________________
दक्षिणावर्तकम्बुरत्नम् ४] सरसामोदव्याख्यासहितम् ।
श्रीरामस्याद्य नाज्ञेति नोचेलङ्कां क्षणादहम् । उत्पाट्याकमठं नेष्ये लाङ्गूलेनैव तत्पदम् ॥ १०७ ॥ असंख्यातवसन्तेषु कामकोटिशतेष्वपि । आश्लिष्टोऽपि त्वयारम्भे शुकः स्वप्ने रमेत किम् ॥ १०८ ॥ व्युत्थापितोऽपि संस्कारैरहमुद्दालको यदि । आ कैवल्यं समाधेस्तु नैव व्युत्थानमाप्नुयाम् ॥ १०९ ॥ यत्र पक्षे नवां नूतनां सृष्टिमेव कुर्वे करोमि तत्र पक्षे ब्रह्मर्षित्वस्य का कथा | न कापीत्यर्थः । अत्र स्वप्रतिस्पर्धिवसिष्ठालम्बितः प्रत्यक्षतत्प्रभावसमुद्दीपितश्चतुर्थचरणसूचितस्थैर्यानुभावितः परिशिष्टत्रिपादीध्वनितगर्व संचारी तपउत्साह एव का व्यार्थापत्त्यलंकारतः प्रधानतया द्योत्यते ॥ १०६ ॥ यत्नवीरमुदाहरति - श्रीरामेति । इयं हि रावणं प्रति मरुत्सुतोक्तिः । रे रावण, अद्य श्रीरामस्य मां प्रति तथा आज्ञा नास्तीति हेतोरेवाहमुदासीनोऽस्मि । नोचेदहं लङ्कां लाङ्गूलेन पुच्छेनैव आकमठं कमठात् आ इति । कूर्मपृष्ठं मर्यादीत्येति यावत् । क्षणात् क्षणमात्रेण उत्पाट्य उन्मूल्य तत्पदं तस्य श्रीरामस्य पदं पादपद्मं प्रति नेष्ये नेष्यामीति संबन्धः । अत्र रावणालम्बनस्तद्वचनवर्णिततत्प्रभावोद्दीपनः प्रथमपादद्योतितस्थैर्यानुभावः शित्रिपादीध्वनित गर्वसहचारी बलोत्साह एव काव्यलिङ्गालंकारतो मुख्यतया व्यज्यते । यथावा पण्डितरायाणाम् — ' परिहरतु धरां फणिप्रवीरः सुखमयतां कमठोऽपि तां विहाय । अहमिह पुरुहूतपक्षकोपो निखिलमिदं जगदण्डकं वहामि' इति ॥ १०७ ॥ त्यागवीरमुदाहरति- असंख्यातेति । हे रम्भे, शुकः व्यासपुत्रः असंख्यातवसन्तेषु उद्दीपनार्थं प्राप्तेष्वित्यर्थः । अपिच कामकोटिशतेष्वपि मनः क्षोभणार्थमुद्युक्तेषु सत्खपि इति यावत् । त्वया आश्लिष्टोऽप्यालिङ्गितोऽपि सन्नित्यर्थः । स्वप्नेऽपि इत्यपिशब्दोऽत्रानुकृष्य योज्यः । त्वयि रमेत क्रीडेत किम् । अपितु नैव रमेतेत्यर्थः । एवं चैतद्वशीकारार्थं त्वयापारवैयर्थ्यमेवेति भावः । अत्रापिशब्दद्वयेनातितमस्त्यागः सूचितः । इदं हि रम्भां प्रति शुकस्यैव वचनम् । अत्रास्मच्छब्दाग्रहणादहंकाराभावो ध्वनितः । तथा चात्र रम्भालम्बितो वसन्तादितत्सामश्रीप्रभावोद्दीपितः किंशब्दाक्षिप्तस्थैर्यानुभावितः शुकेति खनामग्रहणबोधितगर्वव्यभिचारी च त्यागोत्साह एवातिशयोक्त्यलंकारापेक्षया प्राधान्येन ध्वन्यते । यथावा भर्तृहरिकृत वैराग्यशतके - 'मातर्लक्ष्मि भजस्व कंचिदपरं मत्काङ्क्षिणी मास्म भूर्भोगेषु स्पृहयालवस्तव वशे का निःस्पृहाणामसि । सद्यः स्यूतपलाशपत्रपुटिकापात्रे पवित्रीकृते भिक्षासक्तभिरेव संप्रति वयं वृत्तिं समीहामहे' इति ॥ १०८ ॥ योगवीरमुदाहरति - व्युत्थापितोऽपीति । एषा ह्युद्दालकनाम्नः कस्यचिद्योगवासिष्ठोपाख्यातस्य द्विजेन्द्रस्य ब्रह्मज्ञानोत्तरं यावत्प्रारब्धं सप्तम्याख्ययोगभूमावेव निर्विकल्पसमाधिपरिपाकेन स्थास्यामीति वासनया समाधिं कृत्वा मध्ये सस्कारवशाद्युत्थाने सति खमनःप्रत्येवोक्तिः । हे मनः, त्वया अहं संस्कारैः व्युत्थापितोऽपि
१२३