________________
दक्षिणावर्तकम्बुरत्नम् ४ ] सरसामोदव्याख्यासहितम् । एतदेवात्मन आनन्दरूपत्वं नाम । तथाप्यानन्दरूप इति न व्यवहरन्ति । सुखेष्वेवानन्दशब्दस्य व्युत्पत्तेः । इत्थं नैयायिकवैशेषिकादीनामपि मते ज्ञानान्मोक्षः मुक्तस्य स्खव्यतिरिक्तात्मानात्मलक्षणजगतो प्रतिपत्तिः समानैवेति तैरपि सांख्यादिवदात्मद्वितीयत्वं प्रपञ्चमिथ्यात्वं चावश्यमङ्गीकार्यम् । ब्रह्मेन्द्रादिपदादपि श्रेयस्त्वेन मुक्तः प्रार्थ्यमानत्वादत्यन्तानुकूलवेद्यत्वं च । ननु तेन च गुणानामत्यन्तोच्छेदो मोक्ष इति मुक्तौ ज्ञानस्याप्यभावमिच्छन्ति । सत्यम् । आत्मस्वरूपचैतन्यस्यात्यन्तनिर्विकल्पकत्वात्तेषामनवभानाभिमानः । अतएव शून्यवादिनोऽनवभानमात्मैव नास्तीति प्रतिपन्नाः शास्त्रज्ञदृष्टया प्रातर्गजाभावज्ञाने सत्येव यथा लौकिकजनस्यादर्शनाभिमानः ग्राहकविज्ञानस्यान्त्यतनिर्विकल्पकत्वात् । एवमेवात्मचैतन्यस्यात्यन्तनिर्विकल्पकत्वाल्लौकिकज्ञानाभावविषयमेव मुक्तौ ज्ञानराहित्यवर्णनम् । शून्यवादेऽप्ययमेवाभिप्रायो योज्यः । विज्ञानवादिनस्तु क्षणिकविज्ञानप्रवाह आत्मेति वर्णयन्ति तेषां मतेऽपि संवृतस्य विषयोपप्लवस्य विद्यया विनिवृत्ती विशुद्ध विज्ञानसंतानोदयो विमुक्ति: । उक्तंहि 'धीसंततिः स्फुरति निर्विषयोपरागा' इति । संतानो नाम नानाव्यक्तीनां नैरन्तर्येण वर्तमानत्वं । तच्चानुभवदशायां सैवेयं ज्वालेतिवदेकत्वेनानुभूयमानत्वम् । तथाचानुभवत आत्मन ऐक्ये सिद्धे युक्त्या यत्तस्य लक्षणभङ्गसमर्थनं तद्बाह्यार्थक्षणिकत्वसाधनाय यत्सत्तत्क्षणिकमिति व्याप्तेरनैकान्तिकत्वपरिहारेण समर्थनार्थम् । नच प्रयोजनवशाद्वस्तुनोऽन्यथावं शास्त्रकर्ता कथं प्रतिपादयेदिति शङ्कनीयम् । यतो भाटाः 'स्वप्रकाश विज्ञानाकार एव घटादिर्न तुबाह्यः' इति बाह्यार्थास्तित्वमपलपतो बौद्धान्निराकर्तु खानुभवसिद्धं ज्ञानस्य खप्रकाशत्वं परित्यज्य नित्यानुमेयतामाहुः । तथा सति हि घट इत्यादिज्ञानेषु ज्ञानव्यक्तरप्रत्यक्षत्वात्प्रत्यक्षत्वेन प्रतीयमानो घटाद्याकारो बाह्यार्थस्तस्यैवेति तेषामभिप्रायः । एवं विज्ञानवादिनोऽपि योऽहमद्राक्षं स एवेदानीं स्पृशामीति पूर्वोत्तरक्षणयोरेकत्वप्रतिसंधानेनात्मनः स्थायित्वे स्वानुभवसिद्धे यत्क्षणभङ्गसमर्थनं तदुक्तप्रयोजनायैवेति अस्मदुक्तार्थतात्पर्य नैव व्याहन्यते । मीमांसकानां शास्त्रं तु भिन्नविषयत्वाद्यथोदीरितमात्मखरूपं न विरुणद्धि । तथाहि वेदाप्रामाण्यवादिनो बौद्धानिराकृत्य तत्प्रामाण्यं समर्थयमाना भाट्टाः प्राभाकराश्च वेदोक्तं यागहोमादिकं निवर्त्य स्वर्गादौ तत्फलमुपभोक्तुं देहातिरिक्तः कश्चिदात्मा कर्ता भोक्तास्तीति तन्नास्तित्ववादिनश्चार्वाकादीन्निराचक्रुः । कर्तृत्वभोक्तृत्वविशिष्टात्मरूपप्रतिपादनस्यैव खशास्त्रप्रतिपाद्ययागदानाद्यौपयिकत्वात्तावन्मात्रखरूपमात्मनस्तैः प्रतिपादितम् । नत्वौपनिषदं कर्तृत्वभोक्तत्वादिसर्वविक्रियारहितं रूपम् । तदवगमस्य स्वशास्त्रे प्रयोजनाभावात् प्रत्युताकात्मज्ञाने सति कर्मवधिकारभङ्गप्रसङ्गाच्च। तदुक्तं भगवद्भिर्भाष्यकारैः-अनुपयोगादधिकारविरोधाच्च । ननु कात्मस्वरूपप्रतिपादनं तदतिरिक्तात्मखरूपास्तित्वनिषेधपरं कस्मान भवति तदस्तित्वाङ्गीकारादिति ब्रूमः । तत्र तावद्भट्टाचार्याः 'इत्याह