________________
साहित्यसारम् ।
[पूर्वार्धे सवासनविभेदांशध्वंसो मोक्षस्त्रिदण्डिनाम् । एवमन्येऽप्यलं सन्ति तत्तद्वाोकदेशिनः ॥ ४२ ॥ अत्रोच्यतेऽखिलं द्वैतं नास्तिकादिमतं मृषा ।
दृश्यत्वात्स्वप्नवत्तस्माद्युक्तोक्ताऽद्वैतिपद्धतिः॥४३॥ सवासनेति । त्रिदण्डिनां त्रिदण्डधारणविशिष्टसंन्यासिनामित्यर्थः । तदाहुः श्रीमधुसूदनदेशिकाः । त्रिदण्डिनस्तु जीवब्रह्मणोर्भेदाभेदमभ्युपेत्य ज्ञानकर्मसमुच्चयाभ्यासादेव कारणात्मके ब्रह्मणि कार्यात्मकजीवस्य कर्मवासनाभेदसहित. भेदांशनिवृत्तिर्मोक्ष इति वदन्तीति । अत्रापि जगत्स्वरूपं तथैव । न केवलमेवं योगिनामेवैकदेशिनः किंतु सर्वेषामपि सन्ति भेदवादिनां तथापि तत्तन्मतोपन्यासस्त्वनुपयोगविस्तरकातरत्वाभ्यामेव न कृत इत्याशयेनोपसंहरति-एवमित्यर्धेन ॥४२॥ एवं परस्परविभिन्नसिद्धान्तेषु सकलभेदवादिमतेषूपन्यस्तेषु सत्सु सिद्धान्ती तावत्तत्खण्डनाय भूमिकामारचयन् प्रतिजानीते-अत्रोच्यत इति । नास्तिकादिमतमखिलं द्वैतं पक्षः । तत्र मिथ्यात्वापरपर्यायं मृषात्वं साध्यम् । दृश्यत्वं हेतुः । खप्नो दृष्टान्त इत्यर्थः । नच द्वैतं सत्यं कार्यकारित्वात् । यन्नैवं न तदेवं, यथा शशविषाणमिति हेत्वन्तरेणोक्तदृश्यत्वहेतोः सत्प्रतिपक्षत्वमिति वाच्यम् । मिथ्यात्वेन संमतखप्नसुन्दर्यादेरपि. कार्यकारित्वदर्शनात्त्वदुक्तहेतो. रेवाप्रयोजकत्वाच्छशविषाणाख्यदृष्टान्तस्यापि वाचारम्भणमात्रतया द्वैतान्तःपातित्वेन पक्षत्वाच्च । यदि चेदं दृष्टान्तस्य पक्षान्तःपातित्वं त्वय्यपि समानमेवेति वदसि चेत्तर्हि 'पिशाचः पिशाचभाषयैव बोधनीयः' इति न्यायेन भेदाभिमानिनं त्वां प्रति बोद्धुमेव प्रवृत्तत्वेन तव सत्यलेन संमतं यावद्वैतं तावन्मात्रस्यैव पक्षीकरणाय नास्तिकादीति पक्षे विशेषणस्य दत्तवात्तत्कुतो न पश्यसि, तस्मात्स्वप्नस्य त्वत्संमतसत्यद्वैतभिन्नत्वेन मदुक्तं दृष्टान्तत्वौचित्यानेयं दृष्टान्तस्य पक्षान्तःपातित्वसाम्यत्वप्रतिबन्द्यापत्तिः । एतेन साध्याप्रसिद्धिरपि निरस्ता । एवं चान्वयव्यतिरेकान्यतरदृष्टान्तराहित्याद्भवदुपन्यस्तहेतोरनुपसंहारित्वमपि । किंचायं सोपाधिकत्वेन व्याप्यत्वासिद्धोऽपि उपाधिश्चात्राधिष्ठानज्ञानानिवर्त्यत्वमेव । तथाच यत्र यत्र सत्यत्वं तत्राधिष्ठानज्ञानानिवर्त्यलं मन्मते ब्रह्मणि त्वन्मते घटादौ चेति साध्यव्यापकता । यत्रयत्र कार्यकारित्वं तत्राधिष्ठानज्ञानानिवर्त्यवं तु नास्त्येवोभयमतेऽपि रज्जुसर्पादौ त्वधिष्ठानज्ञाननिवर्त्यलेन तदभावात्साधनाव्यापकतेति । अपिच मदुक्तहेतुनैवास्य सत्प्रतिपक्षत्वं केन वार्यते । तथा 'सदेव सोम्येदमग्र आसीदेकमेवाद्वितीयं' इति, 'वाचारम्भणं विकारो नामधेय' इति, 'नेह नानास्ति किंचन' इति च श्रुतिसहस्रैस्तथा यदि मिथ्यात्वं न स्यात्तर्हि दृश्यत्वमपि . न स्यादित्यादिभिस्तत्पादपद्मविकासनास्तकैश्च बाधितत्वमपि । नच दृश्यत्वहेतोरप्यस्तु बाधितत्वमिति शङ्कयम् । तद्बाधकप्रमाणाभावात् , 'यत्र हि द्वैतमिव भवति तदितर इतरं पश्यति' इति बार्हदारण्यकादिवाक्यादेः