________________
१२७
दक्षिणावर्तकम्बुरत्नम् ४ ] सरसामोदव्याख्यासहितम् । १२७
तात मृत्युभयं यस्य स किं भागवतो भवेत् । प्रहादोऽहं तु नामैकतत्परः किं पुनस्तराम् ॥ १२२ ॥ क्रूरक्षादिविभावैश्च कम्पनाद्यनुभावकैः। मोहादिभिः सहायैश्च भयस्थायी भयानकः ॥ १२३ ॥ श्रुत्वा विद्युवनिं राधा तद्वदेवाश्लिषद्धनम् । कृष्णमुत्कम्पमानाङ्गी त्रस्तबालमृगेक्षणा ॥ १२४ ॥ जुगुप्सास्थायिबीभत्सोऽनीक्ष्यज्ञानादिभिश्चितः ।
खादन्ति प्रेतमांसानि स्मशानेषु पिशाचकाः ॥ १२५ ॥ तामधीश्वरे जनार्दने वा जगदन्तरात्मनि । न वस्तुतो विप्रतिपत्तिरस्ति मे तथापि भक्तिस्तरुणेन्दुशेखरे' इति । कर्णामृतेऽपि-'शैवा वयं न खलु तत्र विचारणीयं पञ्चाक्षरीजपपरा नितरां तथापि । चेतो मदीयमतसीकुसुमावभासं स्मेराननं स्मरति गोपवधूकिशोरम्' इति ॥ १२१ ॥ भक्तिवीरमुदाहरति–ता. तेति । हिरण्यकशिपु प्रति प्रह्लादवचन मिदम् । स्फुट एवाक्षरार्थः । नचात्र धृतिवीरत्वं शङ्कयम् । अत्र तयञ्जनाभावात् भक्त्युत्साहस्यैव ध्वननाच्च । तथाहि यतः अहं प्रहादः प्रकर्षण हादयति रलयोः सावात् ह्रादयति स तथा जगदानन्दकः । किंच पुनस्तरामत्यन्तनामैकतत्परः त्वत्कृतमृत्युभये समुपस्थितेऽपि यतोऽहं विश्वाह्लादकः श्रीहरिनामस्मरणैकपरायणोऽतोऽहमेव भागवत इति योजना ॥ १२२ ॥ एवं वीररसं प्रपच्याथ क्रमप्राप्त भयानकं लक्षयति-क्रूरेक्षादीति। करस्य भयंकरस्य वस्तुनः ये ईक्षादयः अवलोकनादयः। आदिपदाच्छ्वणादेः संग्रहः । ते च ते विभावाः उद्दीपनादिविभावास्तैरित्यर्थः । तथा कम्पनाद्यनुभावकैः कम्पाद्यनुभावैः एवं मोहादिभिः सहायैः व्यभिचारिभावैश्च पुष्टः भयस्थायी भयमेव स्थायी यस्य स भयानको रस इत्यर्थः । एवंच क्रूरदर्शनादिविभावादिपुष्टभयस्थायित्वं भयानकरसत्वमिति तल्लक्षणं फलितम् ॥ १२३॥ तमुदाहरति-श्रुत्वेति। राधा विद्युद्धनिं तडिन्नादं श्रुत्वा अतएव उत्कम्पमानाङ्गी उत्कर्षेण कम्पितगात्रेत्यर्थः । अतएव त्रस्तेति । त्रस्ताः भीताः ये बालमृगास्तदीक्षणवचकिते ईक्षणे लोचने यस्याः सा तथेत्यर्थः । एतादृशी च सती तद्वदेव विद्युतवैव घनं यथा स्यात्तया परमगाढ मित्यर्थः । यद्वा श्यामरूपतया घनरूपं कृष्णं आश्लिषत् समालिलिङ्गेत्यर्थः । घनमिति विद्यद्वनेरपि विशेषणम् । अत्र विद्युवनिश्रवणमालम्बनम्, तद्धनत्वमुद्दीपनम् , उत्कम्पनमनुभावः, चकितदृष्टयाक्षिप्तमोहादिः संचारी चेत्येतैः पुष्टो भयाख्यः स्थाय्येव रूपकाद्यलंकारतः प्रधानभावेन ध्वन्यते । यथावा रसतरङ्गिण्याम् –'गोपी क्षीरघटीविलुण्ठनविधिव्यापारवार्ताविदोः पि. त्रोस्ताडनशङ्कया शिशुवपुर्दैवः प्रकाश्य ज्वरम् । रोमाञ्चं रचयन् दृशौ मुकुलयन्प्रत्यङ्गमुत्कम्पयन्सीत्कुर्वस्तमसि प्रसर्पति गृहं सायं समागच्छति' इति ॥ १२४ ॥ तद्वद्वीभत्सं लक्षयति-जुगुप्सेति । जुगुप्सा स्थायी यस्य स चासौ बीभत्स