SearchBrowseAboutContactDonate
Page Preview
Page 118
Loading...
Download File
Download File
Page Text
________________ १०२ साहित्यसारम् । [पूर्वार्धे तस्मानिधाय तत्रैव स्वाभिसंधि बुधः सुधीः। शास्त्रादिषु स्वधर्मेण शृङ्गारादीन्भजत्वलम् ॥ ४५ ॥ नित्यानन्दात्मभत्वानि सिद्धान्यत्र चिदंशतः। रत्यायशेन भास्यत्वमनित्यत्वमपि स्फुटम् ॥ ४६ ॥ शान्तशृङ्गारकरुणाहास्याभूतभयानकाः। वीरबीभत्सरौद्राश्च लोके नव रसाः स्मृताः ॥ ४७ ॥ त्रयस्त्रयः क्रमादेते विज्ञेयाः सात्विकादयः । जाग्रदादिवदेकैकत्रिकेऽपि च पुनस्तथा ॥४८॥ नास्तिक्यनिराकरिष्णुरात्मास्तितां भाष्यकृदन युक्त्या । दृढत्वमेतद्विषयश्च बोधः प्रयाति वेदान्तनिषेवणेन' इति । गुरुमतानुसारिणा भवनाथेनाप्युक्तमर्थवादाधिकरणे । अथवा वेदान्तानां चोदनैकवाक्यता 'अथातो ब्रह्मजिज्ञासा'इति शास्त्रान्तरस्थितेरिति । तस्मान्मीमांसकानामपि उपनिषदेकसमधिगम्यमद्वितीयबमात्मैकत्वमभिमतमेवेति तच्छास्त्रमप्यस्मदुक्तेऽर्थे पर्यवस्यति । एवं शास्त्रान्तरमागमान्तरं चास्मिन्नेवार्थे योजनीयमिति । तथा असावद्वैतात्मा मोक्षः कैवल्यस्वरूपः तज्ज्ञानात् तद्विषयकदृढतमसाक्षात्कारानिमित्तादित्यर्थः । यतेः संध्यावन्दनमारभ्य निदिध्यासनान्तयतनशीलस्य मुमुक्षोः व्यज्यते सकार्यकाविद्याध्वंसद्वारा कण्ठचामीकरन्यायेन प्रकटो भवतीत्यर्थः ॥ ४४ ॥ इत्थं प्रासङ्गिकं स. माप्य तस्य प्रकृते साङ्गत्यमाह-तस्मादिति । अद्वैतब्रह्मण एव मुख्यरसत्वसिद्धरित्यर्थः । सुधीः शोभना सत्वप्राधान्येनान्तरविचारचतुराधीर्यस्य स तथा। जिज्ञासुरित्यर्थः । एतादृशः बुधः शास्त्रतात्पर्यपरायणः। तत्रैवोक्तरूपे रस एव खाभिसंधिं निजतात्पर्य निधाय अचलीकृत्य शास्त्रादिषु रसशास्त्रादिषु आदिना लोकसंग्रहः । खधर्मेण नतु यथेष्टाचारेण शृङ्गारादीन् रसानलं पर्याप्तं भजत्वनुभवत्वित्यर्थः । अत्र सुधीरिति बुध इति चोभयं तु क्रमेण विद्यामदप्रमाणाद्यसंभावनादिदोषद्वयनिरासार्थमेव ॥४५॥ ननु यदि निरुक्तरूप एव रसस्तर्हि तस्य सत्यं ज्ञानमित्या. दिस्मृतेर्नित्यत्वादिकमवश्यं वक्तव्यम् । तत्त्वनुपपन्नमेव । उत्पन्नो रसः नष्टो रसः सम्यगद्यानुभूतो रस इत्याद्यनुभवविरोधादिति चेन। यद्वा तत्संयुतीति द्वितीयलक्षणलक्षितस्य स्थाय्युपहितचित एव पक्षश्वरम एवात्रेत्यादिना प्राक्तनग्रन्थेन प्रकृतरसतयाङ्गीकृतत्वात् । तथाचांशभेदेनोभयव्यवस्थापीत्याह-नित्येति । नित्यश्च आनन्दश्चात्मभः स्वप्रकाशश्चेति तथा तेषां भावा इत्यर्थः । अत्र स्थाय्युपहितचिद्रूपे रसे । उक्तं हि रसगङ्गाधरे-चिदंशमादाय नित्यवं खप्रकाशत्वं च सिद्धम् । रत्याधेशमादायानित्यत्वमितरभास्यत्वं चेति ॥ ४६ ॥ एवं रससामान्यलक्षणं निर्वर्ण्य तद्भेदानुद्दिशति-शान्तेति ॥ ४७ ॥ ननु शृङ्गारहास्यकरुणारौद्रवीरभयानकाः । बीभत्साद्भुतसंज्ञौ चेत्यष्टौ नाट्ये रसाः स्मृताः' इति काव्यप्रकाशाद्युक्तभरतकारिकाक्रमं विहाय कोऽयं विलक्षण एव क्रमस्त्वयोरीक्रियत इत्य
SR No.023485
Book TitleSahityasaram
Original Sutra AuthorN/A
AuthorAchyutrai, Vasudev Lakshman Shastri
PublisherTukaram Javaji
Publication Year1906
Total Pages576
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy