________________
१३८
[पूर्वार्धे
साहित्यसारम् ।
रतिः प्रीतिस्तु देवादौ शिवं वन्दे गुरुं भजे | अर्चयामि मुनीनामो नृपोस्तूपैहि पुत्र माम् ॥ १७२ ॥
ध्यवसायः उत्कटकोटिकः संशयः । प्रत्येकमुदाहरणानि - ' कालिन्दी विलुठत्कठोरकमठक्रूरं धनुः शाम्भवं रामो बालमृणालको मलवपुर्वशोऽवतंसो भुवः । व्याहारप्रखलाः खलाः क्षितिभृतां गोष्टी गरिष्ठा पुनस्तस्मात्केवलमेष तिष्ठति मनःश्रेयस्करो भास्करः ॥ सौन्दर्यस्य मनोभवेन गणना लेखा किमेषा कृता लावण्यस्य विलोकितुं त्रिजगतीमेषा किमुद्रीविका । आनन्दद्रुमकन्दली नयनयोः किंवा समुज्जृम्भते राधायाः किमु वा स्वभावसुभगा रोमालिरुन्मीलति । कथय कथय केयं खञ्जनौ खेलयन्ती विहरति यमुनायाः पाथसि स्वर्णवलिः । अयमुदयति को वा शारदः शीतभानुस्तदुपरि तिमिराणामेष को वा विवर्तः । इयं न विलसत्सुधाकरकलाधिका राधिका करं किरणमालिनः किमु सहेत तस्या वपुः । नवा कनकमञ्जरी वहति खञ्जरीटौ यतस्ततः स्मरमदालसा कथय केयमुन्मीलति' इति । यथावा रसगङ्गाधरे—‘यदि सा मिथिलेन्द्रनन्दिनी नितरामेव न विद्यते भुवि । अथ मे कथमस्ति जीवितं न विनालम्बनमाश्रय स्थितिः' इति । यथावा प्रसन्नराघवे — 'सर्वखं नवयौवनस्य भवनं भोगस्य भाग्यं दृशोः सौभाग्यं मदविभ्रमस्य जगतः सारं फलं जन्मनः । आकूतं कुसुमायुधस्य हृदयं रागस्य तत्वं रतेः शृङ्गारस्य रहस्यमुत्पलदृशस्तत्किचिदालोकितम्' इति ॥ १७१ ॥ अथावरभक्त्यपरनामिकां देवादिविषयिकां रतिं लक्षयति—रतिरिति । देवादौ तु रतिः प्रीतिरेवेत्यन्वयः । प्रीतित्वमेव देवादिविषयकरतित्वम् । नच शृङ्गारस्थायिभावाख्यरतावतिव्याप्तिः । तस्यां प्रीतिशब्दितानुरागत्वेऽपि 'यूनोः समो वा विषमोऽन्योन्यं रागो रतिः स्मृता' इति प्रागुक्ततल्लक्षणरीत्या विशिष्टस्य तस्याभावात् । नहि ब्राह्मणमानयेत्युक्ते कश्चित्परिव्राजकमानयति । तत्र ब्राह्मण्यसत्वेऽपि विशिष्टब्राह्मणत्वान्न ब्राह्मणसामान्यशब्दशक्यता । नवा सास्नादिमत्त्वे सति चतुःस्तनीत्वं धेनुत्वमित्युक्तौ कामधेनावतिव्याप्तिः, तत्रोक्तलक्षणसत्वेऽपि कामपूरकत्वरूपविशेषसत्वात् । ननु तादृग्विशेषव्यावर्तकं निरुक्तलक्षणे किमस्तीति तत्र व्यभिचारो दुर्वार एवेति चेन्न । 'सर्व वाक्यं सावधारणम्' इति न्यायेनावधारणस्यैवान्ययोगव्यवच्छेदार्थकत्वेन तथात्वात् । अतएव प्रकृतलक्षणे प्रीतित्वमेवेत्युक्तमिति दिकू । आदिपदाद्गुरुमुनिनृपपुत्राः । उपलक्षणमिदं बन्ध्वादेरपि । क्रमेण तामुदाहरति- शिवमित्यादिना । यथाबाहुः श्रीमधुसूदनसरखत्यः - 'वंशीविभूषितकरान्नव नीरदाभात्पीताम्बरादरुणविम्बफलाधरोष्ठात् । पूर्णेन्दुसुन्दरमुखादरविन्दनेनात्कृष्णात्परं किमपि तत्त्वमहं न जाने' इति । सिद्धान्तचन्द्रिकायां यथा - 'पतितमपि पादपतितं पावनकरुणाकटाक्षगाङ्गझरैः । शोधयतु कैव जननीस्तन्यवियोकीं विनेह गुरुमूर्ति' इति । यथावा शिशुपालवधे नारदं प्रति भगवद्वचनम् — 'हरत्यचं संप्रति हेतुरेष्यत: शुभस्य पूर्वाचरितैः कृतं शुभैः । शरीरभाजां भवदीयदर्शनं व्यनक्ति कालत्रितयेऽपि योग्यताम्' इति । यथावा