SearchBrowseAboutContactDonate
Page Preview
Page 132
Loading...
Download File
Download File
Page Text
________________ ११६ [ पूर्वार्ध साहित्यसारम् । मातः कन्दुकलीलाथमिमं चन्द्रं प्रदेहि मे। इति कृष्णवचः श्रुत्वा यशोदा विचकासह ॥ ८२॥ नवनीतमुषं कृष्णमनुधावनतः पथि। पतितां गोपिकां प्रेक्ष्य प्रफुल्ला घोषयोषितः ॥ ८३ ॥ वामनं भिक्षुकं दृष्ट्वा व्यावल्गन्परिचारिकाः। बलिपल्याः पयोराशेर्लहर्यः शशिनं यथा ॥ ८४ ॥ गोपकन्याम्बरहरं कदम्बस्थं यदूद्वहम् । साञ्जलीस्ताः समालोक्य सोल्लण्ठा बल्लवार्भकाः॥ ८५॥ नूत्नरत्नगृहे सीतां स्वबिम्बासंख्ययोषिताम् । दर्शनाद्विकचां दृष्ट्वा रामः कान्तमुखोऽभवत् ॥८६॥ प्रातः परिदधत्कुञ्ज रभसाद्राधिकांशुकम् । तामुद्यदास्यामालोच्य कृष्णोऽभूद्विकसन्मुखः ॥ ८७ ॥ कपोले चितः पूजितः । अत्र भ्रान्तिरूपके अलंकारौ । शिष्टं तूतदिशैव लक्षणायूह्यम् ॥ ८१ ॥ अथ खनिष्ठं विहसितमुदाहरति-मातरिति । विच. कास विहसितवतीत्यर्थः । शेषमतिरोहितार्थम् ॥ ८२ ॥ एवं खनिष्ठमुपहसितमुदाहरति-नवनीतेति । घोषयोषितः 'घोष आभीरपल्ली स्यात्' इत्यमरात् घोषस्य गोपगृहस्य संबन्धिन्यो योषितः स्त्रिय इत्यर्थः । प्रफुल्लाः उपजहसुरित्यर्थः ॥ ८३ ॥ ततः खनिष्ठमपहसितमुदाहरति-वामनमिति । बलिपन्याः परिचारिकाः वामनं खर्वरूपधरं हरिं भिक्षुकं भिक्षमाणं दृष्ट्वा व्यावल्गन् अपहासं चक्रुरित्यर्थः । तत्रानुरूपं दृष्टान्तमाह–पयोराशेरिति । समुद्रस्य लहों वीचयः शशिनं कलङ्किन चन्द्रं दृष्ट्वा यथा व्यावल्गन् तद्वदित्यर्थः ॥ ८४ ॥ एवमेव खनिष्ठमतिहसितमुदाहरति-गोपेति । ताः गोपकन्याः साञ्जलीः अञ्जलीपुटकरणेनानाच्छादितगुह्या इत्यर्थः । सोल्लुण्ठाः अतिहासवन्तः इत्यर्थः । बभूवुरिति शेषः । अत्र प्रथमोदाहरणद्वये हास्यस्य शिवादिदेवतारूपोत्तमाधिकारिनिष्टत्वं द्वितीयोदाहरणद्वये च यशोदादिप्रौढस्त्रीरूपमध्यमाधिकारिनिष्ठत्वं तृतीये चोदाहरणद्वये निरुक्तदास्यादिरूपनीचाधिकारिनिष्ठत्वं च बोध्यम् ॥ ८५ ॥ एवं खनिष्ठस्मितायुदाहरणषट्कमभिधाय परनिष्ठं तदभिदधन्प्रथमं परनिष्ठं स्मितमुदाहरति-नूनेति । नूनं नवीनं यदन. गृहं मणिमयं क्रीडागारं तस्मिन्नित्यर्थः । स्वेति । स्वस्याः बिम्बानि प्रकृतगृहरनभित्त्यादौ प्रतिबिम्बानि तद्रपाः अतएव याः असंख्ययोषितः रत्नानां तत्रत्यानामगणितत्वादनन्तकान्तास्तासामित्यर्थः । दर्शनाद्वीक्षणात् विकचां सस्मेरां एतादृशीं सीतां ज्ञात्वा रामः श्रीरघुवीरः कान्तमुखः कान्तं सस्मितं मुखं यस्य तथा अभवदिति योजना ॥ ८६ ॥ तद्वत्परनिष्ठं हसितमुदाहरति-प्रातरिति । रभसात् 'रभसो वेगहर्षयोः' इत्यभिधानाद्वेगादित्यर्थः।
SR No.023485
Book TitleSahityasaram
Original Sutra AuthorN/A
AuthorAchyutrai, Vasudev Lakshman Shastri
PublisherTukaram Javaji
Publication Year1906
Total Pages576
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy