SearchBrowseAboutContactDonate
Page Preview
Page 161
Loading...
Download File
Download File
Page Text
________________ दक्षिणावर्तकम्बुरत्नम् ४ ] सरसामोदव्याख्यासहितम् । १४५ सति श्रीयोगवासिष्ठशरद्राकासुधाकरे । शान्ति यान्ति न किं कान्त्या जीवंजीवाः शुभद्विजाः१८९ चिदानन्दानुसन्धानात्कदा मन्दाकिनीतटे । अयं गुरुकृपापात्रं कांचिद्विद्युत्सखीं त्यजेत् ॥ १९० ॥ चानिर्वाच्यमहिमखं द्योतितम् । नोचेत्परोक्षलानुपपत्तेः । अव्ययीभावमुदाहरतिस्वानन्दमिति । नतु स्वानन्दे। तथाच निदिध्यासनकालीनासंप्रज्ञातादिसमाध्यानन्दपूर्वकलमात्मज्ञानस्य ध्वनितम् । इमानेच्प्रत्ययमुदाहरति-स्वेति । अत्र चेमनिचा स्वमाहात्म्यप्राक्तनावस्थातो व्यतिरेकेणाभिनवत्वं व्यज्यते । कर्मभूतमाधारमुदाहरति-आवसतीति । स कः । यः शान्तस्वान्ततरङ्गितं शान्तं उपशान्तं स्वान्तमन्तःकरणमेव तरङ्गितं संजाततरङ्गरूपोऽवस्थाविशेषो यस्य तम् । निर्विकल्पमित्यर्थः । एतादृशं अमृताब्धि कैवल्यसमुद्रं नतु क्षीरोदं आवसति अधितिष्ठतीति संवन्धः । अत्र व्याप्तिः सूचिता । कर्मभूताधारस्थले तु व्याप्तिरवगम्यत इति काव्यप्रदीपोक्तेः। यथावा काव्यप्रकाशे-'तरुणिमनि कलयति कलामधिमदनधनुवोः पठल्यग्रे । अधिवसति सकलललनामौलिमियं चकितहरिणचलनयना' इति । वर्णरचने उदाहरति-शान्तेति । माधुर्यव्यञ्जकत्वादेते वर्णाः शान्तरससूचका एव । तथा दीर्घसमासाभावाद्वैदीनामिका रचनापि । विस्तरस्तु मूल एवाग्रे तत्प्रकरणे ज्ञेयः ॥ १८८ ॥ अथ प्रबन्धकविप्रौढोक्ती तथा रसवस्त्वलंकृतीश्चोदाहरति-सतीति । शुभद्विजाः सकलमोक्षसामग्रीशालितया शोभनाः ब्राह्मणाः, पक्षे रम्याः पक्षिण: । जीवाः आजीवमिति च्छेदः । यावद्देहपातमित्यर्थः । पक्षे जीवंजीवाः 'जीवंजीवश्चकोरकः' इत्यमराच्चकोरा इति यावत् । श्रीति । श्रीमान्महावाक्यार्थविचारकारित्वेन ब्रह्मविद्याप्रयोजकत्वान्नितिशयशोभाशाली एतादृशः यः योगवासिष्ठः श्रीवाल्मीक्युक्तोत्तररामायणाख्यः द्वात्रिंशत्साहस्यात्मकः प्रसिद्ध एव ग्रन्थविशेषः स एव शरद्राकासुधाकरः शान्तिकारित्वतमोपहारित्वादिसाधम्यैः शरत्कालीनपूर्णेन्दुः तस्मिन्सति कान्त्या। 'तमेव भान्तमनुभाति सर्व तस्य भासा सर्वमिदं विभाति' इति श्रुतेः स्वस्वरूपचितेत्यर्थः । पक्षे कौमुद्या शान्ति 'ज्ञानं लब्ध्वा परां शान्तिमचिरेणाधिगच्छति'इति स्मृतेर्जीवन्मुक्तिरूपामुपरतिम्, पक्षे संतापक्षतिम् । न यान्ति किम् । अपितु यान्त्येवेत्यर्थः । एवंचात्र योगवासिष्ठवर्णनात्प्रब. न्धोदाहरणं बोध्यम् । तत्र हि महाकाव्ये भूयस्तरः शान्तरसः सुप्रसिद्ध एव । तथा तत्रोक्तेन्दुरूपत्वेन कविप्रौढोक्त्युदाहरणत्वमपि । यथावा साहित्यदर्पणे'पश्यन्त्यसंख्यपथगां त्वद्दानजलवाहिनीम् । देव त्रिपथगाऽत्मानं गोपयत्युग्रमूर्धनि' इति । रसस्तु ज्ञानवीराख्योऽत्र प्रागुक्तदिशैव ज्ञेयः । एवं वस्त्वपि भो मुमुक्षो, त्वया योगवासिष्ठ एव ज्ञानार्थं तद्दाार्थ च परिशीलनीय इति न किमित्याक्षेपेण व्यज्यते । अलंकृतिरप्यत्र रूपकादिनोपमाख्या द्योत्यते ॥ १८९॥ अथ संकरसंसृष्टी उदाहरति-चिदानन्देति । गुरुकृपापात्रं सद्गुरुप्रसादस्थलमिति यावत् । एतेन १३
SR No.023485
Book TitleSahityasaram
Original Sutra AuthorN/A
AuthorAchyutrai, Vasudev Lakshman Shastri
PublisherTukaram Javaji
Publication Year1906
Total Pages576
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy