SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ १०४ [ पूर्वार्धे साहित्यसारम् । स्थायिभावाः क्रमादेते शान्तादीनां प्रकीर्तिताः। स्थायित्वं वासनात्वेऽपि मुहुर्व्यक्तत्वमिप्यताम् ॥ ५० ॥ एतेषां कारणानि स्युर्विभावा द्विविधा अपि । अनुभावास्तु कार्याणि सहाया व्यभिचारिणः ॥५१॥ आलम्बनविभावाश्च तथैवोद्दीपनाभिधाः। अनुभावा अथ तथा क्रमाद्बोध्याश्चतुर्विधाः ॥५२॥ खप्रतिकूलानुसंधानजं भयम् । अस्याज्ञानपूर्वकलोभहेतुत्वादुक्तरूपभयानकरसोंपादानत्वम् । सामर्थ्यजन्य औनत्यनामा मनोविकार उत्साहः । अयं च ज्ञानपूर्वकप्रमादैकत्वादुक्तरूपवीररसोपादानम् । अहृद्यदर्शनादिजा चित्तवृत्तिर्जुगुप्सा । अस्याः प्रमादलोभपूर्वकत्वात्तादृशबीभत्सरसोपादानत्वम् । अभिलाषविच्छेदजो वृत्तिविशेषः क्रोधः । अस्य च मोहमूलत्वे सति प्रमादघटितत्वादुक्तरूपरौद्ररसोपादानत्वमिति ॥ ४९ ॥ एवमुद्दिष्टानामेतेषां स्थायिभावत्वमभिधते-स्थायी. त्यर्धेन । एवं स्थायिभावानुक्त्वा तत्सामान्यं लक्षयति-स्थायित्वमित्यर्धेन । तदुक्तं रसगङ्गाधरे–नन्वचित्तवृत्तिरूपाणामेषामाशुविनाशित्वेन स्थिरत्वं दुर्लभं, वासनारूपतया स्थिरत्वं तु व्यभिचारिष्वतिप्रसक्तमिति वाच्यम् । वासनारूपाणामेषां मुहुर्मुहुरभिव्यक्तिरेव स्थिरपदार्थत्वात् । यदाहुः-'विरुद्धैरविरुद्धैर्वा भा. वैर्विच्छिद्यते न यः । आत्ममा नयत्याशु स स्थायी लवणाकरः। चिरं चि. तेऽवतिष्ठन्ते संबन्ध्यन्तेऽनुबन्धिभिः । रसत्वं ये प्रपद्यन्ते प्रसिद्धाः स्थायिनोऽत्र ते' इत्यादिना । तस्मान्मुहुः प्रकटवासनाविशेषत्वं स्थायित्वमिति तल्लक्षणं फलितम् । अत्र संचारिभावेष्वतिव्याप्तिवारणाय मुहुरिति । तथा निगूढसंस्कारादौ तद्वारणाय प्रकटेत्यादि ॥ ५० ॥ नन्वस्त्वेवं स्थायिभावलक्षणं तथाप्येतेषामपि मुहुराविर्भावे किंचिनिमित्तमस्ति न वा । नाद्यः। मुहुःशब्दितसततप्राकट्याभावप्रसङ्गात् । नान्त्योऽपि । अनन्तासु चित्तवृत्तिष्वैतेषामेव किमिति सातत्येन प्राकट्य मिति प्रश्नापत्तेरित्यत आह-एतेषामिति । कारणानि निमित्तकारणानीत्यर्थः । तदुक्तं काव्यप्रकाशमूले 'कारणान्यथ कार्याणि सहकारीणि यानि च । रत्यादेः स्थायिनो लोके तानि चेन्नाट्यकाव्ययोः । विभावा अनुभावाश्च कथ्यन्ते व्यभिचारिणः' इति । तस्मान्मुहुःशब्दस्य पौनःपुन्यार्थकत्वेन सातत्यपरत्वविरहा. नोक्तशङ्कावकाश इत्याशयः । विभावयन्ति प्रकटयन्ति स्थायिन इति व्युत्पत्त्या स्थायिनिमित्तत्वं तत्त्वमित्यादीनि तेषां लक्षणान्यूह्यानि-द्विविधा इति । आलम्बनत्वोद्दीपनलोपाधिभ्यां द्वैविध्यं बोध्यम् ॥ ५१ ॥ तत्रोद्दिष्टं विभाववैविध्यं स्पष्टयति-आलम्बनेत्यर्धेन । निरुक्तं तद्रूपं रसतरङ्गिण्याम् 'यमालम्ब्य रस उत्पद्यते स आलम्बनविभावः । यो रसमुद्दीपयति स उद्दीपनविभावः' इति । एवं प्रतिज्ञाताननुभावानपि स्फुटयितुं तत्संख्यां ख्यापयति-अनुभावा इत्यर्थेन ।
SR No.023485
Book TitleSahityasaram
Original Sutra AuthorN/A
AuthorAchyutrai, Vasudev Lakshman Shastri
PublisherTukaram Javaji
Publication Year1906
Total Pages576
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy