________________
१२०
साहित्यसारम् । . [पूर्वार्धे आचार्य किं ब्रवीषि त्वं सामान्यायापि याचते।
शिरश्छित्त्वापि दास्येऽहं किंपुनः श्रीगदाभृते ॥ १०१॥ च्छब्दयोरनुच्चारणात्पूर्वार्धध्वनितस्थैर्यादेरतिशयः खस्मिन्नुत्तमनायकत्वेन सूचितः । संगरे संग्रामे अर्भकः बालकः एतादृशः यतः पार्थः पृथायाः कुन्त्याः पुत्रः नतु धनंजयः एतादृगर्जुनः कः । न किमपीत्यर्थः । अतः हे मध्वन्तक मधोमहाप्रभावस्य कैटभभ्रातुर्मधुनानो दैत्यस्य अन्तकः कालस्तत्संबुद्धौ । भोमधुमथनेत्यर्थः । नतु रमारमणेति यावत् । एतादृशस्त्वं शस्त्रं सुदर्शनाद्यायुधं उद्दध उत्कर्षेण परमैश्वर्यप्रकाशनलक्षणप्रकर्षण धारयेत्यर्थः । अहो येन मया महैश्वर्यवतः क्षत्रियकर्तुः खगुरोः श्रीभार्गवरामस्यापि संग्रामं कर्तुं गर्वभङ्गः संपन्नस्तस्मिन्नपि भीष्मे मयि धानुष्कधुरीणतां प्रकटयितुमयं शिशुः सव्यसाची चतुरः कथं वा भविष्यतीत्यतो भो मधुमर्दन, भवतैव सुदर्शनं धृत्वा निजैश्वर्यं प्रदर्शनीयं, भारतयुद्धेऽहं नैव शस्त्रं धारयिष्यामीति प्रतिज्ञा तु त्याज्यैवेति भावः । अत्र मधुसूदनालम्बितः संगरपदद्योतितार्जुनकृतकोदण्डटङ्कारादिरूपप्रतिवीरप्रभावोद्दीपितः क्षत्रेत्यादिपूर्वार्धसूचितस्थैर्यानुभावितः क इत्याद्यवशिष्टतृतीयपाद. पदव्यजितगर्वसंचारितः शस्त्रमित्यादिचतुर्थचरणावेदितः समरोत्साह एव परिकरायलंकारापेक्षया मुख्यत्वेन ध्वन्यते । यथावा रसतरङ्गिण्याम्-'संग्रामाङ्गणमागते दशमुखे सौमित्रिणा विस्मितं सुग्रीवेण विचिन्तितं हनुमता व्यालोलमालोकितम् । श्रीरामेण परंतु पीनपुलकस्फूर्जत्कपोलश्रिया सान्द्रानन्दरसालसानि दधिरे बाणासने दृष्टयः' इति । रसगङ्गाधरेऽपि-रणे दीनान्देवान्दशवदन विद्राव्य वहति प्रभावप्रागल्भ्यं त्वयि तु मम कोऽयं परिकरः । ललाटोद्यज्वालाकवलितजगज्जालविभवो भवो मे कोदण्डच्युतविशिखवेगं कलयतु' इति ॥१००॥ दानवीरमुदाहरति-आचार्येति । इदं हि वामनरूपिणे साक्षाच्चक्रिणे किमपि मा देहीति भाषन्तं भार्गवं प्रति बलेर्वचनम् । भो आचार्य अयि दैत्यकुलगुरो शुक्र, त्वं एतस्मै वामनरूपधारिणे शाङ्गिणे किंचिदपि नैव त्वया देयमित्यादिवाक्यं किं ब्रवीषि । कुत्सितं ब्रवीषीत्यर्थः । तत्र हेतुः । सामान्यायापीत्यादित्रिपाद्या । यतः अहं बलि: सामान्याय साधारणायापि याचते याबां कुर्वते जनाय शिरः खकीयं मस्तकमपि नतु यस्य कस्यचिदित्यर्थः । तत्रापि च्छित्वापि खहस्तधृतखड्नेन विच्छिद्यापीतियावत् । दास्ये दास्यामीत्यर्थः । पुनः श्रीगदाभृते श्रीमान् षड्गुणैश्वर्यसंपन्नः यः गदाभृत् विष्णुस्तस्मा इत्यर्थः । दास्य इति किम वक्तव्यमित्यन्वयः । अत्र श्रीगदाभृदालम्बनम् । आचार्यवचनोक्ततत्प्रभाव उद्दीपनम् । सामान्यायेत्यादि दास्य इत्यन्तेन स्थैर्यम् । अहमित्यादिना गर्वश्वानुभवव्यभिचारिणौ च तैरेतैः पुष्टो दानोत्साहरूपः स्थाय्येव किं पुनरित्यादिपदध्वनितः काव्यलिङ्गाद्यलंकारापेक्षया प्रधान इति दिक् । यथावा पण्डितराजस्य 'कियदिदमधिकं मे यद्विजायार्थयित्रे कवचमरमणीयं कुण्डले चार्पयामि ।