SearchBrowseAboutContactDonate
Page Preview
Page 131
Loading...
Download File
Download File
Page Text
________________ दक्षिणावर्तकम्वुरत्नम् ४] सरसामोदव्याख्यासहितम् । ११५ विभावजः स्वनिष्ठोऽसौ परनिष्ठोऽन्यहास्यजः। पुनः स्मितादिषड्डेदैः क्रमाद्वादशधा यथा ॥ ७९ ॥ शार्दूलकृत्तिमावृत्य भीषयन्तं गजाननम् । गुहं वीक्ष्योल्लसद्वको बभूवतुरुमाहरौ ॥ ८० ॥ श्रीकपोले निजच्छायां भृङ्गभ्रान्त्यापसारयन् । तयोन्मीलितया दन्तकान्तिकुन्दैश्चितो हरिः ॥ ८१ ॥ तस्य स्खनिष्टलादिना द्वैविध्यमुद्दिश्य तल्लक्षयति-विभावज इति। आलम्बनादिविभावजन्य इत्यर्थः । पुनस्तस्य द्विविधस्यापि भेदान्तराणि विधत्ते-पुनरिति । असावित्यनुकर्षणीयम् । तथाचाहुः शाङ्गदेवा:-'आत्मस्थः परसंस्थश्चेत्यस्य भेदद्वयं मतम् । आत्मस्थो द्रष्टुरुत्पन्नो विभावेक्षणमात्रतः । हसन्तमपरं दृष्ट्वा विभावश्चोपजायते । योऽसौ हास्यरसस्तज्ज्ञैः परस्थः परिकीर्तितः । उत्तमानां मध्यमानां नीचानामप्यसो भवेत् । व्यवस्थः कथितस्तस्य पढ़ेदाः सन्ति चापरे । स्मितं च हसितं प्रोक्तमुत्तमे पुरुषे बुधैः । भवेद्विहसितं चोपहसितं मध्यमे नरे । नीचेऽपहसितं चातिहसितं परिकीर्तितम् । ईषत्फुल्लकपोलाभ्यां कटाक्षरप्यनुल्बणैः। अदृश्यदशनो हास्यो मधुरः स्मितमुच्यते । वक्रनेत्रकपोलैश्चेदुत्फुल्लैरुपलक्षितः । किंचिटक्षितदन्तश्च तदा हसितमिष्यते । सशब्दं मधुरं कालगतं वदनरागवत् । आकुञ्चिताक्षं मन्दं च विदुर्विहसितं वुधाः । निकुञ्चितांसशीर्षश्च जिह्वादृष्टिविलोकनः । उत्फुल्लनासिको हासो नानोपहसितं मतम् । अस्थानजः साश्रुवृष्टिराकम्पस्कन्धमूर्धजः । शार्ङ्गदेवेन गदितो हासोऽपहसिताह्वयः । स्थूल: कर्ण. कटुवानो बाष्पपूरप्लुतेक्षणः । करोपगूढपार्श्वश्च हासोऽतिहसितं मतम्' इति । एवंच खनिष्टानि स्मितहसितविहसितोपहसितापहसितातिहसितानि तथा परनिष्टानि च तानीति भेदैरसौ द्वादशविध: संपन्न इत्यर्थः । एवं द्वादशविधस्य तस्यानुक्रमेणोदाहरणानि प्रपञ्चितुं प्रतिजानीते-क्रमादिति ॥७९॥ तत्र खनिष्टं स्मितमुदाहरतिशार्दूलेति । 'शार्दूलद्वीपिनौ व्याने' इत्यमरात् 'अजिनं चर्म कृत्तिः स्त्री' इत्यपि च ततो व्याघ्रस्य चर्मेत्यर्थः । आवृत्य प्रावरणमिव सकलस्वाशाच्छादकत्वेन गृहीला । गजाननं करिवदनं प्रति नतु गणपतिम् । अतएव भीषयन्तं भीषयति सिंहस्य करिवैरिवायाघ्रस्य च तत्तुल्यत्वात्तच्चर्मप्रावरणपूर्वकं तद्वद्गर्जनादिना भयं जनयतीति तथा तमित्यर्थः । एतादृशं गुहं स्कन्दं वीक्ष्य उसद्वको उल्लसती विकसती वके मुखे ययोस्तावेतादृशौ उमाहरौ गौरीश्वरौ बभूवतुरिति संबन्धः । अत्र गजाननं भीषयव्याघ्रवद्धघुरध्वनिर्गुह आलम्बनविभावः । शार्दूलकृत्तिप्रावरणमुद्दीपनं विकसद्वदनत्वमनुभावः । हास्यपृथुध्वन्याद्यभावाक्षिप्तावहित्थाख्याकारगुप्तिर्व्यभिचारिभावश्चैतैः पुष्टो हासाख्यः स्थाय्येव विभावमात्रजवेन स्वनिष्टः पूर्वोक्तस्मितलक्षणवत्त्वेन स्मिताभिधो हास्यरसः स्वभावोक्त्यलंकारापेक्षया मुख्य. तया व्यज्यते ॥ ८० ॥ एवं खनिष्टं हसितमुदाहरति-श्रीति । श्रियो लक्ष्म्याः
SR No.023485
Book TitleSahityasaram
Original Sutra AuthorN/A
AuthorAchyutrai, Vasudev Lakshman Shastri
PublisherTukaram Javaji
Publication Year1906
Total Pages576
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy