SearchBrowseAboutContactDonate
Page Preview
Page 148
Loading...
Download File
Download File
Page Text
________________ १३२ साहित्यसारम् । [ पूर्वा शङ्का तु किमनिष्टं मे स्यादित्थं वृत्तिरान्तरा । अस्ताचलावलम्ब्येष भास्करोऽथ कथं भवेत् ॥ १४१ ॥ परोत्कर्षासहिष्णुत्वमसूया मत्सराभिधा । सति मदनेऽपीदुर्दैवादेवोदितो हरे ॥ १४२ ॥ अतिहर्षोत्तरा वृत्तिर्मद्याद्युत्थाथवा मदः । जयी कामः शिवेऽप्येति बलः पानेन सुप्यति ॥ १४३ ॥ देहव्यापार पौष्कल्यात्पराभूतिः श्रमः स्मृतः । वृक्षमूलस्थरामाङ्के सीता निद्रापराभवत् ॥ १४४ ॥ क्रियाऽनुन्मुखतालस्यं चित्ते गर्भधमादिजा । विजये वक्तुमप्यद्य नच्छा मे गर्भगौरवात् ॥ १४५ ॥ दुःखादिजनिता चित्तवृत्तिर्देन्यं स्वदोषकृत् । हन्ताद्य मन्दया नन्दनन्दनो नादृतो मया ॥ १४६ ॥ व्यज्यते । एतादृशी सा प्रसिद्धा राधा आगतं कृष्णं कटाक्षैरेव सप्रेमतिर्यगवलोकनैरेव नत्वर्ध्यपाद्यादिभिः अयजत् । अपूजयदित्यर्थः । एतेन तस्याः प्रत्युद्गमनार्थमुत्थानेऽप्यसामर्थ्य ध्वनितम् । अत्र कटाक्षपदेनैतावान्विलम्बः किमिति संपादित इत्यनुचितकारित्वं नायके द्योतितम् ॥ १४० ॥ शङ्कां लक्षयति - शङ्कात्विति । आन्तरा अन्तःकरणजा नतु शब्दजा शब्दनिष्ठा शक्त्यादिवृत्तिः तज्जन्यार्थे पस्थितिरिति यावत् । उक्तं हि रसगङ्गाधरे - ' किमनिष्टं मे भविष्यतीत्याकारश्चित्तवृत्तिविशेषः शङ्केति । तामुदाहरति — अस्तेति । इदं हि विरहिण्या: राधिकाया वचः ॥१४१॥ असूयां लक्षयति — परेति । तामुदाहरति — सतीति । अपिना गर्वा - तिशयः सूचितः । दैवादेवेत्यनेन मदने सत्येतस्य कलङ्किनश्चन्द्रस्योदयेन नैव भाव्यं परंतु दैववशादेवास्योदय: संपन्न इत्यसहिष्णुत्वं ध्वनितम् । इयमपि सौन्दर्यगर्वितायास्तस्या एव हरिं प्रत्युक्तिः ॥ १४२ ॥ मदं लक्षयति- अतिहर्षेति । क्रमेण लक्षणद्वयेऽप्युदाहरणद्वयमाह – जयीति । त्रैलोक्यविजयीत्यर्थः । एतेनातिहर्षः सूचितः । अतएव शिवे तद्विषयकजय संपादनार्थमिति यावत् । एति गच्छति । अपिशब्देनात्र तस्य सर्वेश्वरत्वात्तत्रैतद्गमनमनुचितमिति द्योतितम् । बलो बलरामः ॥ १४३ ॥ श्रमं लक्षयति - देहेति । पराभूतिः शरीरे व्यवहारपराच्खतेत्यर्थः । तमुदाहरति-वृक्षेति । अत्र वृक्षमूलेति पदेन तस्यां मार्गश्रमः सूचितः ॥ १४४ ॥ आलस्यं लक्षयति – क्रियेति । चित्ते गर्भश्रमादिना रतिश्रमादेर्ग्रहः । ईदृशी या क्रियानुन्मुखताव्यापारपरा वृत्तिस्तदालस्यमिति योजना । तदुदाहरति - विजय इति । इदं हि स्वसखीं प्रति गौरीवचः ।। १४५ ।। दैन्यं लक्षयति — दुःखादीति । आदिना पश्चात्तापादिः । तदुदाहरति - हन्तेति । मया न आदृत इति संबन्धः । यथावा रसगङ्गाधरे — 'हतकेन . मया वनान्तरे वनजाक्षी सहसा विवासिता । अधुना मम कुत्र सा सती पतित
SR No.023485
Book TitleSahityasaram
Original Sutra AuthorN/A
AuthorAchyutrai, Vasudev Lakshman Shastri
PublisherTukaram Javaji
Publication Year1906
Total Pages576
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy