________________
दक्षिणावर्तकम्वुरत्नम् ४] सरसामोदव्याख्यास हितम् । ११३
शिवयोर्देहभेदोऽपि देहात्विस्य कारणम् ।
बत मौलोन्दुकुन्दाभकलालोकनतोऽप्यभूत् ॥ ७६ ॥ हितकथनैः किम् । न किंचित्प्रयोजनमित्यर्थः । ननु कुत एवमित्यत आहजात इति । दोषोदयः दोषः प्रदोषः दोषा रात्रिर्वा तस्य तस्याः वा उदयः । आविर्भाव इत्यर्थः । पक्षे अतिव्याप्त्यादिदोषः तस्योदयः प्राप्ति. रिति यावत् । स जातः खलु । संपन्न एवेत्यर्थः । अयं भावः-यद्यपि त्वया तावत्सहस्रशः समाधानानि कृतान्येव तथापि यथाकथंचिद्गृहकृत्यादिव्यापारशतैर्वासरे नीतेऽपि विरहिणीकालरात्रिरियं रात्रिस्तावत्कथं नेयेति विफलान्येव भवत्कृतसमाधानानीति यथा दोषापाकरणार्थमेवाखिलशास्त्रादौ समाधानानि विधीयन्ते खलु तदुदय एव प्रत्युत संपन्ने सति तानि व्यर्थान्येव तद्वदिति । इतीति । निरुक्तप्रकारेण राधिका उद्धवं प्रति उक्त्वा हन्त इति खेदे । हे कान्त भो सकलकल्याणगुणमणिगणार्णव गोपीरमण श्रीकृष्णेति दीर्घस्वरमुच्चैरुच्चार्य रुदन्ती रोदनं कुर्वन्ती सती अपतत् भूमौ निपपात । शोकातिशयेन मूर्च्छिता बभूवेत्यर्थः । अत्र श्रीकृष्णालम्बना दोषागमोद्दीपना स्मृतिशोकमूर्छादिसहचारिणी कम्पवैवर्ण्यरोदनाद्यनुभावा राधिकानिष्टा रतिरेव श्लेषाद्यलंकारापेक्षया प्राधान्येव ध्वन्यते । परकीयविषयत्वेन गुप्तत्वं नायिकैकनिष्टत्वाद्विषमवं च बोध्यम् । अत्र परकीया विरहिणी प्रगल्भा नायिका । ललितो नायकः । विषमानुरागको गुप्तविप्रलम्भः शृङ्गारः । श्लेषकाव्यलिङ्गपरिकराङ्कुरादयोऽलं. काराः । यथावा गोवर्धनाचार्याः'अनुरागवर्तिना तव विरहेणोण सा गृहीताङ्गी । त्रिपुररिपुणेव गौरी वरतनुरर्धावशिष्टैव' इति ॥ ७५ ॥ ततोऽनुक्रमप्राप्तं समानुरागकं स्पष्टविप्रलम्भमुदाहरति-शिवयोरिति । श्रीमत्पार्वतीपरमेश्वरयोः देहभेदोऽपि वस्तुतश्चिदेकरसत्वाद्भक्तभावनयावभासमानशरीरभेदोऽपीत्यर्थः । अपिशब्दालोकप्रसिद्धदेशान्तरगमनादिरूपवियोगपदवाच्यविभेदे किं भविष्यतीति को वेदेति प्रेमौत्कट्यं ध्वनितम् । बतेति खेदे । मौलीति । कलाभ्यां चूडालंकृतशशिकलाभ्यामिति श्रीमद्भगवत्पूज्यपादपादारविन्दवचनान्मौल्योः परस्परकिरीटयोः ये इन्द्वोः कुन्दाभे कुन्दकलिकावत्सूक्ष्मे नतु परिपुष्टे एतादृशे ये कले षोडशभागौ तयोः आलोकनं अवलोकनं अन्योन्यकर्तृकमीक्षणं तस्मादपीत्यर्थः । अत्राप्यपिना शरद्राकासुधाकरादिनिखिलोद्दीपन. विभावदर्शने तु किं स्यादिति नैव जान इति निरतिशयत्वं प्रेम्णः सूचितम् । देहाति । देहयोः परस्परशरीरयोः यदर्धत्वं तस्य कारणं हेतुरभूदित्यन्वयः । अहो गौरीश्वराभ्यां तावद्देहभेदात्मकविरहोऽपि परस्परमुकुटचन्द्ररेखावलोकना. त्सोढुमशक्य इत्यर्धदेहत्वमेव दुःखातिशयात्संपादितमत एव तयोरेकमर्धनारीश्वराख्यं रूपं संपन्नमिति तात्पर्यम् । अत्रोक्तेन्दुकलावलोकनोद्दीपिता परस्परालम्ब. नानिरुक्तदेहात्विरूपकार्यानुभावात्तदाक्षिप्तचिन्तादिसंचारिणी गम्योत्प्रेक्षालंकारापे