SearchBrowseAboutContactDonate
Page Preview
Page 134
Loading...
Download File
Download File
Page Text
________________ ११८ साहित्यसारम् । [ पूर्वार्धे कान्तेऽनङ्गतया शान्ते रतिहेमलताश्रुभिः । घनैः सिक्तापि नोत्तस्थौ कृपावल्या सहेशितुः॥ ९४ ॥ दाक्षायण्या परित्यक्ते शरीरे शंकरश्रमान् । वीक्ष्यैव किमु संतापैः कामेनापि हुतं वपुः ॥९५॥ अपराधितदुत्कर्षनिष्ठुरोक्त्युग्रतादिभिः । विभावाद्यैश्चितः क्रोधस्थायी रौद्रो रसः स्मृतः ॥९६ ॥ प्रस्खलत्कुम्भकर्णास्रपानोन्मादितपत्रिणि । रामे स्थिते व तेऽस्त्राणि तिष्ठ रे दुष्टराक्षस ॥९७ ॥ भिदधस्तत्र हेतुमाह-स्वविभावैरिति । खस्य विभावैरालम्बनादिविभावैरित्यर्थः।उक्तंहि रसतरङ्गिण्याम्—'सच करुणः स्वनिष्ठः परनिष्ठश्च ।स्वशापखबन्धनखक्लेशवानिष्टैर्विभावैः स्खनिष्ठः परेष्टनाशपरशापपरबन्धनपरक्लेशादीनां दर्शनश्रवणस्मरणैर्विभावैः परनिष्ठः' इति ॥ ९३ ॥ तत्राद्यमुदाहरति-कान्त इति । स्वरमणे मदने अनङ्गतया शिवनेत्राग्निना अङ्गशब्दितशरीरस्य भस्मीभूतत्वात्स्थूल. देहराहित्यतयेत्यर्थः । शान्ते उपशान्तवन्निश्चेष्टे संजाते सतीत्यर्थः । रतीति । एतेनास्यां गौरत्वसुकुमारत्वसुरभित्वादिध्वनितम् । घनैः अश्रुरूपैर्मेधैः ईशितुः शिवस्य । अत्र सिक्कापीत्यपिना मूलोच्छेदः सूचितः । तेन पातिव्रत्यातिशयश्च । एवं चात्रोक्तविभावाद्यैः पुष्टः करुणरस एव रूपकालंकारापेक्षया प्राधान्येन व्यज्यते ॥ ९४ ॥ द्वितीयमुदाहरति-दाक्षायण्येति । सतीनाम्न्या दक्षकन्ययेत्यर्थः । परित्यक्ते सतीति यावत् । स्वपितृयज्ञ इति शेषः । हुतं शंभुनेत्रानाविति शेषः । अत्र कामेनापीत्यपिशब्देन विरहिशासने समुत्सु. कस्य मदनस्यापि शिवशोकावलोकनेनोक्तकारुण्यं खप्राणत्यागकरणान्तमपि संजातं यदा तदान्येषां तत्स्यादिति किमु वक्तव्यमिति तदतिशयः सूचितः । तेनेह दाक्षायणीमृतिशोचच्छंकरालम्बनस्तच्छ्रमेक्षणोद्दीपन: संतापानुभावो मरणव्यभिचारी निरुक्तशोकाख्यः स्थाय्येवोत्प्रेक्षालंकारापेक्षयाधिक्येन व्यज्यते । यथावा भानुमिश्राः–'अनुवनमनुयातं बाष्पवारि त्यजन्तं भृदितकमलदामक्षाममालोक्य रामम्। दिनमपि रविरोचिस्तापमन्तः प्रसूते रजनिरपि च धत्ते तारका बाष्पबि. न्दून्' इति ॥९५॥ ततः क्रमागतं रौद्रं लक्षयति–अपराधीति । अत्रापराध्यालम्बनम् । तदुत्कर्ष उद्दीपनम् । निष्ठुरोक्तिरनुभावः । उग्रतापदवाच्योऽमर्षः संचारी च चितः पुष्टः । स्पष्टमन्यत् ॥ ९६ ॥ तमुदाहरति—प्रस्खलदिति । प्रकर्षण शिरच्छेदनान्महाप्रवाहरूपोत्कर्षेण स्खलत् गलद्यत्कुम्भकर्णस्य असं 'रुधिरेऽसृ. ग्लोहितास्ररक्तक्षतजशोणितम्' इत्यमराद्रुधिरं तस्य पानेनोन्मादिताः पत्रिणः गृध्रादयः पक्षिणो बाणा वा येन तस्मिन्नित्यर्थः । एतादृशे मयि रामे स्थिते सति रे दुष्ट राक्षस रावण, ते अस्त्राणि आग्नेयाद्यस्त्राणि क्व किं करिष्यन्ति । न किमपीतियावत् । अतस्त्वं तिष्ठ संग्रामान्मा पराङ्मुखो भवेत्यर्थः । इदंहि कृताग्नेयाद्य
SR No.023485
Book TitleSahityasaram
Original Sutra AuthorN/A
AuthorAchyutrai, Vasudev Lakshman Shastri
PublisherTukaram Javaji
Publication Year1906
Total Pages576
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy