SearchBrowseAboutContactDonate
Page Preview
Page 149
Loading...
Download File
Download File
Page Text
________________ दक्षिणावर्तकम्बुरत्नम् ४] सरसामोदव्याख्यासहितम् । इष्टप्राप्त्यादिजनितं ध्यानं चिन्तेति कथ्यते । आयास्यति कदा कृष्णो मथुरातोऽत्र मानदः ॥ १४७ ॥ मोहो भयादिजा वृत्तिर्याथार्थ्यानवधारिणी । मुषित्वापसरन्मातनैत्यूचे भित्तिमेव सः ॥ १४८ ॥ स्मृतिः संस्कारजं ज्ञानं प्रत्यभिज्ञापि सैव नः । हृदि राधा ममाद्यापि सेयं श्रीरेव रुक्मिणी ॥ १४९ ॥ दुःखेऽप्यदुःखबुद्धिर्वा संतोषो वा धृतिर्मता । का चिन्तार्थेषु मे शंभोः पादाब्जं यदि मस्तके ॥ १५० ॥ व्रीडा स्त्रीणां पुमीक्षादेर्वृत्तिस्तेषां तु भङ्गतः । विष्णुं दृष्ट्वा नतास्या श्रीः सोऽपि गङ्गासुतं तथा ॥ १५१ ॥ स्येव परा सरखती' इति ॥ १४६ ॥ चिन्तां लक्षयति- इष्टेति । आदिनानिटावाप्यादिग्रहः । तामुदाहरति - आयास्यतीति । इदं हि राधायाः स्वमनस्येव वचः यथावा भानुमिश्राः -- 'शंभुं ध्यायति शैलराजतनया किं नाम जानीमहे तस्यैवाक्षि तनूनपादिव तनौ तापः समुन्मीलति । अक्ष्णोरमिषेण गच्छति बहिर्गङ्गातरङ्गावलिः पाण्डिम्नः कपटेन चन्द्रकलिकाकान्तिः समुन्मीलति' इति ॥ १४७ ॥ मोहं लक्षयति-- मोह इति । आदिपदादावेगादिः । याथार्थ्येति । यथार्थस्य भावो याथार्थ्य सत्यत्वं तस्य अनवधारिणी अनिश्चायिकेत्यर्थः । तामुदाहरति- मुषित्वेति । सः श्रीकृष्णः मुषित्वा स्तेयीकृत्येत्यर्थः । नवनीतादीति शेषः । अपसरन्पलायन्सन्नित्यर्थः । हे मातः, न नैव मया चौर्य कृतमिति मदान्धकारे निकटवर्ति गोप्यन्तरमन्दिरे यशोदायास्तत्रागमनशङ्कया तद्भयाद्भित्तिमेव ऊचे उक्तवानित्यन्वयः । यथावा रसतरङ्गिण्याम् - 'अन्तः स्मेर सुवर्णकेतक दलद्रोणीद्युतिद्रोहिणीं लक्ष्मीं वीक्ष्य समुद्यदिन्दुवदनां क्षीराम्बुधेरुत्थिताम् । शंभुः स्तम्भशताकुलः शतमखः कर्तव्यमूढेन्द्रियः सोऽप्यज्ञानभुजंगपाशपतनो जातस्त्रिलोकीपतिः' इति ॥ १४८ ॥ स्मृतिं लक्षयति – स्मृतिरिति । नः अस्माकमित्यर्थः । तामुदाहरति - हृदीति । इदं हि भगवतः खरत्यागारे रुक्मिण्या सह विलसत: खमनस्येव वचः । तत्र प्रथमं दलं स्मृतेश्वरमं तु प्रत्यभिज्ञाया उदाहरणं बोध्यम् । यथावा भानुमिश्राः - ' वन्दनाम्बुजलग्न दृष्टिपाते मयि बनत्यवतंसमंसमूले । दरकुञ्चितदृष्टिराधिकायाः स्मितकिमीरितमाननं स्मरामि । कालिन्दीसरसः समेत्य नभसः कोडे परिक्रीडते चक्रद्वन्द्वमिदं सुधाकरकलामाक्रम्य विस्फूर्जति । चन्द्रोऽपि स्मरचापचापलचमत्कारं समालम्बते तस्मात्सैव कदम्बकुञ्जकुहरे राधा परिभ्राम्यति' इति ॥ १४९ ॥ धृतिं लक्षयति —– दुःखेऽपीति । तामुदाहरति-केति ॥ १५० ॥ व्रीडां लक्षयति- व्रीडेति । क्रमेणोदाहरति - विष्णुमिति । ग ङ्गासुतो भीष्मः ततः स्वप्रतिज्ञाभङ्गात्तद्दर्शनेन नतास्यत्वमित्याशयः । यथावा रसगङ्गाघरे– 'कुचकलशयुगान्तर्मामकीनं नखाङ्कं सपुलकतनु मन्दं मन्दमालोकमाना । - १२ १३३
SR No.023485
Book TitleSahityasaram
Original Sutra AuthorN/A
AuthorAchyutrai, Vasudev Lakshman Shastri
PublisherTukaram Javaji
Publication Year1906
Total Pages576
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy