SearchBrowseAboutContactDonate
Page Preview
Page 158
Loading...
Download File
Download File
Page Text
________________ १४२ [पूर्वार्धे साहित्यसारम् । रामचन्द्रं समालोक्य पुलकावलिशालिनी। भूसुता संकुचनेत्रपद्मा फुल्लमुखाम्बुजा ॥ १८३॥ बाध्यबाधकभावेऽपि यद्वौदास्येऽपि मिश्रणम् । भावानां यत्तदेवात्र भावशाबल्यमीप्सितम् ॥ १८४ ॥ नष्टि-अन्योन्याभिभव इति । अन्योन्यं परस्परं योऽभिभवः पराभवस्तत्र विषय इत्यर्थः । पट्वोः 'दक्षे तु चतुरपेशलपटवः सूत्थान उष्णश्च' इत्यमरात्समर्थयोरित्यर्थः । व्याधिजडतयोस्तु नान्योन्याभिभवपटुवं किंत्वनुकूलत्वमेवेति न तत्रातिव्याप्तिरिति तात्पर्यम् । ननु भवत्वेवं तथापि परस्पराभिभावकत्वेन सुन्दो. पसुन्दन्यायादुभयोरपि भावयोवंसापत्त्या कथं तत्संधित्वमित्यतः पुनर्विशिनष्टिअन्योन्यानभिभूतयोरिति । परस्परपराभवमप्राप्तयोंरित्यर्थः । एवंच परस्परपराभवक्षमत्वेऽप्यनभिभूतयो वयोः सामानाधिकरण्यमेव भावसंधिरिति तल्लक्षणं सिद्धम् । एवमेवोक्तं पण्डितरायैः-‘एवं भावसंधिरन्योन्यानभिभूतयोरन्योन्याभिभवनयोग्ययो वयोः सामानाधिकरण्यम्' इति ॥ १८२ ॥ तमुदाहरति-रामचन्द्रमिति । योजना त्वत्र यथाश्रुतैव बभूवेति शेषः । तदिह श्रीरामे चन्द्ररूपकतया भूसुतेत्यत्र श्लेषेण लतात्वसूचकत्वात्तस्यास्तद्दर्शनतः पुलकावलिशब्दलक्षितप्रोन्मीलितपल्लवत्वं तदीयशीतकिरणनिःसृतहिमबिन्दुभिरभ्युक्षितत्वाद्युक्तमेवे. ति द्योतितम् । तथाच रामचन्द्रदर्शनवशाद्भूसुतायास्तावनेत्रपद्मसंकोचो मुखाम्बु. जविकासश्च लोके यथा चन्द्रवीक्षणेन पद्मानां संकोचोऽम्बुजशब्दितकैरवाणां विकासश्च जायते तद्वदुपपन्न एवेत्यपि सूचितम् । एवं चेह श्रीरामदर्शनं विभावः, पुलकोद्गमनयनसंकोचवदनविकासा अनुभावाः, ततो व्रीडऔत्सुक्ययोः संधिरेव रूपकाद्यलंकारतः प्राधान्येन ध्वन्यते । यथावा काव्यप्रकाशे-'उसिक्तस्य तपःपराक्रमनिधेरभ्यागमादेकतः सत्सङ्गप्रियता च वीररभसोत्फालश्च मां कर्षतः । वैदेहीपरिरम्भ एष च मुहुश्चैतन्यमालीलयन्नानन्दी हरिचन्दनेन्दुशिशिरस्पर्शी रुणझ्यान्यतः' इति । साहित्यदर्पणेपि–'नयनयुगासेचनकं मानसवृत्त्यापि दुष्प्रापम् । रूपमिदं मदिराक्ष्या मदयति हृदयं दुनोति मम चेदम्' इति । रसगङ्गाधरेपि- 'यौवनोंदुमनितान्तशङ्किताः शीलशौर्यबलकान्तिलोभिताः । संकुचन्ति विकसन्ति राघवे जानकीनयननीरजश्रियः' इति ॥ १८३ ॥ अथ भावशबलतां लक्षयति-बाध्यबाधकेति । बाध्यबाधकभावेऽपि सति, यद्वा औदास्ये परस्परमौदासीन्ये सत्यपि यद्भावानां मिश्रणं अनेकेषां भावानां संमेलनं तदेव अत्र अलंकारशास्त्रे भावशाबल्यं ईप्सितं विपश्चितामभिमतमिति संबन्धः । अत्र सत्यन्तद्वयेनानुगुणानां भावानां व्युदासः। चपलताऽवेगोन्मादाख्यभावानां मेलनेऽपि परस्परानुकूलत्वेन चम- काराजनकत्वात् । तस्माद्बाध्यबाधकत्वे सत्यौदासीन्ये वा सति भावानां संमेलनमेव भावशबलतेति तल्लक्षणं सिद्धम् । उक्तं हि रसगङ्गाधरे-तथा भावशबलत्वं भावानां बाध्यबाधकभावमापत्रानामुदासीनानां वा व्यामिश्रणमेव चमत्कृतिजनक
SR No.023485
Book TitleSahityasaram
Original Sutra AuthorN/A
AuthorAchyutrai, Vasudev Lakshman Shastri
PublisherTukaram Javaji
Publication Year1906
Total Pages576
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy