SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ क्षिणावर्तकम्बुरत्नम् ४] सरसामोद व्याख्यासहितम् । १३१ तथाच को विरोधोऽत्र भक्तालंकारिकाध्वनोः । अवराव्यभिचारित्वाद्भक्तिर्भावोऽस्तु का क्षतिः ॥ १३७ ॥ निर्वेदेति रतिर्देवेत्यादि चोक्त्या पुरातनैः । भावाः प्रोक्ताश्चतुस्त्रिंशद्विवीयन्ते क्रमेण ते ॥ १३८ ॥ अवज्ञादिसमुत्पन्ना वृत्तिर्निर्वेद उच्यते । ममा भिज्ञसुतस्यापि यदि मौख्यं किमायुषा ॥ १३९ ॥ ग्लानिराध्यादिजा देहव्यापाराक्षमता मता । विससुप्ताऽगतं कृष्णं कटाक्षैरेव साध्यजेत् ॥ १४० ॥ एतावतापि मतद्वयमेवोपपादितम् । तथाचोक्तदोषतादवस्थ्यमेवेति तत्राह - तथाचेति । तथापि कथं विरोधाभाव इति शङ्कमानं स्वाभिसंधिमजानानं प्रति तमुद्घाटयति — अवरेति । अयं भावः - भक्तिर्हि द्विविधा मुख्याऽमुख्या च । तत्राद्यायाः आलंकारिक्रमते शान्तेऽन्तर्भावादन्त्यायाश्च भावत्वात्तत्खण्डनं, भक्तमते तु शान्तस्यैव तत्रान्तर्भावादाद्याया एव रसत्वोक्त्या तन्मण्डनं चेत्यविरोध इति । अतएव तत्र परेत्यादितद्विशेषणानि ॥ १३७ ॥ एवं रसान्निरूप्य तत्सहायीभूतान् भावान्निरूपयितुं पूर्वाचार्यसंमतिपूर्वकं तत्संख्यामाह — निर्वेदेतीति । तथाच काव्य • प्रकाशे भरतकारिकाः—‘निर्वेदग्लानिशङ्काख्यास्तथासूयामदश्रमाः । आलस्यं चैव दैन्यं च चिन्तामोहः स्मृतिर्धृतिः । व्रीडा चपलता हर्ष आवेगो जडता तथा । गर्वो विषाद औसुक्यं निद्रापस्मार एव च । सुप्तं विबोधोऽमर्षश्चाप्यवहित्थमथोग्रत! । मतिव्याधिस्तथोन्मादस्तथा मरणमेव च । श्वासश्चैव वितर्कश्च विज्ञेया व्यभिचारिणः’ इति । तत्रैव 'रतिर्देवादिविषया व्यभिचारी तथाञ्चितः' इति च । व्यभिचारिभावसामान्यलक्षणं तूक्तं रसगङ्गाधरे भावान्प्रकृत्य — ' विभावादिव्यज्यमानहर्षाद्यन्यतमत्वम्' इति व्यभिचारिभावत्वमिति शेषः ॥ १३८ ॥ तत्रोक्तोद्देशक्रमानुसारेण 'संचारिणां तु लक्ष्मादि वक्ष्याम्यग्रे यथाक्रमम्' इति । प्राक्प्रतिज्ञातं तलक्ष्मादिकथनं कुर्वन् विस्पष्टं प्रथमं निर्वेदं लक्षयति — अवज्ञादीति । आदिपदात्तिरस्कारादेर्ग्रहः । एतच्चावज्ञादि परकृतमेव वोध्यम् । स्वकृतस्य तु तस्य विचारं विनाऽसंभवात्तदङ्गीकारे च शान्तस्थायिनि निर्वेदे अतिव्याप्तेस्तस्माद्युक्तमेवात्र परकृतत्वमिति तत्त्वम् । ननु कथमेकस्यैव निर्वेदस्य स्थायित्वं व्यभिचारित्वं चेति चेन्न । लक्षणभेदेन भिन्नत्वस्योक्तत्वात् । तमुदाहरति — ममेति । यथावा रसतरङ्गिण्याम् —' क्षोणीपर्यटनं श्रमाय विदुषां वादाय विद्यार्जिता मानध्वंसनहेतवे परिचितास्ते ते नराधीश्वराः। विश्लेषाय कुरङ्गसुन्दरदृशामास्ये कृता दृष्टयः कुज्ञानेन मया प्रयागनगरे नाराधि नारायणः ' इति ॥ १३९ ॥ ग्लानिं लक्षयति – ग्लानिरिति । आध्यादिजा मनोव्यथा दिसंभूता । आदिना व्याध्यादिसंग्रहः । एतादृशी देहव्यापाराक्षमता शरीरव्यवहारेप्यसमर्थता ग्लानिर्मतास्तीत्यन्वयः । तामुदाहरति - बिसेति । बिसेषु कमलतन्तुषु सुप्ता शयाना । एतेन विरहदाहातिशयो
SR No.023485
Book TitleSahityasaram
Original Sutra AuthorN/A
AuthorAchyutrai, Vasudev Lakshman Shastri
PublisherTukaram Javaji
Publication Year1906
Total Pages576
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy