________________
१२५
दक्षिणावर्तकम्बुरत्नम् ४ ] सरसामोदव्याख्यासहितम् ।
मन्दोदरि कुबेरस्य रावणे गणनैव का। यस्य मे किंकरायन्ते संक्रन्दनमुखाः सुराः ॥ ११४ ॥ सखि तिष्ठतु सा राधा सत्यभामास्म्यहं किल । यदियं मत्तनुच्छाया गौरीमपि परा जयेत् ॥ ११५॥ दूरे मयस्तु नो येन विश्वकर्मापि गण्यते । को वा तस्य परीक्षेत कुशलः शिल्पकल्पनाम् ॥ ११६ ॥ गन्धर्वाप्सरसां तत्र कर्तु वार्तापि शक्यते । भारत्यपि द्रवीभूताऽलापलेशेन यस्य मे ॥ ११७ ॥
आदिपदात्कान्तिवीरादेग्रहः ॥ ११३॥ तत्र संपद्वीरमुदाहरति--मन्दोदरीति । इयं हि मन्दोदरी प्रति रावणोक्तिः । अत्र हि रसाविष्टचेतस्तया 'आत्मनाम गुरोर्नाम नामातिकृपणस्य च । श्रेयस्कामो न गृह्णीयाज्ज्येष्टापत्यकलत्रयोः' इति धर्मशास्त्रनिषिद्धमपि खकलननामग्रहणं कृतं तेन रसपरिपोष एव संपन्न इति प्रकृते युक्तमेव तदित्याशयः । 'संक्रन्दनो दुश्यवनः' इत्यमरात्संक्रन्दन इन्द्रः । अक्षरार्थस्तु स्फुट एव । एवंचेहााक्षिप्तमन्दोदरीकृतकुबेरसंपदुत्कर्षवर्णनोद्दीपितस्तत्संपदालम्बित उत्तरार्धध्वानेतस्थैर्यानुभावितः पूर्वार्धसूचितगर्वसहचारी चोत्साह एव स्वसंपत्संबन्धी काव्यलिङ्गालंकारतः प्राधान्येन व्यज्यते ॥ ११४ ॥ रूपवीरमुदाहरति-सखीति । अत्र राधावलम्बनम् , अर्थात्सखीकृततद्रूपाधिक्यवर्णनमुद्दीपनम् , उत्तरार्धसूचितस्थैर्यमनुभावः, स्वनामग्रहणद्योतितगर्वो व्यभिचारी चेत्येतैः पुष्टो रूपोत्साह एव परिकराङ्कुराद्यलंकारापेक्षया मुख्यतया वेद्यते । परेति च्छेदः श्छायाविशेषणम् । स्पष्टमेवावशिष्टम् ॥११५॥ कलावीरमुदाहरतिदूर इति । मयस्त्विति । इदं तु कंचित्प्रति कस्यचित्कलावतः शिल्पिनो जल्पनम् । मयो राजसूये धर्मराजस्य सभाकर्ता प्रसिद्ध एवासुरविशेषः । शिल्पं करकौशलम् । सरलमेवान्यत् । एवं चेह मयालम्बनस्तदुत्कर्षाकर्णनोद्दीपनो नो येनेत्यादिपूर्वार्धशेषसूचितस्थैर्यानुभावः को वेत्याद्युत्तरार्धध्वनितगर्वसंचारी च शि. त्पाख्यकलोत्साह एव काव्यार्थापत्त्याद्यलंकारतो मुख्यतया द्योत्यते ॥ ११६ ॥ गानवीरमुदाहरति-गन्धर्वेति । यस्य मे आलापलेशेन 'स्यादाभाषणमालापः' इत्यमरादभितः सुखरं यद्भाषणं तल्लेशेन तदंशेन नतु तत्साकल्येन भारती भगवती सरस्वत्यपि द्रवीभूता उदकत्वमेव प्राप्ताऽभूत्तत्र मयि गन्धर्वाप्सरसां वार्तापि भो सदस्य, त्वया कर्तुं शक्यते । काका नैव शक्यत इत्यर्थः । इदं तु सदसि सदस्य विशेष प्रति कस्यचिदभिनवसंगीतशालिनो वचः । अत्र चित्ररथादितुल्यमेवेदं गीतमिति तदुक्तार्थाक्षिप्तचित्ररथाद्यपमाध्वनिततदुत्कर्षोद्दीपितो गन्धर्वाद्यालम्बन उत्तरार्धोक्तातिशयोक्तिसूचितस्थैर्यानुभावो वार्तापीत्यपिशब्दद्योतितगर्वसहचारी च गानोत्साह एवोक्तालंकृतितः प्राधान्येन व्यज्यते ॥ ११७ ॥ अहिंसावीरमुदा