________________
दक्षिणावर्तकम्बुरत्नम् ४ ]
सरसामोदव्याख्यासहितम् ।
११९
प्रभावस्थैर्यगर्वाद्यैर्विभावादिभिरुन्नतः। उत्साहस्थायिभावः स्याद्वीरो द्वादशधा तु सः ॥९८॥ युद्धदानदयाधर्मसत्यविद्यातपोबलैः। त्यागयोगक्षमाशानस्तदुपाधेर्विभेदतः ॥ ९९ ॥ क्षत्रध्वान्तशरद्भास्वद्गर्वहृद्भाजदोजसा।
कः संगरेऽर्भकः पार्थः शस्त्रं मध्वन्तकोध ॥ १००॥ स्त्रप्रयोगं रावणं प्रति श्रीरामवाक्यम् । अत्रापराधिरावणालम्बनः क्व तेऽस्त्राणीत्याक्षिप्ततदुत्कर्षदर्शनोद्दीपनः प्रस्खलदिति रेदुष्टेति च निष्ठुरोक्त्यनुभावस्तिष्ठेत्यमर्षसहचारी क्रोधस्थाय्याख्यो रौद्रः परिकरालंकारतः प्रधानभावेन ध्वन्यते । यथावा रसगङ्गाधरे–'नवोच्छलितयौवनस्फुरदखर्वगर्वज्वरे मदीयगुरुकार्मुकं गलितसाध्वसं वृश्चति । अयं पततु निर्दयं दलितदृप्तभूभृद्गलस्खलद्रुधिरघस्मरो मम परश्वधो भैरवः' इति ॥ ९७ ॥ अथ वीरं प्रपञ्चयितुमादौ तं लक्षयति-प्रभावेति । प्रभावः सामर्थ्य विशेषः तद्यक्तौ यौ स्थैर्यगवौं धैर्याभिमानौ आद्यौ येषां प्रति भाष्याद्यालम्बनविभावादीनां तैरित्यर्थः । एवं चात्र प्रभावपदस्य स्थैर्यपदापेक्षया बह्वक्चत्वेऽपि न क्षतिः । तस्य विशेषणत्वात् । यद्यपि स्थैर्यगर्वप्रभावाद्यैरित्यपि विन्यासः कर्तुं शक्यत एव तथापि विभावानुभावव्यभिचारिसंयोगाद्रसनिष्पत्तिरिति काव्यप्रकाशोदाहृतभरतसूत्रोक्तक्रमभङ्गापत्तेः । तस्माद्युक्त एवोक्तविन्यास इत्याशयः । उन्नतः परिपुष्टः एतादृशः उत्साहस्थायिभावः उत्साहाख्यो यः स्थायिभावः स वीरः स्यादित्यन्वयः । अत्र प्रभावः सामर्थ्यापरपर्याय उद्दीपनविभावः । स्थैर्य चानुभावः । गर्वः संचारिभावः । अस्यानेकविधत्वात्सर्वत्र साधारण्येनेकविधालम्बनासंभवात्कण्ठतस्तदनुक्तिः । एते चोद्दीपनविभावादयस्तु सामान्यत एवोक्ता इति बोध्यम् । एतेन प्रभावादिपरिपुष्टोत्साहवं वीरत्वमिति तलक्षणं सिद्धम् । ततस्तत्प्रकारान्प्रतिजानीते-द्वादशधेति । तुशब्दः पुनरर्थ ॥ ९८ ॥ तत्र हेतुमाह-युद्धेति । तदुपाधेरुत्साहस्येत्यर्थः । नच रसतरङ्गिण्यां वीरमुपक्रम्य सच त्रिविधः । युद्धवीरदानवीरदयावीरभेदादिति त्रिविधस्यैव तस्योक्तेः कथं द्वादशधा स्यादिति वाच्यम् । रसगङ्गाधरे युद्धदानदयाधर्मसत्यविद्याक्षमाबलभेदैरष्टविधस्यापि तस्योपलब्धत्वेन धर्मादिवत्तपस्त्यागयोगज्ञानाख्यानां भेदानामप्यनिराकार्यत्वात् । अतो युक्तमेवेदं द्वादशविधत्वं तस्येति दिक् ॥ ९९ ॥ तत्र युद्धवीरमुदाहरति-क्षत्रेति । इदं हि श्रीकृष्णं प्रति भीष्मवाक्यम् । क्षत्रं क्षत्रियकुलं तदेव ध्वान्तं प्रायो रजःप्रकृतिकत्वेन सांध्यतया अन्धतमसं तस्य यः शरद्भावान् तनाशकः शरत्कालीनार्करूपी भार्गवरामस्तस्य यो गर्वः अम्बाम्बालिकाद्यर्थ युद्धाभिमानस्तं हरति निरुक्तयुद्धे पराजित्य दुरीकरोतीति तथा । अतएव भ्राजद्देदीप्यमानं ओजः उक्तगुरुप्रसादलब्धैकधनुर्धरत्वरूपं तेजो यस्य तेनेत्यर्थः । एतादृशेन भीष्मेण मया सहेत्यध्याहारः । एतेन वनामास्म