________________
दक्षिणावर्तकम्बुरत्नम् ४ ]
सरसामोदव्याख्यासहितम् ।
कायिका मानसास्तद्वदाहार्याः सात्विका अपि । श्रवणाद्याः प्रमोदाद्या रामत्वाद्या नटे क्रमात् ॥ ५३ ॥ इत्यसंख्यास्त्रयोऽथाष्टौ स्तम्भाश्रुस्वरभङ्गकाः । कम्पवैवर्ण्यरोमाञ्चलयस्वेदा इमेऽन्तिमाः ॥ ५४ ॥ संचारिणां तु लक्ष्मादि वक्ष्याम्यग्रे यथाक्रमम् । ननु प्राचां क्रमो नैवमित्याशङ्का भवेदतः ॥ ५५ ॥ शृङ्गारहास्य करुणा रौद्रवीरभयानकाः । बीभत्साद्भुतसंज्ञौ चेत्यष्टौ नाट्ये रसाः स्मृताः ॥ ५६ ॥ निर्वेदस्थायिभावाख्यः शान्तोऽपि नवमो रसः । इति सूत्रादित्यैव निरूप्यन्ते क्रमादिमे ॥ ५७ ॥ व्यक्तः स तैर्विभावाद्यैः स्थायीभावो रसः स्मृतः । इति वाक्यवशादादौ स्थायिलक्ष्मादि कथ्यते ॥ ५८ ॥ यूनोः समो वा विषमोऽन्योन्यं रागो रतिः स्मृता । शिवावैक्यं गतौ दूति कृष्णः किं मां स्मरत्यपि ॥ ५९ ॥ ॥ ५२ ॥ उक्तं चातुर्विध्यं केन भेदेनेत्यतस्तद्विशदयति – कायिका इत्यर्धेन । काये देहे भवाः कायिकाः, मनसि भवाः मानसाः, बाधकालीनेच्छाजन्यज्ञानरूपा आहार्याः, सत्वगुणप्राधान्येन भवाः सात्विका इत्यर्थः । तेषामेव क्रमात्खरूपाणि वदन्कायिकादीनां त्रयाणामेव दिमात्रेण रूपमुपन्यस्यति - श्रवणाद्या इत्यर्धेन । वेदान्तस्यैव श्रवणं शान्तरसे कायिकोऽनुभावः । आद्यपदेनैकान्तवाससाधुसमागमादिः प्रमोदो ब्रह्मानन्दः । आदिपदात्समाध्यादि । नटे नर्तके वेषधारिणि शैलूषे रामवाद्याः निरुक्तरसव्यञ्जकयोगवासिष्ठाख्यमहारामायणाभिनये इति भावः । आद्यपदाद्वसिष्ठत्वादिः ॥५३॥ तत्र हेतुमाह - इतीति । तर्हि सात्विकानां किमस्ति संख्या तत्रोमिति वदंस्तामाह - अथेति । अथशब्दो राश्यन्तरसूचकः । स्तम्भः शरीरादिताटस्थ्यम् । सत्वगुणेत्यादि सर्वत्र चित्तैकाग्र्यं लयः ॥ ५४ ॥ संचारिणां त्विति । इदं हि क्रमप्राप्तव्यभिचारिभावनिरूपणसमाधानार्थम् । प्राचामेव रस निरूपणक्रम मनुसर्तु तत्र हेतुत्वेन शङ्कामुत्थापयति – नन्वित्यर्धेन ॥ ५५ ॥ उक्तनिरूपणं सप्रमाणं प्रतिजानीते - शृङ्गारेत्यादियुग्मेन ॥ ५६ ॥ सृत्या सरण्या ॥ ५७ ॥ एवं रसप्रपञ्चने प्रतिज्ञाते तत्प्रसङ्गेन तन्मूलीभूतस्थायिभावलक्षणादिनिरूपणं सप्रमाणमवतारयति - व्यक्त इति । इतीति । उक्तप्रकारकाव्यप्रकाशकारिकावशादित्यर्थः । स्थायिभावस्य प्राधान्यादिति यावत् । लक्ष्मादीति । 'चिह्नं लक्ष्म च लक्षणम्' इत्यमरालक्षणमित्यर्थः 1 । आदिनोदाहरणसंग्रहः ॥ ५८ ॥ तत्र ' रतिर्ह्रासश्च शोकश्च क्रोधोत्साहो भयं तथा । जुगुप्सा विस्मयश्चेति स्थायिभावाः प्रकीर्तिताः' इत्युक्तेः प्रथमं शृङ्गारस्य स्थायिभावं रत्याख्यं लक्षयति-यूनोरित्यर्धेन । तरुणयोः स्त्रीपुंसयोरित्यर्थः । बालयोर्बुद्ध
१०५