________________
१२२
साहित्यसारम् ।
[पूर्वार्धे निघ्नन्तु रिपवो बन्धून्मया सह सुतानपि । द्रौपदीमपि तत्रापि धर्मः किमनृतं वदेत् ॥ १०४॥ चतुरास्यः सहस्रास्यो हयास्योऽप्यथ वा स्वयम् । वदत्वखण्डमत्रापि पुरोऽस्मि कृपया गुरोः॥१०५॥ विष्ण्वाद्या अपि पश्यन्तु प्रभावं कौशिकस्य मे।
सृष्टिमेव नवां कुर्वे ब्रह्मर्षित्वस्य का कथा ॥ १०६ ॥ सत्यवीरमुदाहरति-निघ्नन्त्विति । इदं हि द्रोणपर्वणि तद्वधार्थ कंचिदश्वत्थामाख्यं गजं भीमसेनेन मारयित्वा मुख्याश्वत्थाग्नि द्रोणपुत्रे क्वचित्किंचित्कार्योद्देशेन गते सति द्रोणनिकटस्थसकलसेनायामश्वत्थामा मृत इति सामान्यतः प्रख्याति कारयित्वा चिरजीवी मत्पुत्रः कथं मृतः कथं वा यमेन नीत इति संदेहाह्रोणेन सर्वसैनिकान्प्रति पृष्टेऽपि ते सर्वे मृत इत्येवावदन्'।अतस्तत्राप्यश्रद्दधानतया सत्यवादिनं धर्म प्रति पृष्ट्वा अनेनापि तथैवोक्ते सत्ययं खकलेवरं रथ एव स्थापयित्वा समाधिमहिना यमलोकं विशोध्य यावदायास्यति तावदेतन्मस्तकं धृष्टद्युम्नद्वारा च्छेदयिष्यामीति कपटं मनसि निधायाश्वत्थामा त्वत्पुत्रो मृत इत्येव त्वया वक्तव्यमित्युपदिशन्तं श्रीकृष्णं प्रति युधिष्ठिरस्य वचनम्-भो भगवन् ,रिपवः दुर्योधनादयः शत्रवः बन्धून्भीमादीन्सोदरान्मया सह सुतान् पुत्रानपि तथा द्रौपदीमपि निनन्तु । तत्रापि धर्मः अयं अनृतं मिथ्यावाक्यं वदेत्किम् । किंशब्दोऽयमाक्षेपे । तेन नैव वदेदिति योजना । अत्र श्रीकृष्ण आलम्बनम् , तदुक्ततत्प्रभाव उद्दीपनम् , तत्रापीत्यन्तद्योतितस्थैर्यमनुभावः, धर्मपदसूचितो गर्वः सहचारी चेत्येतैः पुष्टः सत्योत्साह एव परिकराङ्कुरालंकारतः प्राधान्येन ध्वन्यते ॥ १०४ ॥ विद्यावीरमुदाहरति-चतुरास्य इति । इयं हि माध्यस्थं प्रति कस्यचित् श्रीमत्सगुरुचरणारविन्दैकप्रसादमकरन्दनन्दितमनोमिलिन्दस्य करकलिताखिलशब्दब्रह्मणः पण्डितधुरीणस्योक्तिः । भो विद्वन्, अद्य चतुरास्यश्चतुर्मुखः । ब्रह्मेतियावत् । सहस्रास्यः शेष इत्यर्थः । अथवा वयं हयास्यो हयग्रीवः शब्दब्रह्माधिष्ठात्री श्रीनारायणस्य तुरंगवदना मूर्तिरपि । अखण्डं निरन्तरं नतु क्षणमात्रं वदतु विवादं करोतु । अत्राप्येवंसत्यप्यहं गुरोः खाचार्यस्य कृपया पुरः तदन एवास्मि नतु विमुखीभविष्यामीत्यर्थः । अत्र माध्यस्थकथितप्रतिवाद्यालम्बितस्तद्वर्णिततत्प्रभावोद्दीपितोऽत्रापीत्यन्तद्योतितस्थैर्यानुभावितः पुरःपदसूचितगर्वसहकारी विद्योत्साह एव काव्यलिङ्गालंकारान्मुख्यतया व्यज्यते । अयमेव पाण्डित्यवीर इत्युच्यते । यथावा रसगङ्गाधरे–'अपि वक्ति गिरां पतिः खयं यदि तासामधिदेवतापि वा । अयमस्मि पुरो हयाननस्मरणोल्लकितवाङ्मयाम्बुधिः' इति ॥ १०५॥ तपोवीरमुदाहरति-विष्ण्वाद्या अपीति । एषा तु सकलदेवर्षिसभायां विश्वामित्रोक्तिः । भो सदस्याः, कौशिकस्य मे प्रभावं सामर्थ्य विष्ण्वाद्या अपि देवाः पश्यन्त्वित्यन्वयः । अपिना तदितरेष्विन्द्रादिष्वनादरो ध्वनितः । यतः अहं