________________
साहित्यसारम् ।
[ पूर्वार्धे
अपिच प्रेक्षणं तस्य स्वानन्दं स्वमहिनि च ।
आवसत्यमृताब्धि यः शान्तः स्वान्ततरङ्गितम् ॥ १८८ ॥ 'शंभो यत्नो वृथा जातः' इत्युक्त्यापि निर्वाहे अवर्धदित्युक्तं तेन 'वृधु वृद्धौ 'इति स्मरणादल्पत्वाभावः सूचितः। यथावा-रते गौरीकरद्वन्द्वपिनद्धे नयनद्वये । जयति स्थगितं शंभोस्तातीयीकं विलोचनम् । अत्र जिधातुना स्थगनव्यापारसाम्येनान्यनेत्रयोः कराभ्यां पिधानमस्य तु लोकोत्तरकर्मणेति तदेवोत्कृष्टमिति रत्युत्कर्षों व्यज्यते । अतएव जयतीत्युक्तं न शोभत इतीति । सुपमुदाहरति-क्षोभणायेति । अनेन चतुर्थ्याख्यसुष्प्रत्ययेन निरुक्तयत्नस्य दुःखैकप्रयोजकत्वं व्यज्यते। नतु क्षोभणेनेत्यप्युक्तम् । तथात्वेऽस्य फलकाले सुखहेतुत्वमपि संभाव्येत। तिङमुदाहरति-भवतीति। नतु भविष्यतीति । एवंच वर्तत एवास्योक्तयत्नस्य वैफल्यात्संतापहेतुत्वमिति विषादातिशयः सूचितः । यथावा काव्यप्रकाशे-'पथि पथि शुकचञ्चूचारुरागाङ्कुराणां दिशिदिशि पवमानो वीरुधां लासकश्च । नरिनरि किरति द्राक्सायकान्पुष्पधन्वा पुरिपुरि विनिवृत्ता मानिनीमानचर्चा' । अत्र किरतीति किरणस्य साध्यमानत्वं निवृत्तति निवर्तनस्य सिद्धत्वं तिङा सुपा च तत्रापि क्तप्रत्ययेनातीतत्वं द्योत्यत इति । प्रातिपदिकमुदाहरति-अयमिति । नत्वसौ । एतेनापरोक्षत्वादत्यन्तासह्यत्वं द्योत्यते। कालमुदाहरति-कदेति । त्यागयोगाख्यं इष्टं क्षणेन द्विजदेहके विप्रशरीरके कदा स्यादित्यन्वयः । नत्वद्येत्यर्थः । एवंच तदाप्तावौत्कण्ट्यं ध्वनितम् । वचनमुदाहरति-इष्टमिति । नत्विष्टान्यपि । एतेन मोकाभिलाषित्वं ध्वन्यते । पूर्वनिपातमुदाहरति-त्यागेति । अत्र त्यागस्याभ्यर्हितत्वेन प्राधान्यं ध्वन्यते । विभक्तिविशेषमुदाहरति-क्षणेनेति । नतु क्षण इति सप्तमी । तस्मादपवर्गे तृतीया । अपवर्ग: फलप्राप्तिः । तस्यां द्योत्यायां कालाध्वनोरत्यन्तसंयोगे तृतीया स्यात् इति शास्त्रात्फलावश्यभावस्यात्रेष्टत्वात्त. तीयेत्यर्थः । तेनातुरत्वं व्यज्यते। तद्धितमुदाहरति-द्विजेति । कुत्सितो देहो देहकः द्विजस्य देहको द्विजदेहक इति व्युत्पत्त्या कप्रत्ययाख्यतद्धितेन द्विजशरीरस्य दुर्लभत्वेऽपि तत्र स्वस्य विरक्तत्वं दोषदर्शित्वेन द्योत्यते ॥ १८७ ॥ निपातमुदाहरति--अपिचेति । अपिच पुनश्च तस्य वक्ष्यमाणस्य परमात्मनः खानन्दं यथा स्यात्तथा खमहिम्नि च। चोऽवधारणे । खस्य प्रतीचः महिमाऽपरिच्छिन्नत्वं तत्रैव प्रेक्षणं प्रकर्षेण दृढापरोक्षभावेन यदीक्षणमनुभवनं ज्ञानमितियावत् । तत् कदा स्यादिति पूर्वश्लोकादनुकृष्य योज्यम् । अत्र अपिचेति निपाताभ्यां न केवलं वैराग्योपरमावेवापेक्षितावपितु बोधोऽपीति द्योतितम् । उपसर्गमुदाहरति-प्रेक्षणमिति । एतेनेक्षणे प्रकर्षस्तावद्दढापरोक्षत्वरूपो ध्वनितः । यथावा काव्यप्रकाशे–'परिच्छेदातीतः सकलवचनानामविषयः पुनर्जन्मन्यस्मिन्ननुभवपदं यो न गतवान् । विवेकप्रध्वंसादुपचितमहामोहगहनो विकारः कोऽप्यन्तर्जडयति च तापं च कुरुते' । अत्र प्रशब्दस्योपसर्गस्येति सर्वनामानमुदाहरति-तस्येति । एवं