SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ दक्षिणावर्तकम्बुरत्नम् ४] सरसामोदव्याख्यासहितम् । १०३ निर्वेदोऽथ रतिः शोको हासोऽथो विस्मयो भयम् । उत्साहोऽथ जुगुप्सा च क्रोधश्चेति पुरातनैः ॥ ४९ ॥ तस्तद्वीजमाह-त्रयस्त्रय इति । एते प्रतिपदमुक्ताः शान्तादयो रसाः क्रमात् त्रयस्त्रयः सात्विकादयः सात्विका राजसास्तामसाश्चेत्यर्थः । विज्ञेया बोध्या इति चावत् । पुनरेकैकत्रिकेऽपि सालिकादिभेदं सदृष्टान्तं स्पष्टयति-जाग्रदादिवदिति । तथा प्राग्वत्सात्विकादयो विज्ञेया इत्यर्थः । तदयं क्रमः-सात्विकसात्विकः शान्तः, सात्विकराजसः शृङ्गारः, सात्विकतामसः करुणः, राजससालिको हास्यः, राजसराजसोऽद्भुतः, राजसतामसो भयानकः, तामससात्विको वीरः, तामसराजसो बीभत्सः, तामसतामसो रौद्र इति । जाग्रदादिप्रत्येकं त्रैविध्यमुक्कं श्रीमधुसूदनसरस्वतीभिः सिद्धान्तबिन्दौ 'प्रमाज्ञानं जाग्रजाग्रत् । शुक्तिरजतादिविभ्रमो जाग्रत्स्वप्नः । श्रमादिना स्तब्धीभावो जाग्रत्सुषुप्तिः । एवं स्वप्ने मन्त्रादिप्राप्तिः स्वप्नजाग्रत् । स्वप्नेपि स्वप्नो मया दृष्ट इति बुद्धिः स्वप्नस्वप्नः । जाग्रद्दशायां कथयितुं न शक्यते स्वप्नावस्थायां यत्किंचिदनुभूयते तत्स्वप्नसुषुप्तिः । एवं सुप्त्यवस्थायामपि सात्विकी या सुखाकारा वृत्तिः सा सुषुप्तिजाग्रत्। तदनन्तरं सुखमहमस्वाप्समिति परामर्शस्तत्रैव या राजसवृत्तिः सा सुषुप्तिस्वप्नः । तदनन्तरमेव दुःखमहमखाप्समिति परामर्शोपपत्तिः । एवं तामसीवृत्तिः सुषुप्तिसुषुप्तिः । तदनन्तरं गाढमूढोऽहमासमिति परामर्श इति ॥ ४८ ॥ एतेषां स्थायिभावानप्युपादानत्वेनाभ्यर्हितत्वादुद्दिशति-निर्वदइत्यादिना सार्धेन । तत्र 'सत्वात्संजायते ज्ञानं रजसो लोभ एव च । प्रमादमोहौ तमसो भवतोऽज्ञानमेव च' इति श्रीमद्भग. वद्वचनादेवमेतेषां व्यवस्था । विवेकेन दृश्यौदासीन्यं निर्वेदः । तस्य सदसज्ज्ञानमात्रघटितत्वेन शुद्धसात्विकत्वादुक्तरूपशान्तरसोपादानत्वम् । उक्तं हि रसगङ्गाघरे-'नित्यानित्यवस्तुविचारजन्मा विषयविरागाख्यो निर्वेदः' इति। तथा स्त्रीपुंसयोरन्योन्यमन्यतरालम्बनः कचिदुभयालम्बनो वा प्रेमाभिधश्चित्तवृत्तिविशेषो रतिः । अस्य तु ज्ञानघटितत्वेऽपि लोभहेतुत्वादुक्तरूपशृङ्गारोपादानत्वम् । यत्तु पण्डितरायैः स्त्रीपुंसयोरन्योन्यालम्बनप्रेमाख्यश्चित्तवृत्तिविशेषो रतिभाव इति तल्लक्षणमुक्तं तत्र 'किंद्रुतपदं प्रयासि प्रतीच्छ मुग्धे च्युतमलंकारम् । मृगयाम्यच्युतमेव भ्रष्टै. रेतैर्न मे हानिः' इत्यादावेकतररतौ अव्याप्तिरिति वदन्तीति तदाशय एवायं मयात्र प्रकटितः । इष्टविच्छेदजन्यो रत्यनवच्छिन्नो मनोविकारः शोकः । विप्रलम्भशृङ्गारे अतिव्याप्तिवारणाय रतीत्यादि । तथाचाह रसतरङ्गिणीकारः-'इष्टवि. श्लेषजनितो रत्यनालिङ्गितः परिमितो मनोविकारः शोकः' इति । अस्य च मोहपूर्वकज्ञानविशेषघटितत्वादुक्तरूपकरुणारसोपादानत्वम् । कुतूहलकृतो विकासो हासः । एतस्य लोभपूर्वकज्ञानघटितत्वादुक्तरूपहास्यरसोपादानत्वम् । चमत्कारदर्शनादिजन्मा चित्तवृत्तिविशेषो विस्मयः । तदुक्तं रसगङ्गाधरे-अलौकिकवस्तुदर्शनादिजन्मा आश्चर्याख्यो विस्मय इति । एतस्यातिलोभपूर्वकत्वादुक्ताद्भुतहेतुलम् ।
SR No.023485
Book TitleSahityasaram
Original Sutra AuthorN/A
AuthorAchyutrai, Vasudev Lakshman Shastri
PublisherTukaram Javaji
Publication Year1906
Total Pages576
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy