SearchBrowseAboutContactDonate
Page Preview
Page 159
Loading...
Download File
Download File
Page Text
________________ दक्षिणावर्तकम्बुरत्नम् ४] सरसामोदव्याख्यासहितम् । १४३ आयुर्गतं मम व्यर्थ किं वदिष्यन्ति साधवः । कदा वा स दयां कुर्याद्गौरीसहचरो मयि ॥ १८५ ॥ प्रागुद्दिष्टपदाद्यष्टाविंशतिव्यञ्जनास्थले । द्रष्टव्योऽष्टविधोऽप्येष शिष्टैर्दियात्रमुच्यते ॥ १८६ ॥ शंभो यतो वृथावर्धत्क्षोभणाय भवत्ययम् । कदेष्टं त्यागयोगाख्यं क्षणेन द्विजदेहके ॥ १८७ ॥ ज्ञानगोचरत्वमिति यावदिति ॥ १८४ ॥ तदुदाहरति - आयुरिति । स्फुट एवाक्षरार्थः । अत्र प्रथमद्वितीयपादाभ्यां निर्वेदः शङ्का च तथोत्तरार्धेनौत्सुक्यं च गौरीत्यादिपरिकरालंकारतो मुख्यतया व्यज्यते । यथावा काव्यप्रकाशे - ' क्वाकार्य शशलक्ष्मणः क्वच कुलं भूयोऽपि दृश्येत सा कोपानां प्रशमायनः श्रुतमहो कोपेति कान्तं मुखम् । किं वक्ष्यन्त्यपकल्मषाः कृतधियः स्वप्नेऽपि सा दुर्लभा चेतः स्वास्थ्यमुपैहि कः खलु युवा धन्योऽधरं धास्यति' इति ॥ १८५ ॥ एवं रसादिभेदैरष्टविधोऽप्यलक्ष्यक्रमव्यङ्गचध्वनिरयं द्वितीयरत्नोक्तेषु अष्टाविंशतिसंख्याकेष्वपि व्यञ्जनास्थलेषु बोद्धव्य इति विदधस्तद्बोधविधिदिक्प्रदर्शनं प्रतिजानीते - प्रागिति । शिष्टैः साहित्यशास्त्रकुशलैः । तानि च स्थलानि यथा - 'पदं वाक्यं पदार्थश्च वाक्यार्थो धातुरप्यथ । सुप् तिङ् च प्रातिपदिकं कालो वचनमेवच । अपिपूर्वनिपातश्च विभक्तिः कापि तद्धितः । निपाताश्चादयः प्राद्या उपसर्गास्तथैव च । सर्वनामाऽव्ययीभाव इमनिच्प्रत्ययस्तथा । आधारः कर्मभूताख्यो वर्णाश्च रचनास्तथा । प्रबन्धाश्च कविप्रौढोक्ती रसो वस्त्वलंकृतिः । संकरश्चापि संसृष्टिरिति दिग्दृकस्थलेऽस्ति सा' इति ॥१८६॥ तदेवोदाहरति — शंभो यत्न इत्यादिचतुर्भिः । अक्षरार्थस्तु पूर्वार्धे +फुट एव । तत्र शंभो इति पदोदाहरणम् । अत्र शं भवत्यस्मादिति व्युत्पत्त्या स्वाभीष्टप्रदमीश्वरं प्रति खदीनत्व निवेदनं ध्वनितम् | अन्यथा सांबयत्न इत्युक्त स्यात् । यथावा काव्यप्रकाशे - 'मुग्धे मुग्धतयैव नेतुमखिलः कालः किमार - ते मानं धत्स्व वृतिं बधान ऋजुतां दूरीकरु प्रेयसि । सख्यैव प्रतिबोधिता प्रतिवचस्तामाह भीतानना नीचैः शंस हृदि स्थितो हि ननु मे प्राणेश्वरः श्रोष्यति' । अ भीताननेति । एवमवर्धदित्यन्तं वाक्योदाहरणम् । एतेन निर्वेदो ध्वन्यते । अत्रैवोभयोद'हरणयोरपि पदार्थोदाहरणत्वं वाक्यार्थोदाहरणत्वं धातूदाहरणत्वं च बोध्यम् । तद्यथा - 'शंभुपदार्थः शिवस्तेन विरक्तेनेश्वर एव शरणीकरणीय इति द्योतितम् | अन्यथा बन्धो यत्न इत्यप्युच्येत । तथा वाक्यार्थोऽपि परमेश्वरं प्रति स्वकीयसमृद्धयत्नस्यापि वैयर्थ्य विनिवेदनरूपस्तेन भो भगवन्, अधुना भवतैव मत्संरक्षणं संसारसर्पतः कर्तव्यमिति कारुण्यं व्यज्यते । एवंजातीय कान्युदाहरणान्तराणि प्रतिश्लोकं काव्यादौ सन्त्येवेति स्वयमेवोक्त दिशोह्यानि । एवं धातूदाहरणमपि · १ दोषाणाम् इति पाठः ।
SR No.023485
Book TitleSahityasaram
Original Sutra AuthorN/A
AuthorAchyutrai, Vasudev Lakshman Shastri
PublisherTukaram Javaji
Publication Year1906
Total Pages576
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy