________________
१२४
पूर्वाधे
साहित्यसारम् । मातरुवंशि षण्ढत्वशापेऽपि मम न क्षतिः।। स्मरदग्धृप्रतिद्वन्द्वी तद्वशः स्यात्किमर्जुनः ॥ ११०॥ दृश्येन्द्रजाललक्षाण्यप्याकल्पमपि कल्पय । प्रारब्धमुग्ध तत्रापि चिदानन्देऽस्ति किं मयि ॥ १११ ॥ एवमन्येऽपि तद्भेदा बुधैरूह्याः सतां मताः। नचैवमस्यासंख्यत्वं दोषस्तस्येप्सितत्वतः ॥ ११२ ॥ संपद्रूपकलागानाऽहिंसैश्वर्यकवित्वतः। श्रद्धाभत्त्यादिभिश्चास्य तथैवानुभवो यतः ॥ ११३॥
असंप्रज्ञातसमाधेः प्रच्यावितोऽपि यद्यहमुद्दालकः एतच्छा स्यां तदा तु आकैवल्यं कैवल्यपर्यन्तं समाधेनिर्विकल्पकसमाधेः सकाशात् व्युत्थानं नैवाप्नुयां प्राप्स्यामीत्य न्वयः।अत्र वमन एवालम्बनं,संस्कारपदध्वनिततत्प्रभाव एवोद्दीपनम् अपिशब्दसूचितस्थैर्यमनुभावः, उद्दालकादिपदावेदितगर्वो व्यभिचारी च । एतैः पुष्टो योगोत्साहाख्यः स्थाय्येव स्वभावोक्त्यलंकारतो मुख्यतया व्यज्यते ॥ १०९ ॥ क्षमावीरमुदाहरति-मातरिति । इदं वर्जुनस्योर्वशी प्रति वाक्यम् । पूर्वार्धे तु स्फुटमेव-स्मरेति । स्मरः कामस्तद्दग्धा तस्य दाहकः शिवः तस्य प्रतिद्वन्द्वी प्रतिभट इत्यर्थः । तदिति । तस्य स्मरस्य वशः । पराधीन इत्यर्थः । प्रसिद्धमेवेदं सर्वं महाभारतादौ । अत्रानादृतोर्वश्यालम्बनस्तदुक्तशापप्रभावोद्दीपनः क्षत्यभावसूचितस्थैर्यानुभाव उत्तरार्धध्वनितगर्वसहचारी क्षमोत्साह एव परिकरालंकारात् प्राधान्येन द्योत्यते ॥ ११०॥ ज्ञानवीरमुदाहरति-दृश्येति । इयं हि विचित्रसंकटं प्राप्तस्य कस्यचिद्ब्रह्मनिष्ठस्य खमनस्येव खप्रारब्धमुद्दिश्योक्तिः । रे प्रारब्धमुग्ध प्रारब्धकर्माभिध मूर्ख, त्वं दृश्येन्द्रजाललक्षाणि दृश्यमेवेन्द्रजालं तस्य लक्षाणि । अनतकोटिद्वैतभ्रमकदम्बानीत्यर्थः । तान्यपि आकल्पमपि ब्रह्मकल्पपर्यन्तमपि कल्पय आभासयेत्यर्थः । तत्रापि चिदानन्दे अद्वैतवप्रकाशसदात्मसुखे मयि प्रतीचि किमस्ति। नैव किमपि विकारजातं भवतीति संबन्धः । अत्र प्रारब्धालम्बितस्तदापादितसंकटविशेषप्रभावोद्दीपितः पूर्वार्धध्वनितस्थैर्यानुभावितोऽस्मच्छब्दद्योतितगर्वसंचारितश्चात एव पुष्टस्तत्त्वज्ञानोत्साह एव रूपकाद्यलंकारात्प्रधानतया व्यज्यते ॥ १११ ॥ दिङ्मात्रेणैव मयैते भेदा उक्ता नत्वेतावन्त एवेति संख्यानियमेनापीत्यतोऽन्येपि शिष्टेष्टास्ते रसिकैर्यथासंभवं कल्पनीया एवेत्याह-एवमिति । तत्रातिप्रसङ्गमाशङ्कय परिहरति–नचैवमिति । अस्य प्रकृतवीररसस्य असंख्यत्वं दोषः स्यादिति न । कुतः तस्य असंख्यत्वस्य ईप्सितत्वतः इष्टत्वादिति योजना । रसभेदबाहुल्येन तद्विपुलत्वं हि अलंकारायैवालंकारिकाणामिति तात्पर्यम् ॥ ११२ ॥ नन्विदमनुभवविरुद्धमित्यत आह-संपदिति ।