________________
११२ साहित्यसारम् ।
[ पूर्वार्ध नन्दमन्दिरमाविष्टे कृष्णे सायं सगोधने । बल्लवीनां विनिश्वासैः संताप्यन्ते तदालयाः॥ ७४ ॥ किमुद्धवसमाधानैर्जातो दोषोदयः खलु ।
इत्युक्त्वा हन्त कान्तेति रुदन्ती राधिकापतत् ॥ ७५॥ मिव प्रतिफलितम् । एतादृशं खं खकीयं कान्तं सर्वगुणसुन्दरं निजरमणं श्रीरामचन्द्रमित्यर्थः । एतेन परपुरुषत्वस्याप्रसन्नत्वस्य च व्युदासः । वीक्ष्य अवलोक्य। निरुक्तखाभाव्येन प्रतिबिम्बमिदमित्यनुसंधानराहित्यात्सत्यमेवागतं मत्वेत्यर्थः । अनेनालम्बनविभावो ध्वनितः । पाद्याय पादक्षालनोदकार्थे बरमाणा सतीति शेषः । एतेनावेगाख्यो व्यभिचारिभावः सतीधर्मश्चावेदितः । अतएव खेदपूर्णाञ्जलिः खेदेन सात्विकानुभावाख्यधर्मेण पूर्णो भरितोऽञ्जलिस्तद्दर्शनाव्यवहितो. त्थानक्षण एव विरचितकरसंपुटो यस्याः सा तथेत्यर्थः । एतादृशी बभौ शुशुभे इत्यन्वयः । कामाकुला बभूवेति भावः । एवं चात्र परिपूर्णा रतिरेव भ्रान्तिमदाद्यलंकारापेक्षया मुख्यत्वेन व्यज्यते । अत्र पूर्वोक्तैव नायिका । भ्रमात्मको नायकः । स्पष्टसंभोगाख्यो नायिकामात्रनिष्टत्वेन विषमानुरागकः शृङ्गारः । भ्रान्तिमदतिशयोक्तिपरिकराङ्करादयोऽलंकाराः।यथावा भाणे-'मन्दस्मितेन मधुरा• धरपल्लवेन कुम्भोन्नमत्कुचभरेण कृशोदरेण । विद्युनिभाङ्गलतया च विचिन्त्यमाना चेतो धिनोति च धुनोति च चञ्चलाक्षी' इति ॥ ७३ ॥ एवं संभोगचतुष्टयमुदाहृत्याथ विप्रलम्भचतुष्टयमुदाहरन् प्रथमं समानुरागकं गुप्तविप्रलम्भ. मुदाहरति-नन्देति । अत्र पूर्वार्धेऽक्षरार्थः स्पष्ट एव । बल्लवीनामिति । गोपीनामित्यर्थः । विनिश्वासैः विशेषेण दुःखोत्कर्षेण ये निश्वासाः उष्णश्वासास्तैः तदालयाः । 'गृहाः पुंसि च भून्येव निकायनिलयालयाः' इत्यमरात् तासां गोपीनां गृहा इत्यर्थः । संताप्यन्ते संतप्तीक्रियन्त इति यावत् । कृष्णविरहात्ताः संतप्ता बभूबुरिति भावः । अत्र सायंपदवाच्यप्रदोषकालेनोद्दीपितः श्रीकृष्णालम्बनो विनिःश्वासानुभावः । संतापाक्षिप्तशोकसहचारी काव्यलिङ्गाद्यलंकारापेक्षया चमत्कारकारित्वेन रत्याख्यः स्थाय्येव मुख्यत्वेन व्यज्यते । किंचैवं सगोधन इति विशेषणे श्लेषेण गोशब्दितगोपीनेत्राण्येव सर्वखत्वेन धनानि तैः खान्तःकरणवर्तिभिः सह वर्तत इति व्युत्पत्त्या गोप्यालम्बना चिन्तासहचारिणी कृष्णपदद्योतितविरहकालिमानुभावा भगवन्निष्ठा रतिरपि ध्वनिता । अत्र परकीया विरहिण्यो नायिकाः । विरहचिन्तातुरो नायकः । उभयरतित्वेन समानुरागकः परकीयाविषयत्वेन गुप्तविप्रलम्भः शृङ्गारः। श्लेषकाव्यलिङ्गातिशयोक्तयोऽलंकाराः। यथावा रसगङ्गाधरे–'नयनाञ्चलावमर्श या न कदाचित्पुरा सेहे । आलिङ्गितापि जोषं तस्थौ सागन्तुकेन दयितेन' इति ॥ ७४ ॥ अथ तमेव विषमानुरागकमुदाहरति-किमिति । इदं हि उद्धवं प्रति राधिकावचनं पूर्वार्धात्मकम् । भो उद्धव, वत्कृतैस्तत्त्वोपदेशादिरूपैः समाधानैः सांखनैः, पक्षे दोषापकरणपूर्वक