SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ १०८ साहित्यसारम् । [ पूर्वार्धे स्त्रीपुंसालम्बनो ज्योत्स्ना मध्वाद्युद्दीपनस्तथा । तदीक्षाद्यनुभावश्च हर्षादिसहकार्यपि ॥ ६८ ॥ रत्याख्य एव स्थाय्यत्रशृङ्गारोऽसौ द्विधा मतः । संभोगो विप्रलम्भेश्व गुप्तौ स्पष्टौ च तौ पुनः ॥ ६९ ॥ कौमुद्यां सह गोपालैः स्वाङ्गणे मुदितं हरिम् । व्याजादुपगता राधा चकर्षापाङ्गरिङ्गणैः ॥ ७० ॥ एवं स्थायिभावान्निरूप्य पूर्व प्रतिज्ञातत्वेनावसर प्राप्तान्रसान्विवृण्वन्प्रथममुक्तक्रमानुसारेण शृङ्गारं प्रपञ्चयति - स्त्रीपुंसालम्बन इत्यादियुग्मेन । स्त्री च पुमांच स्त्रीपुंसौ युवानौ तावेवालम्बनमाश्रयो यस्य स तथा । एतेनास्यालम्बनविभावः स्फुटितः । ज्योत्स्नेति । ज्योत्स्ना चन्द्रिका च मधुर्वसन्तश्च तौ आदी मुख्यौ येषामुपवनगमनादीनां तान्युद्दीपनानि यस्य सः । एवं तद्विभावानभिधायानुभावमाह - तदीक्षादीति । तयोः स्त्रीपुंसयोः या परस्परमीक्षा साभिलाषावलोकनं तदादि मुख्यं येषां मणितरोमाञ्चादीनां तेऽनुभावा यस्य स तथेत्यर्थः । तद्व्यभिचारिणः सूचयति - हर्षादीति । हर्षादयः सहकारिणः संचारिभावा यस्य सः । तथापिशब्दौ समुच्चये । तथाच भरतसूत्रम् 'विभावानुभावव्यभिचारसंयोगाद्रसनिष्पत्तिः' इति ॥ ६८ ॥ रत्याख्य एवेति । तत्तूदाहृतं प्रागेव व्यक्तः सतैरिति । तस्य द्वैविध्यं विधत्ते - असाविति । तत्प्रकारावाह— संभोग इति । यूनोर्दर्शनादिजः सुखविशेष इत्यर्थः । विप्रलम्भो विरहः । तदुक्तं काव्यप्रकाशे - तत्र शृङ्गारस्य द्वौ भेदौ संभोगो विप्रलम्भश्चेति । यूनोः संयोगकालावच्छिन्नरतिः संभोगः, वियोगकालावच्छिन्नरतिर्विप्रलम्भ इति वा तलक्षणमस्तु । तयोः पुनः प्रत्येकं भेदद्वयमभिधत्ते - गुप्ताविति । परकीयाविषयत्वं गुप्तत्वम् । स्वकीयाविषयत्वं स्पष्टत्वम् । तल्लक्षणादिकं त्वग्रे स्फुटीभविष्यति इति दिकू ॥ ६९ ॥ तथाच गुप्तः संभोगः, गुप्तो विप्रलम्भः, स्पष्टः संभोगः, स्पष्टो विप्रलम्भः, इति सामान्यतश्चतुर्विधः शृङ्गारः सिद्धः । सोऽपि यूनोः समो वा विषम इति प्रतिपदोक्तरत्याख्यस्थायिभावस्य समत्वादिना द्वैविध्याद्विप्रकारक इत्यष्टभेदभिन्नः संपन्न इति । तत्राद्यमुदाहरति — कौमुद्यामिति । शरद्राकाचन्द्रिकायामित्यर्थः । गोपालैः स्ववयस्यैर्गोपबालैः सह स्वाङ्गणे स्वगृहाजिरे मुदितं चन्द्रिकाद्यद्दीपन दर्शनतो हृष्टं हरिं श्रीकृष्णं राधा व्याजात्किंचिन्मिषादुपगता समीपं प्राप्ता सतीत्यर्थः । अपाङ्गरिङ्गणैः अपाङ्गयोः रिङ्गणानि गतिविशेषास्तैश्चकर्ष तं आकर्षितवतीति योज्यम् । निरुक्तचन्द्रिकायां मित्रैः सह प्रसन्नं कृष्णं प्रति किंचित्कार्यच्छलेनोपेत्य तं कटाक्षैरलोभयदिति भावः । अत्र मुदितश्रीकृष्णाख्योत्तमतमनायकरूपस्यालम्बनस्य कौमुदीलक्षणस्योद्दीपनस्य वीक्षणविशेषाख्यस्यानुभावस्य व्याजादुपगमनाक्षिप्तस्य व्रीडौत्सुक्यादेर्व्यभिचारिणश्च संयोगात्परिपुष्टश्चकर्षेति पदध्वनितो राधानिष्ठः श्रीकृष्णविषयको रत्याख्यः स्थाय्ये - G
SR No.023485
Book TitleSahityasaram
Original Sutra AuthorN/A
AuthorAchyutrai, Vasudev Lakshman Shastri
PublisherTukaram Javaji
Publication Year1906
Total Pages576
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy