SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ दक्षिणावर्तकम्बुरत्नम् ४] सरसामोदव्याख्यासहितम् । संचारिणत्रयस्त्रिंशदेते प्राधान्ययोगतः। भावध्वनित्वमायान्ति तथोक्तरतिरप्यसौ ॥ १७३ ॥ प्रागलक्ष्यक्रमव्यङ्गयः प्रतिज्ञातो रसध्वनिः। स तत्साधर्म्यतो भावादीनामप्युपलक्षकः ॥ १७४ ॥ रसभावतदाभासभावशान्त्यादिभेदतः। तत्सोऽष्टधाऽभवत्तत्र द्वावुक्तौ शिष्टमुच्यते ॥ १७५ ॥ असंमतावलम्बित्वादयोग्यविषयत्वतः। रसाभासास्तथा भावाभासाश्च स्युरनुक्रमात् ॥ १७६॥ वासवदत्तायाम् –'सा रसवत्ता विहता नवका विलसन्ति चरति नो कङ्कः । सरसीव कीर्तिशेष गतवति भुवि विक्रमादित्ये' इति । यथावा मदीये कृष्णलीलामृते'अथ नन्द उपेत्य गोकुलं परिजिघ्रञ्छिरसि वनन्दनम् । अभिचुम्ब्य ननन्द वै यथा परमानन्दविदोऽपि नो तथा' इति ॥१७२॥ ननु देवादिविषयकरतेः कथं व्यभिचारिभावत्वम् । नहि सा शृङ्गाराद्यन्यतमे संचरति तत्साहाय्यार्थमिति चेत्केनोक्तमस्यां व्यभिचारित्वं किंतु 'निर्वेदेति रतिर्देवेत्यादि चोक्त्या पुरातनैः। भावाः प्रोक्ताश्चतुस्त्रिंशत्' इति भावत्वमात्रं प्रागुक्तम् । नच तत एव व्यभिचारिसाहचर्यातत्सिद्धमिति शङ्कयम्-'रसध्वनिभेदानिरूप्य भावध्वनिभेदानिरूपयितुमेव तत्र चतुस्त्रिंशत्संख्याकानामेव तेषां भावध्वनित्वाभिप्रायेण भावपदेनोद्दिष्टत्वस्य विवक्षितत्वादित्याशयेनैतेषां भावध्वनित्वे हेतुं विशदयति-संचारिण इति । प्राधान्येति सद्यः सहृदयाह्लादजनकत्वमेवात्र प्राधान्यं तद्योगत इत्यर्थः । अत एवोक्तं काव्यप्रकाशकारिकासु-रतिर्देवादिविषया व्यभिचारी तथाञ्चितः । भावः प्रोक्तः' इति । अञ्चितत्वमत्र पूजितत्वापरपर्यायं प्राधान्यमेव । तथाच स्पष्टीकृतं ममटभटैरने तदुदाहरणेन । अञ्चितव्यभिचारी यथा-'जाने कोपपराङ्मुखी प्रियतमा स्वप्नेऽद्य दृष्टा मया मा मा संस्पृश पाणिनेति रुदती गन्तुं प्रवृत्ता ततः । नो यावपरिरभ्य चाटुशतकैराश्वासयामि प्रियां भ्रातस्तावदहं शठेन विधिना निद्रादरिद्रीकृतः । अत्र विधिं प्रत्यसूयेति । असावुक्तरतिरपि भावध्वनिमुक्तहेतोरायातीति संबन्धः ॥ १७३ ॥ ननु 'तत्रालक्ष्यकमव्यङ्गयो रससंज्ञो ध्वनिर्भवेत्' इत्याद्युपक्रमे भावध्वनेरनुद्देशात्तद्विरुद्ध मिदमित्यत्राह-प्रागिति । तत्साधर्म्यतः अलक्ष्यक्रमव्यङ्गयत्वसामान्येने यर्थः ॥ १७४ ॥ ननु भावादीना मित्यत्रादिपदात्के ग्राह्या इति शङ्कायां तान्दर्शयन्नुक्तहेतोरलक्ष्यक्रमव्यङ्गयध्वने रेवाष्टविधत्वमभिधाय तत्र रसाय. जयनुवादेनावशिष्टरसाभासादिभेदकथनं प्रतिजानीते-रसेति॥१७५॥ तत्र रसाभासं भावाभासं च लक्षयितुं क्रमेण हेतुद्वयं प्रकटयति-असंमतेति। रसेति । एवं चानुचितालम्बनविभावत्वं रसाभासत्वमनुचितविषयत्वं भावाभासत्वं चेति तल्लक्षणं फलितम् । उक्तं हि रसगङ्गाधरे–'अनुचितविभावालम्बनत्वं रसाभासत्वम्' इति । अनुचितविषयाभावाभासा इति च ॥ १७६ ॥ तत्र रसाभासमुदाहरति
SR No.023485
Book TitleSahityasaram
Original Sutra AuthorN/A
AuthorAchyutrai, Vasudev Lakshman Shastri
PublisherTukaram Javaji
Publication Year1906
Total Pages576
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy