________________
१२६
साहित्यसारम्
[ पूर्वार्धे
ये वादेनापि हिंसन्ति ते जैनाः किमहिंसकाः। अहं तु मनसाप्येनं नैव हिंस्यां कदापि च ॥ ११८॥ कायव्यूहादिवार्तेयं भुशुण्डाग्रेऽपि युज्यते। ब्रह्माण्डरचना येन बहुवारमवेक्षिताः ॥ ११९ ॥ वागियं कालिदासीया भवभूतेः पुरोऽपि मे। वल्मीकजन्मनैवेह यस्योदरनिबन्धनम् ॥ १२० ॥ वेदाः शतं प्रजल्पन्तु नारायणमिहाधिकम् ।।
सतीव मन्मतिः कान्ताच्चन्द्रचूडाञ्चलेच्च किम् ॥ १२१ ॥ हरति—ये वादेनापीति । इयं हि जैनमते तावदहिंसा परमरमणीयेति वादिनं प्रति कस्यचिद्यतेरुक्तिः । वादेन क्षणिकत्वादिकथाविशेषेण हिंसन्ति सामान्यता. र्किकादीन्खण्डयन्तीत्यर्थः । स्पष्टमन्यत् । शिष्टं तूक्तदिशैवोह्यम् ॥ ११८॥ ऐश्वर्यवीरमुदाहरति-कायेति । इदं तु योगवासिष्ठप्रसिद्धभुशुण्डकाकस्य कंचि. द्योगैश्वर्य वर्णयन्तं प्रति वचः । कायव्यूहोऽनेकदेहधारणमेककालमेवोपभोगार्थम् ॥ ११९ ॥ कवित्ववीरमुदाहरति-वागियमिति । इदं हि भोजसभायां भवभूतिवचनम् । इयं प्रत्यक्षा कालिदासीया कालिदाससंबन्धिनी भवभूतिनाम्नः कवेम पुरोऽप्यस्ति । काक्वा न किंचिदेवेयमित्यर्थः । तत्रहेतुः वल्मीकेत्युत्तरार्धेन । इह लोके यस्य भवभूतेः। उदरनिबन्धनं उदरोपलक्षितकटिबन्धनं वल्मीकजन्मना वल्मीकनाम्नो महर्षर्जन्म यस्य तेन भगवता वाल्मीकिना सहैवास्तीत्यर्थः । येन भवभूतिना श्रीवाल्मीकिनैव सह कविताविषये परिकरो बद्धस्तस्य ममाग्रेऽपि कालिदासस्येयं वाणी कथं वा प्रसर्तुमपि योग्या।तस्मादनेन नैव स्वकाव्यादिकं मत्पुरः प्रकाशनीयमित्याशयः। अत्रैवकारेण सुतरां तदितरानादरः सूचितः । यद्वा सरस्वतीमुद्दिश्येदं गणपतेर्वास्तु वचः । तथाच भो षडानन, या मे आलिः दासी 'आलिः सखी वयस्या च' इत्यमरात्सखीव सहचर्याः बुद्धेर्दासी परिचारिकेत्यर्थः । सेयं वाक् सरस्वती भवभूतेः भवाच्छिवाद्भतिः संभूतिरुत्पत्तिरिति यावत् । स्पष्टमन्यत् । शिवसुतस्य गणपतेरपि मे पुरः का। न किमपीत्यर्थः । कुत इत्यत आह-वल्मीकेति । वल्मीकेजेन्म यस्य । उपलक्षणमिदं । प्रायेण नागो वल्मीक एवावतिष्ठते तस्माद्भगवता सहस्राननेन शेषेणैवेत्यर्थः । उक्तार्थमेवान्यत् । श्रीमद्गजाननस्य तुन्दबन्धो भुजं. गमराजेनैवेति प्रसिद्धमेव । तस्मान्महाभाष्यकारोऽपि यस्योपस्करीभूतस्तस्य हेरम्बस्य मे पुरो मत्सुंदर्या अपि दासीयं सरस्वती कथमपि नैव युक्तास्तीति तत्त्वम् ॥ १२० ॥ श्रद्धावीरमुदाहरति-वेदा इति । इयं हि कंचिद्वैष्णवं पण्डितं प्रति श्रद्धालोः शैवस्योक्तिः । 'तत्वं नारायणः परः' इत्यादिश्रुतेः नारायणपरा वेदाः' इति वचनाच्च वेदाः इह लोके नारायणं विष्णुं अधिकं सर्वोत्तमं शतं बहुवारमपि प्रजल्पन्तु वदन्त्वित्यर्थः । तथापि मन्मतिः कान्तात्स्वरमणात्सतीव साध्वीव चन्द्रचूडाच्छिवाचलेच्च किम् । नैव चलिष्यतीत्यर्थः । यथावा 'महेश्वरे वा जग