________________
दक्षिणावर्तकम्बुरत्नम् ४] सरसामोदव्याख्यासहितम् ।
१२१ शङ्खचूडाद्य नन्दन्तु नागास्तव कुटुम्बिनः । तर्पयामि गरुत्मन्तं प्राणैर्जीमूतवाहनः ॥ १०२॥ यन्ताहं रन्तिदेवोऽद्य कथं ब्राह्मणतोषणम् ।
विनाऽसंख्योपवासेऽपि पारये भुव तत्सुखम् ॥१०३॥ अकरुणमवकृत्य द्राकृपाणेन निर्यद्वहलरुधिरधारं मौलिमावेदयामि' इति ॥१०१॥ दयावीरमुदाहरति-शर्केति । हे शङ्खचूड निरुक्तनामनागविशेष, अद्य तव कुटुम्बिनः भवत्पित्रादिरूपाः संबन्धिनः नन्दन्तु हृष्यन्त्वित्यर्थः । तत्र हेतु. माह-तर्पयामीत्युत्तरार्धन । जीमूतवाहनः एतन्नामा गन्धर्व विशेषः अहं प्राणैः । तदालयीभूतखदेहेनेत्यर्थः । गरुत्मन्तं गरुडं तर्पयामीति संबन्धः । अयं भावः--पुरा सकलनागकुलं हन्तुमुद्युक्तं गरुडं प्रति सवैस्तैः प्रत्यहमेकं नागं पीनं युवानं भवते दास्याम इति प्रतिज्ञाय तदनुमोदनवशात्किंचित्कालं तथैवानुष्ठितम् । ततः कदाचित्कस्य चिजरठनागस्य शङ्खचूडाख्ये निरुक्तरूप एकस्मिन्नेव पुत्रे तद्राजाज्ञावशाद्गरुडाय दीयमाने रुदतां तत्पित्रादीनां विलपनं व्योम्नि विमानगेन जीमूतवाहनाभिधगन्धर्वेण श्रुत्वा तत्प्रतिनिधित्वेन खवपुस्तस्मै दत्त्वा स निर्मोचितः। ततः संतुष्टस्य गरुडस्य प्रसादात्स्वयमपि दिव्यदेहोऽभूदित्यादि नागानन्दनाम्नि नाटके कथाजातमभिनीतम् । तेनेदं शङ्खचूडनागं प्रति जीमूतवाहनगन्धर्ववचनं बोध्यमिति । अत्र शङ्खचूड आलम्बनम् , तत्पित्रादिविलपनमर्थतःसिद्धमुद्दीपनम् , प्राणपदध्वनितं स्थैर्यमनुभावः, स्वनामग्रहणसूचितगर्वः सहचारीति तैः पुष्टोदयोत्साह एव कुटुम्बिपदोक्तपरिकरालंकारादाधिक्येन द्योत्यते । यथावा रसगङ्गाधरे—'न कपोतकपोतकं तव स्पृशतु श्येन मनागपि स्पृहा। इदमद्य मया समर्पितं भवते चारुतरं कलेवरम्' इति ॥ १०२ ॥ धर्मवीरमुदाहरति—हन्तेति । हन्तेति खेदे। भो विप्र, रनिदेवः अहं असंख्योपवासेऽपि ब्राह्मणतोषणं ब्राह्मणस्य तव तोषणं तृप्तिकरणं अद्य कथं पारये पारणं कुर्याम् । न कथमपि पारणां करिष्यामीति यावत् । तत्तस्मात्त्वं सुखं यथा स्यात्तथा भुश्व यथेच्छं भोजनं कुर्वित्यन्वयः । तथाचोपाख्यातं श्रीमद्भागवते नवमस्कन्धे-कश्चित्तावदन्तिदेवनामा राजर्षिः परमधर्मिष्ठ आकाशैकोपजीवनोऽष्टचत्वारिंशत्संख्याकोपवासेषु संजातेषु सत्स्वकस्मात्प्रातःकाले भगवन्मायया घृतपयःप्लुतः संयावः पानीयं चाकाशादेव संप्राप्तं। तत एको ब्राह्मणोऽतिथिः प्राप्तः । तस्मै ततो यावत्तत्तृप्तिभागं ददौ ततोऽन्यः शूद्र एकस्तथैव भोक्तुं समागतस्तस्मा अपि तथैव तद्भागं ददौ । तदनन्तरं कश्चिच्छपतिः श्वभिः सह तथैवोपेतस्तस्मै तु सर्वमवशिष्टमन्नं ददौ । तदूर्ध्वमुदकमात्रमुर्वरितं प्राशितुं यावदुयुक्तस्तावता कश्चित्पुल्कसस्तृषितः संययौ तस्मै तदपि ददाविति तद्धर्मकाष्ठया संतुष्टाः तत्परीक्षार्थे परमात्ममायया तथागता अपि ब्रह्मादयस्त्रिलोकपतयो देवाः प्रकटीभूय त्वं वरं वृणीष्वेति तैः प्रलोभितोऽपि नैव किंचि दयाचदित्यादि तत्रेदं प्रथमागतं विप्रं प्रति तद्वाक्यम् ॥ १०३ ॥
११