SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ साहित्यसारम् । [ पूर्वार्धे मद्वितीयत्वं चेत्येतावन्मन्त्रार्थत्वेन प्रतिपादितम् । एतस्मिन्नर्थे तावद्वेदान्तानां तदनुसारिणां स्मृतीतिहासपुराणानां चैदमर्थ्यमविवादम् । अन्येषामपि तैर्थिकानामीग्विधव्यवहारमकुर्वतां प्रायेणैतदभिमतमेव । तथाहि तत्र सांख्यपातञ्जलशैवास्तावदात्मनः सच्चिद्रूपत्वमङ्गीकुर्वते । यद्यपि व्यवहारदशायां प्रकृ. तिप्राकृतलक्षणप्रपञ्चस्य सत्यत्वमात्मनानात्वं च व्यवहरन्ति तथापि कैवल्य. दशायां खरूपप्रकाशव्यतिरेकेण तस्य सर्वस्यानवभानं वर्णयन्ति । आत्मयाथात्म्यज्ञानलक्षणायाः प्रकृतिपुरुषविवेकख्यातेर्हि कैवल्यं तथाविधज्ञानोत्तरकालं प्रकृतिप्राकृतार्थात्मकं जगत्सर्वथा न भातं चेत्तदस्तित्वं कथं निश्चीयेत । शेयसिद्धानाधीनत्लादत आत्मयाथात्म्यज्ञानेन निवर्तितमेव । तत्तस्मात्प्रपञ्चज्ञानस्य ज्ञाननिवर्त्यत्वेन मिथ्यासमवश्यमभ्युपगन्तव्यम् । ज्ञाननिवर्त्यानां शुक्तिरूप्यादीनां मिथ्यात्वदर्शनात्। किंच 'कृतार्थ तंप्रति नष्टमप्यनष्टं तत्साधारणत्वात्' इति पातञ्जलं सूत्रम् । अनेन च प्रकृतिप्राकृतिकात्मकं जगन्मुक्तापेक्षया नष्टं तदितरापेक्षया विद्यमानमेवेति पुरुषविशेषापेक्षया तस्याभावसद्भावौ प्रतिपाद्यते । तच्च तन्मिथ्यात्वे कल्पते । पुरुषविशेषमपेक्ष्यैकस्यैव वस्तुनः सद्भावाभावयोः शुक्तिरूप्यादौ दर्शनात् । तत्र हि काचकामलादिदोषदूषितनेत्रः पुरुषः शुक्तौ रूप्यसद्भावं प्रतिपद्यते । तदितरस्तु शुक्तिखरूपमेव जानन् तत्र रूप्याभावमवगच्छति । नहि पारमार्थिकं घटादि पुरुषविशेष प्रति सद्भावासद्भावौ युगपत्प्राप्नोति । तस्मात्वरूपज्ञानपर्यन्तमनुवर्तमानस्य तत ऊर्ध्वमप्रतिभासमानस्य प्रपञ्चस्य वेदान्तिनामिव सांख्यानामप्यविशेषान्मिथ्यावं सिद्धम् । अथापि कस्मान व्यवहरन्तीति चेत् श्रोतुर्बुद्धिसमाधानार्थमिति ब्रूमः । स खलु प्रथमत एव सर्व मिथ्येत्युक्ते कथमेतद्धटत इति व्याकुलितमनस्को भवेत् । तन्माभूदिति सत्यत्वव्यवहार एव केवलम् । आत्मनानात्वस्य जीवेश्वरभेदस्य च मुक्तावनभातत्वेनैव प्रपञ्चवन्मिथ्यात्वम् । यदि व्यवहारदशायामेक एवात्मेत्यविधीयेत तदा तत्तदुपाधिपरिकल्पनेन जीवेश्वरव्यवस्था सुखदुःखादिव्यवस्था च प्रयाससमर्थनीया स्यादित्यभिप्रायेणैव तन्नानात्ववर्णनम् । मुक्तौ तु वेदान्तिनामिव सांख्यादीनामपि केवलात्मस्वरूपप्रतिभास एव संमत इति परमार्थतो द्वितीयत्वमात्मनः सिद्धम् । व्यवहारमात्रे औपाधिकं खाभाविकमिति केवलं विवादः । आनन्दरूपत्वं च पातञ्जलसूत्रभाष्यकारोदाहृतत्वाज्जैगीषव्योपाख्यानादवगम्यते । जैगीषव्यो हि परमयोगीश्वरो योगमहिना अणिमाद्यष्टैश्वर्यं प्राप्य बहून्ब्रह्मसर्गान्संस्मृय तत्र सर्वत्रोपरतो दिव्यज्ञानेन साक्षात्कृते खात्मतत्त्वे कृतप्रणिधानः परमर्षिर्योगैश्वर्यप्राप्ताखणिमादिषु किं सुखमनुभूतं लयेति पृष्टे न किंचिदिति प्रत्युक्तवान् । अणिमाद्या विभूतिः केवलसुखात्मिका कथमेवं वदसीति पृष्टः सन्नवोचत् । सत्यं सांसारिकसुखापेक्षया अणिमाद्यैश्वर्यमधिकसुखावहं कैवल्यापेक्षया तु दुःखावहमेवेति । एवं चात्यन्तानुकूलवेद्यत्वमात्मन उक्तं भवति ।
SR No.023485
Book TitleSahityasaram
Original Sutra AuthorN/A
AuthorAchyutrai, Vasudev Lakshman Shastri
PublisherTukaram Javaji
Publication Year1906
Total Pages576
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy