________________
दक्षिणावर्तकम्बुरत्नम् ४] सरसामोदव्याख्यासहितम् ।
चन्द्रचूडगणान्दृष्ट्वा मेनोद्वाहोत्सवे मुहुः । स्फुरद्दचन्द्रिका दृष्टा प्रसन्नेन हिमाद्रिणा ॥ ८८ ॥ जले सदसि भूभ्रान्त्या च्युते दुर्योधने भृशम् । विलोक्य द्रौपदीं भ्राजदाननामनुगास्तथा ॥ ८९ ॥ कृष्णवंशीरवावेगाद्राधिकां लथशाटिकाम् । निरीक्ष्योत्फुल्लवत्राः स्युर्गोप्यस्तदनु बालकाः ॥ ९० ॥ दशास्ये वालिना नीते ताराद्याः सर्ववानरीः । अवेक्ष्य लुठतीः सर्वे प्लवङ्गा अभवंस्तथा ॥ ९१ ॥ आशाच्छेद विनष्टेष्टाश्रुपात म्लानतादिभिः । शोकस्थायिविभावाद्यैः पुष्टः स्यात्करुणारसः ॥ ९२ ॥ स्वविभावैः समुत्पन्नः स्वनिष्ठः स उदीरितः । परनिष्ठोऽन्यदीयानां विभावानां विबोधतः ॥ ९३ ॥ राधिकेति । राधिकायाः अंशुकं परिधानीयं वसनमित्यर्थः । तां राधिकां उद्यदास्यां उद्यत् उदयं प्रापत् विकसदिति यावत् एतादृशं आस्यं मुखं यस्यास्तामित्यर्थः । आलोच्य दृष्ट्या इदमुत्तमगतपरनिष्टहास्यरसोदाहरणद्वयम् ॥ ८७ ॥ ततः परनिष्टं विहसितमुदाहरति - चन्द्रेति । मेना हिमाचलपत्नी गौर्या : उद्वाहोत्सव इत्यध्याहृत्य योज्यम् । स्फुरदिति । स्फुरन्ती भासमाना दतां दन्तानां चन्द्रिका यस्याः सा तथेत्यर्थः । प्रसन्नेन हसतेत्यर्थः ॥ ८८ ॥ एवं परनिष्टमुपहसितमुदाहरति - जल इति । सदसि राजसूये मयकृतसभायां जले भूभ्रान्त्या पृथ्वीभ्रमेणेत्यर्थः । दुर्योधने भृशं अत्यन्तं च्युते पतिते सतीत्यर्थः । भ्राजदिति । भ्राजदुपहासवशाद्दीप्यमानं आननं मुखं यस्यास्तां अनुगास्तदनुवर्तिन्यः स्त्रियोsपि तथा उपहसितवत्यः स्युरित्यर्थः । इदं तु मध्यमगतपरनिष्टहास्योदाहरणयुगम् ॥ ८९ ॥ अथ परनिष्टमपहसितमुदाहरति - कृष्णेति । कृष्णवंशीरवेण यः आवेगोऽभिसरणसंभ्रमस्तस्माद्धेतोरित्यर्थः । लथेति । श्लथा गलद्वन्धा शाटिका यस्यास्तादृशीं राधां निरीक्ष्य गोप्यः तदनु बालकाः गोपबालाश्च उत्फुल्लवत्राः विकसितमुखाः बभूवुरित्यन्वयः ॥ ९० ॥ एवं परनिष्ठमतिहसितमप्युदाहरति - दशास्य इति । लुठतीः हास्याधिक्येन भूमौ विस्खलतीः । सर्वे प्लवङ्गाः वानराः अवेक्ष्य तथा निरुक्तहासवन्तः अभवन्निति संबन्धः । इदं नीचगतपरनिष्टहास्यरसोदाहरणयुगं बोध्यम् ॥ ९१ ॥ एवं हास्यं प्रपञ्याथोद्देशक्रमप्राप्तं करुणं विवृण्वंस्तं लक्षयति — आशेति । अत्र आशाच्छेद उद्दीपनम् । विनष्टेष्ट आलम्बनम् । अश्रुपातोऽनुभावः । म्लानता व्यभिचारिभावः । आदिपदाज्जडतादेर्ग्रहः । एतैर्विभावाद्यैः पुष्टः शोकस्थायी पूर्वोक्तलक्षणः शोकाख्यः स्थायीभाव एव करुणः रसो भवतीति योजना । ' तस्मादाशाच्छेदादिविभावादिपुष्टशोकस्थायित्वं करुणत्वमिति तलक्षणं फलितम् ॥ ९२ ॥ तस्य द्वैविध्यम
११७