________________
दक्षिणावर्तकम्बुरत्नम् ४] सरसामोदव्याख्यासहितम् ।
१२९
एते रसाः पुनद्वैधा लौकिकालौकिकत्वतः । आद्यास्तूता द्वितीयाश्च यान्ति त्रिविधतां पुनः ॥ १३० ॥ स्वप्ना मानोरथा औपनायिकाश्चेति तत्क्रमः । स्वप्नेऽपश्यद्रमां कृष्णोऽस्म्यहं वीरो मनोरथैः ॥ १३१ ॥ पदादिभिश्चमत्कारात्काव्ये चाभिनयादिभिः । नाट्ये च सुधियां जात औपनायिक उच्यते ॥ १३२ ॥
र्तव्यमस्तीति पृष्टस्य ब्रह्मनिष्ठस्य रहसि व्यावहारिकदृशा तं प्रत्युक्तिः । परमार्थतस्वदृशा तु 'न निरोधो नचोत्पत्तिर्न बद्धो नच साधकः । न मुमुक्षुर्न वै मुक्त इत्येषा परमार्थता' इति श्रुतेन किंचिदेतत् । एतेन 'अहं मनुरभवं सूर्यश्च' इत्यादिश्रुतयो 'न मे पार्थास्ति कर्तव्यम्' इत्यादिस्मृतयोऽपि व्याख्याताः । सार्वात्म्य कर्तव्यताभावादेश्च व्यवहारदृशैव ताभिरुक्तत्वात्परमार्थे तु सर्वशब्दितदृश्यस्यैव राहित्येन तन्निरूपिततदात्मत्वस्यापि सुतरामसंभवादत एव सुत्यादाविव कर्तृत्वाभावस्यार्थसिद्धत्वाच्च । अत्र दृश्यमालम्बनं तन्मिथ्यात्वबोध उद्दीपनं च प्रथमपादेन, चतुर्थः पादेनौदासीन्य रूपोऽनुभावः, शेषेण मतिलक्षणः संचारी चेत्येतैः पुष्टो निर्वेद एव रूपकाद्यलंकारतः प्राधान्येन ध्वन्यते । यथावा श्रीमत्सदाशिवब्रह्मेन्द्रसरस्वत्यः‘देशिकेन्द्रकृपाचन्द्रसमेधित चिदम्बुधौ । निमग्नोऽहं न पश्यामि मत्तोऽन्यद्वस्तु किंचन' इति ॥ १२९ ॥ एवं नवरसानभिवर्ण्य पुनरेतेषां लौकिकत्वादिभेदेन द्वैविध्यं विधत्ते - एत इति । संयोगादिलौकिक संनिकर्षजन्यत्वं लौकिकत्वं ज्ञानाख्यालौकिकसंनिकर्षजन्यत्वमलौकिकत्वम् । तथाचोक्तं रसतरङ्गिण्याम् – सच रसो द्विविधः लौकिकोऽलौकिकश्चेति । लौकिकसंनिकर्षजन्मा रसो लौकिकः । अलौकिकसंनिकर्षजन्मा रसोऽलौकिकः । लौकिकसंनिकर्षः षोढा विषयगतः । अलौकिकसंनिकर्षो ज्ञानं तेषु चानुभूतेषु ज्ञानमेतज्जन्माननुभूतेषु अपि तेषु प्राक्तनसंस्कारद्वारा ज्ञानमेव प्रत्यासत्तिः । अलौकिकरसस्त्रिधा स्वाप्तिको मानोरथिक औपनायिकश्चेति । औपनायिकश्च काव्ये पदपदार्थचमत्कारे नाट्ये च । परंतु द्वयोरप्यानन्दरूपता । ननु मानोरथिको रसो न प्रसिद्ध इति चेत्सत्यम् | 'अस्माकं तु मनोरथोपरचितप्रासादवापीतट क्रीडाकाननकेलि कौतुकजुषामायुः परं क्षीयते' इत्यादौ मानोरथिकश्शृङ्गारश्रवणात् । शास्त्रेषु सुखत्रैविध्यगणनाच्च रसेन विना च सुखानुत्पत्तेरितीति ॥ १३० ॥ प्रतिज्ञातमलौकिकरसत्रैविध्यं विशदयति – स्वाप्ना इत्यर्धेन। स्वप्ने भवाः स्वाप्नाः। मनोरथे भावाः मानोरथाः । उपनायके काव्ये बुद्धिस्थत्वेन नाट्ये निकटवर्तिनटाभिन्नत्वेन भावितत्वात् समीपवर्तिनि नायके भवा औपनायिकाः । तत्र द्वावुदाहरति—स्वप्नइत्यादिपादाभ्याम् ॥ १३१ ॥ अन्त्यमुद्बोधयति — पदादिभिरिति । काव्ये पदादिभिस्तथा नाट्ये अभिनयादिभिश्च सुधियां चमत्काराद्यो रसो जातः स औपनायिक उच्यत इति संबन्धः ॥ १३२ ॥
•