलोचना नम्राक्षी। एतेन पातिव्रत्यप्राचुर्यं विरहशोकजमश्रुजलं मदीयमेतत्प्रवासगमनमङ्गलवेलायामनुचितमिति तद्गोपननिपुणवं च द्योतितम् । माकन्दाः आम्राः समुन्मीलन्ति सुविकसन्तीत्यर्थः । इत्युक्तप्रकारेण प्रवसन्तं प्रवासं जिगमिषु निजं स्वकीयं नतु परपुरुषम्, कान्तं सर्वपुंगुणसंपन्नं रमणमित्यर्थः । खपतिं प्रतीतियावत् । स्वरभङ्गाकुलाक्षरं स्वरस्य कण्ठध्वनेर्यो भङ्गः कान्तवियोगासहिष्णुतया नाशस्तेन आकुलानि स्खलदवयवा