________________
साहित्यसारम् ।
हासः कुतूहलकृतो विकासः परिकीर्तितः । प्रातः कज्जललिप्तास्यां वीक्ष्य राधां मुमोद सः ॥ ६० ॥ शोको वृत्तिरभीष्टस्य ध्वंसजा रत्यमण्डिता । रुरोद हन्त गान्धारी विनाश्रुभिरपुत्रिणी ॥ ६१ ॥ विच्छेदादभिलाषस्य वृत्तिः क्रोधोऽभिधीयते । रेऽब्धे रामस्य बाणोऽयं भूजोऽपि घटजो न किम् ॥६२॥ योश्च प्रायेण रागानुपलब्धेः क्वचिदुपलब्धावप्युक्तरसस्थायित्वस्य तत्राभावाद्यूनोरित्युक्तम् । एवंच यूनोरन्योन्यस्मिन् समो वा विषमो वाऽनुरागो रतिरिति तलणम् । तत्र पुत्रादिविषयकेऽनुरागेऽतिव्याप्तिवारणायान्योन्यस्मिन्निति । एकतरानुरागे तुल्यानुरागे चाव्याप्तिनिरासार्थं विषमादिपदम् । एवंच तुल्यानुरागत्वं समरतित्वकतरानुरागत्वं विषमरतित्वं चेति तल्लक्षणे बोध्ये। तमुदाहरति - शिवावित्यवशि टार्थेन। हे दूति, शिव पार्वतीपरमेश्वरौ । ऐक्यं भेदराहित्यम् । अर्धनारीत्वेनैकदेहत्वमिति यावत् । गतौ प्राप्तौ । प्रेम्णेति शेषः । एवंच कृष्णः मां स्मरत्यपि किम् । तस्मादेतावत्कालं मदुपेक्षणात्तत्प्रेम मयि नास्त्येव किंत्वहमेव तदनुरागिणी । नोचेत् शिवयोरिवावयोरप्यैक्यं किमिति न जातमासीदिति भावः । अत्र प्रथमं समप्रेमोदाहरणं द्वितीयं विषम प्रेमोदाहरणमिति बोध्यम् । यथावा गोवर्धनाचार्याः'प्रणयकुपितप्रियापदलाक्षासंध्यानुबन्धमधुरेन्दुः । तद्बलयकनकनिकषप्रावग्रीवः शिवो जयति' इति । भवभूतिरप्युत्तररामचरिते रामवाक्येन 'सेयं ममाङ्गेषु सुधारसच्छटासुपूरकर्पूरशलाकिका दृशोः । मनोरथश्रीर्मनसः शरीरिणी प्राणेश्वरी लोचनगोचरं गता' इति च ॥ ५९ ॥ एवं क्रमेणावशिष्टानपि हासादिस्थायिभावानष्टभिः पद्यैः पूर्वोत्तरार्धाभ्यां संलक्ष्योदाहरति -हास इत्यादिना | कुतूहलेति पदं तु 'हसितमपि शून्येन मनसा' इति भर्तृहरिवचनात्कोपप्रच्छादकमुख विकासेऽतिव्याप्तिव्यावृत्तये । तत्र कुतूहलकृतत्वाभावादिति भावः । प्रातरित्युदाहरणम् । सः श्रीकृष्णः । एतेन निशि नवनीतादिचौर्यावसरे स्वेन तन्मुखे कज्जलं लापितमिति ध्वनितम् ॥ ६० ॥ शोक इति । अभीष्टस्य ध्वंसजा रत्यमण्डिता वृत्तिश्चितपरिणाम विशेषः शोक इत्यन्वयः । रतीति विशेषणाद्विप्रलम्भरशृङ्गारे न व्यभि - चारः । तत्र रत्यमण्डितत्वाभावादिति । रुरोदेति गान्धारी । हन्तेति खेदे | अपुत्रिणी मृतकोत्तरशतपुत्रत्वेन पुत्रहीना सतीत्यर्थः । अश्रुभिर्विनैव पातित्रत्यवशान्निबद्धनेत्रतया अश्रुसत्वेपि तत्प्राकट्या भावाल्लोकदृष्टया नेत्रोदकैर्विनैव रुरोद शुशोचेति योजना । यथावा रसतरङ्गिण्याम् – 'विरहज्वरमूर्च्छया पतन्तीं नयनेनाश्रुजलेन सिच्यमानाम् । समवेक्ष्य रतिं विनिश्वसन्तीं करुणाकुलिता बभूव शंभो:' इति । अत्र नयनेनेत्येकवचनं तु संमुखस्थित शिवनेत्रयोः सूर्यचन्द्रत्वात्तत्सूर्यकिरणैरेतदेकनेत्राभ्रूणां शोष्यमाणत्वादेव ॥ ६१ ॥ विच्छेदादिति । अभिलाषस्य वाञ्छाविशेषस्य विच्छेदाद्धेतोर्या मनसो वृत्तिः स क्रोधोऽभिधीयत इति संबन्धः ।
१०६
[ पूर्वार्धे