SearchBrowseAboutContactDonate
Page Preview
Page 146
Loading...
Download File
Download File
Page Text
________________ १३० साहित्यसारम् । [पूर्वार्धे एतेषां तु प्रधानत्वे ध्वनित्वं गुणभावतः। रसालंकारता साच गौणव्यङ्गये स्फुटीभवेत् ॥ १३३॥ रसं भक्त्याख्यमप्याहुर्भक्ताः शाण्डिल्यवर्त्मगाः। खण्डयन्त्यपि तच्चान्य आलंकारिकमानिनः ॥१३४ ॥ वस्तुतस्तूभयं श्लाघ्यं यो मद्भक्त इति स्मृतेः। मुख्या भक्तिः पुनर्जीवन्मुक्तिरेवोच्यतां बुधैः ॥ १३५ ॥ एवं च शान्त एवान्तीवात्तत्खण्डनं तथा । मण्डनं चात्मनिष्ठत्वाद्रसत्वाद्धटततराम् ॥ १३६ ॥ एवं तद्विशेषमभिधायान्यमपि तत्र विशेषं तत्राद्यं तु द्विधा व्यङ्गयप्रधानगुणभावतः' इत्यादिना पुरा सूचितमपि पुनः स्फुटयति--एतेषामिति । उक्तं हि रसगङ्गाधरे-एषां प्राधान्ये ध्वनिव्यपदेशहेतुत्वं गुणीभावे तु रसालंकारत्वमिति । ननु ध्वनित्वमुक्तरीत्या स्पष्टमेव रसालंकारत्वं तु कथमिति चेद्गौणव्यङ्गयापरनामको. तमकाव्यनिरूपणे तस्योदाहरिष्यमाणत्वान्नात्र तत्प्रपश्यत इत्याह-साचेति ॥ १३३ ॥ अथावसरप्राप्तत्वेन भक्तिरसमानिनां मतं संक्षिपति-रसमिति । शाण्डिल्यो हि भक्तिशास्त्रस्य सूत्रकारः तद्वम॑गाः 'अथातो भक्तिजिज्ञासा' इत्यादि तदुक्तमार्गानुसारिण इत्यर्थः। तथाचोक्तं भगवद्भक्तिचन्द्रिकामृतरसोल्लासे—'परत्रानासङ्गं जनयति रतिर्या नियमतः परस्मिन्नेवास्मिन्समरसतया पश्यत इमम् । परप्रेमाढ्येयं भवति परमानन्दमधुरा परा भक्तिः प्रोक्ता रस इति रसास्वादनचणैः' इति । अधिकं तु तट्टीकादावेव बोध्यम् । अस्त्वेवं तर्हि सापि दशमो रस इति तत्राह-खण्डयन्त्यपीति। उक्तं हि काव्यप्रकाशमूले–‘रतिर्देवादिविषया व्यभिचारी तथाञ्चितः । भावः प्रोक्तः' इत्यादिना । विस्तरस्तु रसगङ्गाधरादौ द्रष्टव्यः ॥ १३४ ॥ नन्वेवं तर्हि किं भक्तमतं श्लाघ्यमालंकारिकमतं वेति तत्राह-वस्तुतस्त्विति । कथमुभयश्लाध्यत्वं तन्मतोक्तयुक्तिविरोधात्प्रत्युत सुंदोपसुंदन्या. येनोभयध्वंसापत्तेश्चैत्यतो गूढाभिसंधिः। प्रथमं मुख्यं भक्तिखरूपमेवोपपादयतियो मद्भक्त इत्यादिना शेषेण । उक्तं हि भगवद्गीतासु–'अद्वेष्टा सर्वभूतानां मैत्रः करुण एवच । निर्ममो निरहंकारः समदुःखसुखः क्षमी । संतुष्टः सततं योगी य. तात्मा दृढनिश्चयः । मर्पितमनोबुद्धिर्यो मद्भक्तः स मे प्रियः' इति । श्रीमद्विद्यारण्यगुरवोऽपि जीवन्मुक्तिविवेक आहुः-'जीवन्मुक्त: स्थितप्रज्ञो विष्णुभक्तश्च कथ्यते' इति ॥ १३५ ॥ भवत्वेवं जीवन्मुक्तेरेव मुख्यभक्तित्वं किं तावतेत्यत आह-एवंचेति । जीवन्मुक्तेरेव मुख्यभक्तित्वसिद्धौ सत्यामित्यर्थः । शान्ते शान्तरसे । तत्खण्डनं आलंकारिकक्रियमाणं तस्याः रसान्तरत्वनिरसनम् । तथा आत्मनिष्ठत्वादद्वैतात्मविषयकवृत्तिविशेषलाद्धेतोः रसत्ववशात्तस्याः मण्डनं भक्तकृतपृथग्ररसत्वोपपादनमपि घटतेतरां इति यावत् ॥ १३६ ॥
SR No.023485
Book TitleSahityasaram
Original Sutra AuthorN/A
AuthorAchyutrai, Vasudev Lakshman Shastri
PublisherTukaram Javaji
Publication Year1906
Total Pages576
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy