________________
१०७
दक्षिणावर्तकम्बुरत्नम् ४] सरसामोदव्याख्यासहितम् ।
उत्साहः शक्तिसंभूता वृत्तिरोन्नत्यनामिका । धीरे सति विचारेऽत्र कः स्मरः कामिघस्मरः ॥ ६३ ॥ प्रतिकूलोपलम्भेन जाता वृत्तिर्भयं स्मृतम् । चकम्पे यष्टिकाहस्तां यशोदां वीक्ष्य माधवः ॥ ६४ ॥ अहृद्यदर्शनाद्युत्था चित्तवृत्तिर्जुगुप्सनम् । ईश्वरोऽप्यसुरान्त्राणि नृहरिः किं दधौ गले ॥६५॥ चित्रवस्तुपरिज्ञानजन्या वृत्तिस्तु विस्मयः। ब्रह्मापि तृणवद्यस्यामहो केयं गुरोः कृपा ॥६६॥ दृश्यौदास्यं विवेकेन दृढं निर्वेद उच्यते।
श्रियोऽप्यधरपीयूषपानैरलमलं मम ॥ ६७ ॥ रेऽन्धे इति । इदं हि समुद्र प्रति श्रीरामवचनम् । रे इति नीचसंबोधने । अरे समुद्र, अयं धनुष्यारोपितत्वेन प्रत्यक्षः रामस्य मम बाणः शरः भूजोऽपि पृथिव्याः सकाशादुत्पन्नोऽपि । अपिशब्देन पृथ्वीजन्यो घटोऽपि भवति । तथा किं तेन मदुदकशोषणं कर्तुं शक्यत इति तत्साम्येनैतस्याप्यवहेलनं मा कुर्विति द्योतितम् । यतः एतादृशोऽप्ययं घटजः कुम्भसंभवो भगवानगस्तिमुनिः स न भवति किम् । अपितु भवत्येवेत्यर्थः । अगस्त्येन यथा निखिलाब्धिशोषणं निमेषमात्रेणैव कृतं तथैवायं करिष्यतीति सावधानो भवेति भावः । तत्र रामस्येति पदेन रामाख्यजगदेकवीरसंबन्धित्वं हेतुर्ध्वनितः ॥ ६२ ॥ उत्साह इति । औत्कट्यापरपर्याचमौनत्यं प्रायो यावज्जीवेष्वपीत्यतो विशिनष्टि-शक्तीति । शक्तिः सामर्थ्यम् । धीर इति । अचल इत्यर्थः । कामीति । कामिनां स्त्रैणानां घस्मरः । 'भक्षको घस्मरोऽमरः' इत्यमरवचनाद्भक्षक इत्यर्थः । एतादृशः स्मरः कामः कः । न किंचित्कर इति यावत् । इदं तु वक्ष्यमाणज्ञानवीरोत्साहोदाहरणं बोध्यम्॥६३॥प्रतिकूलेति । स्वस्य प्रतिकूलं विरोधि यद्वस्तु तस्य य उपलम्भः प्राप्तिस्तेनेत्यर्थः। चकम्प इति । मथनपात्रभञ्जनकाल इति शेषः ॥ ६४ ॥ अहृद्येति । न हृद्यं रम्यमहृद्यं निन्द्यं तस्य यद्दर्शनादि । आदिना प्रवणादिग्रहः । तस्मादुत्तिष्ठत्युत्पद्यत इति तथा अमङ्गलवस्तुदर्शनश्रवणादिजन्येत्यर्थः। ईश्वरोऽपीति । अत्रापिना प्रयोजनाभावः सूचितः । नृहरिः ना पुरुषः स चासौ हरिः सिंहश्चेति तथा नरसिंह इत्यर्थः । असुरेति । असुरस्य हिरण्यकशिपोरन्त्राणि रक्तकर्दमितमांसखण्डानि तान्यपि गले खकण्ठे किं दधौ किमिति धृतवानित्यर्थः । तदनुचितमिदमस्येति रहस्यम् ॥ ६५ ॥ चित्रेति । मनस इति प्राग्वत् । ब्रह्मापीति ।यस्यामद्वैतं ब्रह्मापि तृणवत्सुलभमित्यर्थः। यद्वा ब्रह्मा विधातापि तृणवत्तुच्छ इति यावत्॥६६ दृश्येति । दृश्यं द्वैतं तत्र औदास्यम् । उदासीनत्वमित्यर्थः । इमाशानश्रावणयोवैराग्यत्वव्यावृत्तये विवेकैनति दृढमिति च । श्रियोऽपीति । लक्ष्म्या अपी त्यर्थः । एवं चोर्वश्यादीनां कैव कथेति द्योतितम् । वीप्सया दाय॑म् ॥ ६७ ॥