________________
१३६ साहित्यसारम् ।
[ पूर्वाध विबोधः प्रथमा स्फूर्तिरैन्द्रियिक्यथवात्मधीः। श्रीनेत्रे जलजैः फुल्ले कृतार्थोऽहं गतभ्रमः ॥ १६२ ॥ अमर्षश्चित्तवृत्तिः स्यादन्यनानापराधजा । स्पृष्ट्वा दूरं हरौ याते राधा रक्तान्तलोचना ॥ १६३ ॥ अवहित्थं तु लजादिजन्यहर्षादिगोपनम् । रामेण कार्मुके भने सीताऽपृच्छत्सखीं घनम् ॥ १६४ ॥ अधिक्षेपावमानादिजन्या ध्वंसेच्छुतोग्रता। विप्रलापरलं चैद्योच्छलत्येतत्सुदर्शनम् ॥ १६५ ॥ शास्त्राद्यालोचनोत्पन्नमर्थनिर्धारणं मतिः ।
को मेऽनुबन्धो बन्ध्वादौ हन्त द्वैतेऽत्र कल्पिते ॥ १६६॥ कामण्डितो मेघखण्डः' इति । यथावा रसगङ्गाधरे–'अकरुण मृषाभाषासिन्धो विमुञ्च ममाञ्चलं तव परिचितः स्नेहः सम्यङ्मयेत्यनुभाषिणीम् । अविरलगलद्वाष्पां तन्वीं निरस्तविभूषणां क इव भवती भद्रे निद्रे विना विनिवेदयेत्' इति ॥१६१॥ विबोधं लक्षयति-विबोध इति । ऐन्द्रियिकी चक्षुरादीन्द्रियसंबन्धिनी प्रथमा आद्या स्फूर्तिः प्रतिभा विबोध इत्यन्वयः । अथवा आत्मधीः आत्मज्ञानं विबोध इति संबन्धः । उक्तहि रसगङ्गाधरे विबोधं प्रकृत्य 'केचिदविद्याध्वंसजन्यममुमामनन्ति । तत्र मतद्वयेऽपि क्रमेण तमुदाहरति-श्रीत्यादिपादद्वयेन । अत्रा
जैः सममित्युक्त्या तेषां सूर्यविकासिनां प्रातरेव फुल्लवसंभवात् श्रीनेत्रयोर्विकसनमिदं जागरकालीनमेवेति ध्वनितम् । कृतार्थोऽहमिति चरमपक्षोदाहरणम्॥१६२॥ अमर्ष लक्षयति-अमर्ष इति । तमुदाहरति-स्पृहति । अत्र मानानपनोद एव स्पर्शनं ततो दूरगमनं तदाक्षिप्तसंकेतागमनविलम्बश्चेत्याद्यपराधनानावं बोध्यम् ॥ १६३ ॥ अवहित्थं लक्षयति-अवहित्थं त्विति । 'अवहित्थाऽकारगुप्तिः' इत्यमरः । तदुदाहरति-रामेणेति । श्रीरामेण कार्मुके हरशरासने भने सति तजन्यहर्षगोपनार्थ सीता सखीं प्रति किमयं मेघध्वनिः संपन्न इति घनं अपृच्छदित्यर्थः ॥ १६४ ॥ उग्रतां लक्षयति-अधिक्षेपेति । अधिक्षेपस्तिरस्कारः । तामुदाहरति-विप्रलापैरिति । इयं हि भगवतः शिशुपालं प्रति राजसूयसभायामुक्तिः। विप्रलापोविरुद्धोक्तिः' इत्यमरान्निन्दावचनैरित्यर्थः । उच्छलति खच्छिरश्छेदार्थे मत्प्रेरणं विनैव स्वयमेवोड्डानं करोतीत्यर्थः ॥ १६५॥ मतिं लक्षयतिशास्त्रादीति । आदिना तदनुकूलतर्कग्रहः । तामुदाहरति-क इति । अनुबन्धः प्रेमा । यथाहु नुमिश्राः–'लाटी नेत्रपुटी पयोधरघटी क्रीडाकुटी दोस्तटी पाटीरद्रववर्णनेन कुधियामायुः परं क्षीयते। गोविन्देति जनार्दनेति जगतीनाथेति कृष्णेति च व्याहारैः समयस्तदेकमनसां पुंसां परिक्रामति' इति । पण्डितरायैरप्युकम्-'निखिलं जगदेव नश्वरं पुनरस्मिन्नितरां कलेवरम् । अथ तस्य कृते कियानयं