________________
42
साहित्यसारम् ।
[ पूर्वार्धे अविचार्य प्रवृत्तिर्या शीघ्रं चपलतास्ति सा। विषमेव प्रयच्छेमं प्रहादं कुलकण्टकम् ॥ १५२॥ हर्षः सुखविशेषः स्यादिष्टप्रात्यादिसंभवः । दृष्टे श्रीगुरुपादाब्जे भावा अष्टौ ममाभवन् ॥ १५३ ॥ अनातिशयावृत्तिरावेगः संभ्रमाभिधा। अक्रूरो नयते कृष्णं व यामः स्मरतो वयम् ॥ १५४ ॥ जडतावश्यकर्तव्यार्थानुसंधानहीनता । सीता हनुमता दृष्टा यथार्थ भूमिसंभवा ॥१५५ ॥ रूपादिना निजोत्कर्षागोऽन्यस्यावहेलनम् ।
मत्सौन्दर्यानुसंधानान ते गोवर्धन व्यथा ॥ १५६॥ विनिहितवदनं मां वीक्ष्य बाला गवाक्षे चकितनतनताङ्गी सद्म सद्यो विवेश' इति ॥ १५१ ॥ चपलतां लक्षयति-अविचार्येति । या अविचार्य शीघ्र प्रवृत्तिः सा चपलतास्तीत्यन्वयः । तामुदाहरति-विषमेवेति । इदं हि कयाधुं प्रति हिरण्यकशिपोर्वचः । प्रयच्छ अर्पयेत्यर्थः ॥ १५२ ॥ हर्षे लक्षयति-हर्ष इति । तमुदाहरति-दृष्ट इति । अष्टौ प्रागुक्ताः स्तम्भादयः सात्विका अनुभावा इत्यर्थः । यथावा भानुमिश्राः–'पुलकितकुचकुम्भपालिराधा व्रजति मुकुन्दमुखेन्दुवीक्षणाय । विरचयति न मध्यभङ्गभीतिं गणयति नापि नितम्बगौरवाणि' इति । पण्डितराया अपि-'अवधौ दिवसावसानकाले भवनद्वारि विलोचने दधाना। अवलोक्य समागतं तदा मामथ रामा विकसन्मुखी बभूव इति ॥१५३॥ आवेगं लक्षयति -अनर्थति । अनातिशयात्संभ्रमाभिधावृत्तिरावेग इति योजना। तमुदाहरतिअकरइति। इयंतु गोपीनांखमनस्येव तदोक्तिःवयं स्मरतः कामसकाशात्पलाय्य व यामः गच्छाम इत्यर्थः । यथा वारसगङ्गाधरे-'लीलया विहितसिन्धुलङ्घनः सोऽयमेति रघुवंशनन्दनः । दर्पदुर्विलसितो दशाननः कुत्र यामि निकटे कुलक्षये' इति॥१५४॥ जडतां लक्षयति-जडतेति । तामुदाहरति-सीतेति । यथावा पण्डितरायाः -'यदवधि दयितो विलोचनाभ्यां सहचरिदैववशेन दूरतोऽभूत् । तदवधि शिथिलीकृतो मदीयैरथ करणैः प्रणयो निजक्रियासु' इति ॥ १५५ ॥ गर्व लक्षयतिरूपादिनेति । रूपादिना सौन्दर्यादिना। आदिपदाद्विद्यादि । निजोत्कर्षात् खमहत्वात् अन्यस्य अवहेलनमवज्ञाकरणं गर्व इति संबन्धः। तमुदाहरति-मत्सौ. न्दयति । इदं हि श्रीकृष्णं प्रति गोवर्धनोद्धरणलीलोत्तरं कदाचिद्विलासावसरे राधिकावाक्यम् । यथावा रसतरङ्गिण्याम्-‘निष्पीते कलशोद्भवेन जलधौ गौरीपतेर्गङ्गया होतुं हन्त वपुर्ललाटदहने यावत्कृतः प्रक्रमः । तावत्तत्र मया विपक्षनगरीनारीहगम्भोरुहद्वन्द्वप्रस्खलदश्रुवारिपटलैः सृष्टाः पयोराशयः' इति। परशुरामवाक्यमिदम् । यथावा रसगङ्गाधरे-‘आ मूलादनसानोर्मलयवलयितादा च कूलात्पयोधेर्यावन्तः सन्ति काव्यप्रणयनपटवस्ते विशङ्कं वदन्तु । मृद्रीकामध्यनिर्यन्मसृण