SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ दक्षिणावर्तकम्बुरत्नम् ४] सरसामोदव्याख्यासहितम् । अष्टाङ्गयोगतो मुक्तिरिति पातञ्जलं मतम् । ईशः पशुपतिर्मुक्तिस्तत्सामीप्यं तदीज्यया ॥ ३७॥ तच्छास्त्रसिद्धयेत्याहुः केचित्पाशुपताभिधाः । ईशस्तु वासुदेवोऽभूजीवः संकर्षणस्ततः ॥ ३८॥ तस्मान्मनोऽपि प्रद्युम्रोऽनिरुद्धोऽहं ततोऽभवत् । पाञ्चरात्राद्युक्तधर्माद्विष्णुलोके गमोऽमृतम् ॥ ३९ ॥ जीवोऽणुस्तु भ्रमोऽलीक इति माध्वाः प्रपेदिरे । सर्ववित्परिणामीशो भिन्नाभिन्नश्च जीवतः ॥ ४० ॥ नित्यः कार्यस्य जीवस्य कारणे परमेश्वरे । शरणागतिमुख्याच ज्ञानकर्मसमुच्चयात् ॥४१॥ नांशसत्वगुणप्रतिफलिततया सर्वज्ञः संसारिपुरुषविलक्षण एवेति पातञ्जलाः' इति ॥ ३६ ॥ अष्टाङ्गेति । इदमप्युक्तं वेदान्तकल्पलतिकायाम् । पातञ्जलास्तु प्र. कृतिपुरुषविवेकेनाभ्यासवैराग्यादिपरिपाकाद्यमनियमासनप्राणायामप्रत्याहारधारणाध्यानसंप्रज्ञातसमाधिपूर्वकात्परमेश्वरप्रसादजात्पञ्चविधानां चित्तवृत्तीनां निरोधादेव धर्ममेघशब्दितादसंप्रज्ञातसमाधेः कैवल्यमिति कल्पयन्तीति । अत्र जग. जीवमुक्तिखरूपाणि तु सांख्यसंमतान्येव । प्रसङ्गात्तदेकदेशिनां पाशुपतपाञ्चरात्रिकरामानुजाख्यानां मतानि वैमत्यप्राचुर्यार्थ कथयन्प्रथमं पाशुपतमतमुपक्षिपति-ईश इति ॥ ३७ ॥ तच्छास्त्रेति । तदुक्तं श्रीमधुसूदनाचार्यैः । पाशुपतास्तु 'यथोक्तात्पाशुपतधर्माचरणात्पशुपतिसमीपगमनमेव पुनरावृत्तिरहित मोक्ष इत्याहुः' इति। तच्छास्त्रं त्वत्रानुपयोगाद्विस्तरभयाच्च नोदाहृतम् । अत्र जीवजगद्रूपं तु प्राक्तनमेवेत्यलं पल्लवितेन । ततः क्रमप्राप्तं माध्वराद्धान्तमुद्घाटयतिईशस्त्वित्यादिद्वाभ्याम् । पूर्वस्माद्वैलक्षण्यावद्योती तुशब्दः ॥ ३८ ॥ तस्मादिति । अभूदिति पदं त्वत्रानुकर्षणीयम् । गमः गमनम् । अमृतमिति च्छेदः । कैवल्यमित्यर्थः ॥ ३९ ॥ जीव इति । उक्तं हि सिद्धान्तबिन्दौ वेदान्तकल्पलतिकायां च 'भगवान्वासुदेव ईश्वरो जगत्कारणं तस्मादुत्पद्यते संकर्षणाख्यो जीवः, तस्मान्मनः प्रद्युम्नस्ततोऽहंकारोऽनिरुद्धस्तेन कार्यत्वाज्जीवस्य तेन सह न ब्रह्मणो वासुदेवस्यात्यन्ताभेदः' इति पाञ्चरात्रिका इति 'यथोक्तविष्णुभक्तिधर्माचरणाद्विष्णुलोकगमनमेव मोक्षः' इति वैष्णवा इति च । अत्र जगद्रूपं तु प्राग्वदेव । एवं विशिष्टाद्वैतवादिनामपि मतं संक्षिपति-सर्वविदित्यादियुग्मेन ॥ ४० ॥ नित्य इति । इदं पूर्वान्वयि । शरणेति । 'मामेकं शरणं व्रज'इति स्मृतेः 'शरणं गृहरक्षित्रोः' इत्यभिधानाच्छरणं रक्षितारमीश्वर प्रत्यासमन्तादनन्यभावेन सर्वत्यागपूर्वकं गमनं शरणागतिः सा मुख्या यत्र तस्मादित्यर्थः ॥ ४१ ॥
SR No.023485
Book TitleSahityasaram
Original Sutra AuthorN/A
AuthorAchyutrai, Vasudev Lakshman Shastri
PublisherTukaram Javaji
Publication Year1906
Total Pages576
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy