________________
१४६
साहित्यसारम् ।
[ पूर्वार्धे
अथ प्राग्यश्चतुर्थोक्तो लक्ष्यव्यङ्गयक्रमध्वनिः ।
अर्थशक्तिजयोस्तत्र वस्त्वलंकारसंज्ञयोः॥ १९१॥ सकलमोक्षसाधनसामग्री सूचिता । एतादृशः अयं देहः नत्वहम् । एवंच ब्रह्मात्मानुभवदाढ्य ध्वनितम् । नच देहस्य जडत्वात्तनिर्देशोऽप्यनुचित एव । साभासस्यैव तस्य विवक्षितत्वात् । कदा कस्मिन्काले तेनौत्कण्ठ्यं व्यज्यते। मन्दाकिनीतटे सुरसरित्तीरे । एतेन शान्तशृङ्गारयोरुभयोरप्युद्दीपनविभावः सूचितः । कांचित् अनिर्वचनीयगुणगणसंपूर्णी विद्युत्सखीं गौरत्वचपलत्वादिना विद्युल्लतावयस्यां निरुपमरमणीमित्यर्थः । अनेन त्यागाशक्यत्वं द्योतितम् । चिदानन्देति । ब्रह्मानन्दैकतानतयेत्यर्थः । नतु रोषादिनापि । तेन पुनः प्रेमानुदयकारणं बोधितं । त्यजेत् । सुरादिप्रेषितत्वेन वा खयमेव गुणलोभेन वा रन्तुमागतामपि प्रजह्यादित्यन्वयः । अत्र अयमिति कांचिदिति चार्थान्तरसंक्रमितवाच्ययो रसध्वन्योः संकरः । तत्रायं पदवाच्यमपरोक्षविषयत्वमविहायैव साभासदेहस्याजहत्स्वार्थया श्वेतो धावतीतिवत् ग्रहणात्तथा कांचित्पदवाच्यमनियतस्त्रीत्वमपरित्यज्यैव लोकोत्तरगुणवत्तरुणीत्वस्य च ग्रहणात्तन्मूलयोः खात्मबोधत्यागाशक्यत्वरूपयोस्तयोः स्फुटतमत्वात् । एवं गुरुकृपापात्रमिति विद्युत्सखीमिति चात्यन्ततिरस्कृतवाच्ययोस्तयोः संसृष्टिः । तत्रापि पात्रपदशक्यं भाजनं विहायैव योग्यस्थलत्वस्य गङ्गायां घोष इत्यादिवल्लक्ष्यत्वात्तथा सखीपदवाच्यवयस्यारूपमर्थं विहाय गौरत्वादिगुणवत्यास्तरुण्या एव लक्ष्यत्वाच्च तन्मूलयोः सकलमोक्षसाधनसंपन्नत्वपरमदृढविरागपरिपूर्णैकहेयत्वरूपयोस्तयोः सत्त्वात् । संकरत्वं हि क्षीरनीरैक्यवदभासमानभेदत्वं संसृष्टित्वं तिलतण्डुलवन्मिश्रणेऽपि भासमानभेदत्वमिति तयोः सामान्यलक्षणे ज्ञेये । काव्यप्रदीपे तु तद्विशेषोऽप्युक्तः । तथाहि-संशयेनाङ्गाङ्गिभावेन एकव्यञ्जकानुप्रवेशेन चेति त्रिविधः संकरः । उक्तप्रकारत्रयं विना संयोगः संसृष्टिः' इति । यथावा काव्यप्रकाशे-'स्निग्धश्यामलकान्तिलिप्तवियतो वेलद्धलाकाघना वाताः शीकरिणः पयोदसुहृदामानन्दकेकाः कलाः । काम सन्तु दृढं कठोरहृदयो रामोऽस्मि सर्व सहे वैदेही नु कथं भविष्यति हहा हा देवि धीरा भव' । अत्र लिप्तेति पयोदसुहृदामिति चात्यन्ततिरस्कृतवाच्ययोः संसृष्टिः । ताभ्यां सह रामोऽस्मीत्यर्थान्तरसंक्रमितवाच्यस्यानुग्राह्यानुग्राहकभावेन रामपदलक्षणैकव्यञ्जकानुप्रवेशेन चार्थान्तरसंक्रमितवाच्यरसध्वन्योः संकर इति । साहित्यदर्पणेऽपि—'अत्युनतस्तनयुगा तरलायताक्षी द्वारि स्थिता तदुपयानमहोत्सवाय । सा पूर्णकुम्भनवनीरजतोरणश्रीसंभारमङ्ग. लमयत्नकृतं विधत्ते' । अत्र स्तनावेव पूर्णकुम्भौ दृष्टय एव नीरजतोरणस्रज इति रूपकध्वनिरसध्वन्योरेकाश्रयानुप्रवेशः संकरः। 'धिन्वन्त्यमूनि मदमूर्च्छदलिध्वनीनि धूताध्वनीनहृदयानि मधोर्दिनानि । निस्तन्द्रचन्द्रवदनावदनारविन्दसौरभ्यसौहृद. सगर्वसमीरणानि' । अत्र निस्तन्द्रेत्यादिलक्षणामूलध्वनीनां संसृष्टिरिति ॥ १९ ॥ एवमित्येते सप्तसामान्यावनिभेदाः खरा इवेत्यन्तग्रन्थेन पूर्व प्रतिज्ञातध्वनिभे.