SearchBrowseAboutContactDonate
Page Preview
Page 153
Loading...
Download File
Download File
Page Text
________________ दक्षिणावर्तकम्बुरत्नम् ४] सरसामोदव्याख्यासहितम् । रोगादितो वियोगाद्वा तापो व्याधिरुदीरितः । ज्वरादहं कृशा राधा हृदि शैवलशालिनी ॥ १६७ ॥ उन्मादो विप्रलम्भादिजातान्यत्रान्यशेमुषी । एतावत् कृतं कृष्णेत्यालपत्यालिमेव सा ॥ १६८ ॥ मरणं विरहाद्युत्था तत्समा चेतसः स्थितिः । निश्चेष्टां राधिकां दृष्ट्वाप्युद्धवोऽभूदनुद्धवः ॥ १६९ ॥ त्रासस्तु चित्तविक्षोभो भीरोघरेक्षणादिना । सीता शूर्पनखां वीक्ष्य राममालिङ्गय लीयते ॥ १७० ॥ वितर्कः संशयाद्यूर्ध्व जात ऊहोऽभिधीयते । नैशो मयि प्रसादश्चेत्सतां सङ्गः कथं भवेत् ॥ १७१ ॥ क्रियते हन्त मया परिश्रमः' इति ॥ १६६ ॥ व्याधिं लक्षयति - रोगादित इति । क्रमेण द्विविधं तमुदाहरति — ज्वरादिति । इदं हि किमिति वं राधिकां नानयसीति पृच्छन्तं भगवन्तं प्रति दूतीवचनम् । हे श्रीकृष्ण, अहं ज्वरात्कृशास्मीत्याद्योदाहरणं, राधेत्याद्यन्त्योदाहरणमिति बोध्यम् । अयं भावः - ज्वरवशान्मया बहुदिनोत्तरमद्यैव राधिकागृहं गत्वा तस्याः कुशलं पृष्टं तदानीं सा तु त्वद्विरहतप्तलाद्रहसि वक्ष स्थापितशैवलवत्येवावलोकितेत्यतस्त्वयैवाद्य तत्र युक्त्या गन्तव्यं । तस्यास्तुव्युत्थानसामर्थ्यमपि नास्तीति । यथावा रसतरङ्गिण्याम् - 'दातुं स्वीयमनर्घ्य - दीधितिपदं तस्याः कुरङ्गीदृशः केयूरं कनकाङ्गुलीयकमिवानेतुं बहिर्गच्छति । अन्यकृष्णं निवेदयामि किमितो वेणीमिषात्कालियो दृष्ट्वा लोचनवारि कालियस रोभ्रान्त्या परिभ्राम्यति' इति ॥ १६७ ॥ उन्मादं लक्षयति – उन्माद इति । विप्रलम्भो विरहः । आदिना महाविपत्तिपरमानन्दादयो ग्राह्याः । ' शेमुषी मतिः' इत्यम राच्छेमुषी बुद्धिः, विप्रलम्भादिजा अतस्मिंस्तदुद्विरुन्माद इत्यर्थः । तमुदाहरति- एतावदिति ॥ १६८ ॥ मरणं लक्षयति-मरणमिति । आदिपदाद्भयादि । मृत्युव्यावृत्तये तत्समेत्यादि । तदुदाहरति — निश्चेष्टामिति । उद्धवोऽपीति संबन्धः । अनुद्भवः 'मह उद्धव उत्सव:' इत्यमरादनुत्सव इत्यथः । यथावी रसगङ्गाधरे - 'दयितस्य गुणाननुस्मरन्ती शयने संप्रति या विलोकितासीत् । अधुना खलु हन्त सा कृशाङ्गी गिरमङ्गीकुरुते न भाषितापि' इति ॥ १६९ ॥ त्रासं लक्षयतित्रास स्त्विति । आदिशब्दाद्धोरशब्दश्रवणादेर्ग्रहः । तमुदाहरति-सीतेति । यथावाहुः पण्डितरायाः - ' मा कुरु कशां कराब्जे करुणावति कम्पते मम खान्तम् । खेलन जातु गोपैरम्ब विलम्बं करिष्यामि' इति ॥ १७० ॥ वितर्क लक्षयतिवितर्क इति । आदिना व्याप्यारोपादिः । तमुदाहरति — नैश इति । अत्र प्रसादालम्बितः सत्सङ्गोद्दीपितस्तदाक्षिप्तहर्षाद्यनुभावितश्च वितर्क एव परिकराङ्कुरालंकारापेक्षया प्राधान्येन ध्वन्यते । रसतरङ्गिण्यां त्वेष चतुर्धोक्तः । तद्यथा-वितर्क चतुर्विधः विचारात्मा संशयात्माऽनध्यवसायात्मा विप्रतिपत्त्यात्मा चेति । अन १३७
SR No.023485
Book TitleSahityasaram
Original Sutra AuthorN/A
AuthorAchyutrai, Vasudev Lakshman Shastri
PublisherTukaram Javaji
Publication Year1906
Total Pages576
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy