SearchBrowseAboutContactDonate
Page Preview
Page 130
Loading...
Download File
Download File
Page Text
________________ ११४ [ पूर्वार्धे साहित्यसारम् । घनं तमालमाविद्युद्वल्या वलयितं यदा । विलोक्यामूञ्छि रामेण कामोऽपि करुणस्तदा ॥ ७७ ॥ वैरूप्यफुल्लवक्रत्वावहित्थाद्यैरनुक्रमात् । विभावाद्यैर्युतो हासः स्थायी हास्यरसः स्मृतः ॥ ७८ ॥ क्षयाऽन्योन्यरतिरेव प्राधान्येन व्यज्यते। अत्र विरहिणावेव नायिकानायकौ । समानुरागकः खीयाविषयत्वात्स्पष्टविप्रलम्भः शृङ्गारः । गम्योत्प्रेक्षालंकारः । यथावा'कुक्कुटे कुर्वति काणमाननं श्लिष्टयोस्तयोः । दिवाकरकराकान्त शशिकान्त इवाबभौ' इति ॥ ७६ ॥ अथ तमेव विषमानुरागकमुदाहरति-घनमिति । यदा यस्मिन्सीतावियोगकाले रामेण श्रीरघुवीरेण घनं मेघाख्यतमालं नीलत्वात्तमालद्रुमरूपं आसमन्तात् या विद्युत्सैव वल्ली तया वलयितं वेष्टितमित्यर्थः । एतादृशं विलो. क्यामूछि मूछितम् । विद्युद्यथेयं मेघमालिङ्गय कनकवल्लीव तमालवृक्षमिव तिष्ठति यथा विद्युद्वल्लीव गौराङ्गी तन्वी जानकी घनतमालवत्सरसं मृदुलं नीलं मां कदाऽलिङ्गिष्यतीति तत्स्मृत्यादिदुःखोद्रकान्मूच्र्छा गतमिति यावत् । तदा तस्मिन्क्षणे कामोऽपि कामयते निर्दयत्वेन जगज्जयति तथा विश्वजिगीषुत्वेन निष्करुणः पश्चबाणोऽपीत्यर्थः । अपिना कारुण्याभावपौष्कल्यं द्योतितम् । करुणः सदयोऽभवदिति शेषः । तदानीं कामस्य सदयतयैव श्रीरामदेहसत्वं नोचेत्तस्यापि विरह एव स्यादतो ज्ञायते तदा तस्य तथात्वमिति तत्त्वम् । अत्राघनाद्यवलोकनोद्दीपनः सीतालम्बनो मूर्छासहचारी तदाक्षिप्तरोमाञ्चाद्यनुभावः श्रीरामगतो रत्याख्यः स्थाय्येव रूपकाद्यपेक्षया मुख्यतया व्यज्यते । किंचेह विरहिणावेव नायिकानायकौ । रामरतेरेव ध्वननाद्विवमानुरागकः स्वकीयाविषयत्वेन स्पष्टविप्रलम्भः शृङ्गारः । रूपककाव्यलिङ्गपरिकराङ्कुरा अलंकाराः । यथावा प्रसन्नराघवाख्ये नाटके-सौमित्रे ननु सेव्यतां तरुतलं चण्डांशुरुजम्भते चण्डांशोर्निशि का कथा रघुपते चन्द्रः समुन्मीलति । वत्सैतद्विदितं कथं नु भवता धत्ते कुरङ्गं यतः क्वासि प्रेयसि हा कुरङ्गनयने चन्द्रानने जानकि' इति । यथावामरुशतके-लिखन्नास्ते भूमिं बहिरवनतः प्राणदयितो निराहाराः सख्यः सततरुदितोच्छूननयनाः । परित्यक्तं सर्व हसितपठितं पञ्जरशुकैस्तवावस्था चेयं विसृज कठिने मानमधुना' इति ॥ ७७ ॥ एवं शृङ्गारं निरूप्य क्रमप्राप्तं हास्यं निरूपयितुं तं लक्षयति-वैरूप्येति । वैरूप्यं विपरीतरूपवं तथा फुल्लवक्रवं विकसितवदनवं तथा भवहित्था आकारगोपनं 'अवहित्थाऽकारगुप्तिः' इत्यमरोक्तेः । तच्च तच्च साचेति तथा ताः आद्याः मुख्या येषां आनन्दाश्रुपातादीनां ते तथा तैरित्यर्थः । एतादृशैः अनुक्रमात् यथाक्रमेण विभावाद्यैः उद्दीपनविभावकायिकानुभावव्यभिचारिभावैरिति यावत् । युतः पुष्टः हासस्थायी हासाख्यः । प्रागुक्तलक्षणः स्थायिभाव इत्यर्थः । हास्येत्यादि स्पष्टमन्यत् ॥ ७८ ॥
SR No.023485
Book TitleSahityasaram
Original Sutra AuthorN/A
AuthorAchyutrai, Vasudev Lakshman Shastri
PublisherTukaram Javaji
Publication Year1906
Total Pages576
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy