________________
१४१
दक्षिणावर्तकम्बुरत्नम् ४] सरसामादव्याख्यासहितम् ।
अनङ्गारिः शिरोगङ्गां वीक्ष्य गौर्या तिरस्कृतः। मापयात्वित्यपाङ्गेन परावृत्त्येक्षितः पुनः॥ १८१ ॥ अन्योन्याभिभवे पट्वोरन्योन्यानभिभूतयोः।
सामानाधिकरण्यं यद्भावसन्धिः स भावयोः ॥ १८२ ॥ झुल्यं स्वविषयकं तस्यां प्रत्युतौत्सुक्यमेवोद्दीपनविभावेन रोषप्रमोषार्थमारोपयितरि नायके चातुर्यातिशयः सूचितः । ननु किं तावताऽहं तु त्वां नैवोत्तरमपि दास्यामि पश्यामि चेत्यत आह–स इति । सः मदधरोष्टः तत् त्वन्नेत्रयोः प्रति. बिम्बितत्वेनोक्तं निजारुण्यमित्यर्थः। आदातुं इच्छति वाञ्छति कामशास्त्रप्रसिद्ध त्वन्नेत्रचुम्बनं कर्तुं ममाभिलाषोऽस्तीत्याशयः । इतिवाक्येन निरुक्तभगवद्वाक्यश्रवणमात्रेणेत्यर्थः । तत् रोषजन्यं राधानेत्रान्तारुण्यं गतं तदुपाधिभूतक्रोधोपरमेण नष्टमिति यावत् । इह निरुक्तश्रीकृष्णवाक्यश्रवणं विभावः । राधानेत्रान्तारुण्यनाशोऽनुभावः । ताभ्यामुत्पत्तिकालावच्छिन्नरोषापरनामकामांख्यभावशान्तिरेव गम्योत्प्रेक्षाद्यलंकारतः प्राधान्येन ध्वन्यते । यथावा काव्यप्रकाशे-'तस्याः सान्द्रविलेपनस्तनयुगप्रश्लेषमुद्राङ्कितं किं वक्षश्चरणानतिव्यतिकरव्याजेन गोपाय्यते। इत्युक्के क तदित्युदीर्य सहसा तत्संप्रमाष्टुं मया साश्लिष्टा रभसेन तत्सुखवशात्तन्व्यापि तद्विस्मृतम्' इति ॥१८०॥ एवं भावोदयमप्युदाहरति-अनङ्गारिरिति । गौर्या शिरो गङ्गा तच्छिरःस्थां त्रिपथगां वीक्ष्य अनङ्गारिर्मदनान्तकः शिवः तिरस्कृतो निर्भसिंत आसीदित्यन्वयः। लोके स्मरशत्रुत्वेन प्रख्यातकीर्तेस्तव मां वञ्चयित्वा शिरस्यपि गङ्गाख्याङ्गनास्थापनं किमुचितमिति सोपालम्भं शम्भुर्मात्सर्यरोषावेशात्पार्वत्या विनिन्दितोऽभूदिति भावः । मापयात्विति । अयं मा अपयातु मैव प्रतिगच्छतु इति एवमभिप्रायेण पुनः अनन्तरं परावृत्त्य पूर्व तन्निर्भर्त्सनावसरे पराङ्मुखीभूतत्वादधुना किंचिद्रीवां शिवाभिमुखीकृत्येत्यर्थः । अपाङ्गेन दक्षिणनेत्रकोणेन ईक्षितोऽवलोकित इति संबन्धः । अत्र सापराधहरतिरस्कारसंभाविततत्प्र. तिगमनं विभावः । पुनः परावृत्त्य नेत्रान्तेन तदवेक्षणमनुभावः । ततो मापयात्विति पदसूचितः काव्यलिङ्गाद्यलंकारापेक्षया मुख्यत्वेनोत्पत्त्यवच्छिन्नौत्सुक्याख्यभावोदय एव व्यज्यते । यथावा काव्यप्रकाशे-एकस्मिञ्शयने विपक्षरमणीनामप्रहे मुग्धया सद्यः कोपपराङ्मुखग्लपितया चाटूनि कुर्वन्नपि । आवेगावधीरितः प्रियतमस्तूष्णीं स्थितस्तत्क्षणान्माभूत्सुप्त इवेत्यमन्दवलितग्रीवं पुनर्वीक्षितः' इति । यथावा रसगङ्गाधरे–'वीक्ष्य वक्षसि विपक्षकामिनीहारलक्ष्म दयितस्य भामिनी । अंसदेशवलयीकृतां क्षणादाचकर्ष निजबाहुवल्लरीम्' इति ॥ १८१ ॥ एवं लक्षितौ भावशान्तिभावोदयाबुदाहृत्य ‘भावस्य शान्तिरुदयः सन्धिः शबलता तथा' इति । काव्यप्रकाशकारिकावशात्क्रमप्राप्तं भावसंधिं लक्षयति-अन्योन्यति। यद्भावयोः सामानाधिकरण्यं स भावसंधिरिति संबन्धः । ननु व्याधिजडतयोः सामानाधिकरण्येऽपि न भावसंधिलं दृष्टं विशिष्टचमत्कारानाधायकवादित्याशङ्कय विशि