________________
१२८
साहित्यसारम् ।
मायिकादिविभावश्च रोमाञ्चाद्यनुभावकः । मोहादिव्यभिचारी च विस्मयस्थायिकोऽद्भुतः ॥ १२६ ॥ वटपत्र पुढे शेते कराजेन पदाम्बुजम् । मुखाम्भोजे विनिक्षिप्य कोऽयमेकार्णवे शिशुः ॥ १२७ ॥ द्वैत प्रबोधौदासीन्यमतिमुख्यैः सुपोषितः । विभावाद्यैस्तु निर्वेदस्थायी शान्तो रसः स्मृतः ॥ १२८ ॥ कदाप्यदृष्टदृश्यस्य भूम्नश्चिन्मात्रवस्तुनः । अखण्डानन्दसिंधो में करणीयं किमीहितम् ॥ १२९ ॥
[ पूर्वार्धे
श्चेति बहुव्रीहिगर्भितकर्मधारयः । तद्धेतूनाह - अनीक्ष्येति । ईक्ष्यं दर्शनीयं रमणीयं न भवतीत्यनीक्ष्यं प्रेतादि तस्य ज्ञानं आदि येषां तैरित्यर्थः । चितः उपचितः पुष्ट इति यावत् । तमुदाहरति - खादन्तीति । अत्र प्रेतमालम्बनम्, पिशाचकर्तृकं तन्मांसखादनमुद्दीपनम्, तद्दर्शनादिजन्यो गात्रकम्पाद्यनुभावः उत्तमनिष्ठत्वेनार्थाक्षिप्तमवहित्थादिव्यभिचारि चेत्येतैः पुष्टा जुगुप्सैव स्वभावोक्त्यलंकारान्मुख्यत्वेन ध्वन्यते ॥ १२५ ॥ एवमद्भुतं लक्षयति- मायिकादीति । स्पष्टार्थः ॥ १२६ ॥ तमुदाहरति - वटपत्रेति । इयं हि भगवन्मायां दृष्टवतो मार्कण्डेयस्यैकार्णवावसरे स्वमनस्येवोक्तिः । यः कराब्जेन पदाम्बुजं मुखाम्भोजे विनिक्षिप्य एकार्णवेऽपि वटपत्रपुटेऽपि शेते अयं शिशुः कः अस्तीत्यन्वयः । अत्र भगवदालम्बनस्तदीयोक्त लीलावलोकनोद्दीपनस्तदाक्षिप्तरोमाञ्चाद्यनुभावो मोहादिव्यभिचारी च विस्मय एव लुप्तोपमालंकारापेक्षया मुख्यत्वेन व्यज्यते । यथावा रसगङ्गाधरे - ' चराचरजगज्जालसदनं वदनं तव । गलं गहनगाम्भीर्य वीक्ष्यास्मि हृतचेतना' इति । इदं श्रीकृष्णमुखे विश्वं पश्यन्त्या यशोदाया एव वचनम् ॥ १२७॥ अथावशिष्टं शान्तरसं लक्षयति — द्वैतप्रबोधेति । द्वैतं आलम्बनम्, प्रबोधो ब्रह्मसाक्षात्कार उद्दीपनम्, औदासीन्यमनुभावः ' मतिर्व्यभिचारी च तन्मुख्यैर्विभावादिभिः सुपोषितः परिपुष्टः निर्वेदस्थायी निर्वेद एव स्थायी यस्य एतादृशः शान्तो रसः स्मृतोऽस्तीत्यन्वयः ॥ १२८ ॥ तमुदाहरति - कदापीति । कस्मिंश्चिद्देशे कालेऽपीत्यर्थः । अदृष्टेति । न दृष्टं सत्यत्वेनानुभूतं दृश्यं ज्ञानोत्तरकालावच्छेदेन यावद्वैतं येन स तथेत्यर्थः । भूम्नः व्यापकस्य | चिन्मात्रेति । चिदेकरसवस्तुन इत्यर्थः । ननु भवत्वेवमद्वैतदृगेकस्वरूपत्वेन तत्त्वज्ञानोत्तरं त्रैकालिको द्वैत मिथ्यात्वबोधस्तथापि किं तावता दुःखनिवृत्तिसुखावाप्त्यन्यतरस्य पुरुषार्थस्य सिद्ध्यभावात्कर्तव्यतायास्तदर्थमुर्वरितत्वं सिद्धमेव तत्राह - अखण्डेति । अखण्ड स्त्रिविधपरिच्छेदशून्यो य आनन्दः स एव सिंधुस्तस्येत्यर्थः । एतादृशस्य मे ब्रह्मविदः ईहितं इच्छितं करणीयं संपादनीयं किमस्ति । न किंचिदपीत्यर्थः । जीवन्मुक्तत्वेन कृतकृत्यत्वादिति भावः । इयं हि केनचित्सुहृदा सतीर्थ्येन भो मित्र, भवतामितः परं किं साधनजातं योगादिरूपक