SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ [पूर्वार्ध साहित्यसारम् । चतुर्विशतितत्त्वानि प्रधानादीनि नेश्वरः। आत्मा चिद्विश्वकी तु प्रकृतिस्तद्विवेकतः॥३५॥ दुःखसंरोधनं मुक्तिरिति सांख्याख्यकापिलाः । क्लेशाद्यमृष्टश्चिद्रूपः सर्वज्ञो नित्य ईश्वरः ॥ ३६॥ मिति योजना ॥ ३४ ॥ ननु परस्परविरुद्धधर्मयोः क्वापि सामानाधिकरण्यादर्शनान्ममाद्य बुद्धिः शुद्धेत्यादिना खात्मनः खभानेऽन्यानपेक्षवलक्षणचिदेकरूपत्वानुभवाच्च कथं तस्य जडबोधात्मकत्वमिति भाट्टमतेऽप्यखरसात्तस्य चिन्मात्रत्ववादिनां वेदान्तिनामपि मतात्तथा ख्या प्रकथन इति स्मृतेस्तार्किकमतादपि पृथक्कारेण सांख्यानां मतमुपन्यसति-चतुर्विशतीत्यादिना सार्धेन । प्रकृतिमहत्तत्त्वाहंकारशब्दस्पर्शरूपरसगन्धश्रोत्रत्वक्चक्षुर्जिह्वाघ्राणवाक्पाणिपादपायूपस्थप्राणापानव्यानोदानसमानान्तःकारणाख्यानि दृश्यवस्तूनीत्यर्थः । ईश्वरः न नास्तीति यावत् । तथा आत्मा जीवः चित् चिद्रूप इत्यर्थः । ईशाभावश्चेत्कि जगत्कारणमित्यत आह-विश्वेति । तुशब्दः शङ्काशान्त्यै । प्रकृतिः सत्वरजस्तमोगुणात्मकं प्रधानमेव जगतः परिणाम्युपादानमस्तीत्यर्थः । तद्विवेकत इति । तेषामात्मान्तपञ्चविंशतितत्त्वानां यो विवेकः चतुर्विंशतिसंख्येभ्यः प्रकृत्यादिभ्यस्तेभ्यो भिन्नत्वेनासङ्गचिद्रूपस्य पुरुषस्य बोधस्तेनेत्यर्थः ॥ ३५ ॥ दुःखेति । दुःखस्याध्यात्मिकादेस्त्रिविधतापस्य सम्यक्पुनरुदयशून्यं यद्रोधनं संकोचनं तदेव मुक्तिरिति सांख्याख्यकापिलाः सांख्यापरनामकाः कपिलाचार्यमतानुयायिनो वादिनो वदन्तीत्यन्वयः । चतुर्विंशतितत्त्वानि पञ्चविंशः पुरुषश्चोक्तः सांख्यसप्तत्याम् 'मूलप्रकृतिरविकृतिर्महदाद्याः प्रकृतिविकृतयः सप्त। षोडशकश्च विकारो न प्रकृतिन विकृतिः पुरुषः' इति । अस्यार्थः-मूलप्रकृतिविश्वस्यादिकारणमविकृतिर्न कस्यापि विकारोऽस्ति किंत्वनादिरेव सेत्यर्थः । एवं महदाद्याः सप्तमहत्तत्त्वादिगन्धान्ताः प्रकृतिविकृतयः पूर्वोक्तप्रकृतेः पयसो दध्यादिवद्विकारा इति यावत् । षोडशकः श्रोत्रायन्तःकरणान्तषोडशसंख्याकतत्त्वसङ्घः विकारः शब्दादिपञ्चतन्मात्रपरिणाम इत्यर्थः । तु पुनः पुरुष आत्मा कस्यापि प्रकृतिः कारणमपि न भवति विकृतिः कार्यमपि न भवतीति । श्रीमघुसदनसरखत्योऽप्याहुः-'भोकैव केवलं बोधात्मक इति सांख्याः' इति । सांख्यास्तु प्रकृतिपुरुषविवेकादनाद्यविवेकनिवृत्तौ तं पुरुषं प्रति चरिताधिकारायाः प्रकृतेन पुनस्तद्भोगार्था प्रवृत्तिरिति त्रिविधदुःखस्यैकान्तात्यन्तनिरोध एव खभावात्केवलस्यापि पुरुषस्य कैवल्यमित्याहुरिति च । विस्तरस्तु सांख्यभाष्यादौ ज्ञेय इति दिक् । ननु 'यः पृथिव्यां तिष्ठन्' इत्याद्यन्तर्यामिब्राह्मणादिषु प्रसिदस्य परमेश्वरस्य कथमपलापः समुचित इत्याद्यरुच्या तदङ्गीकारिणां पाता लानां मतमाह-क्लेशाधमृष्ट इति । आदिपदात्कर्मादि । तथाच सिद्धान्तबिन्दौ परमेश्वरं प्रकृत्य 'क्लेशकर्मविपाकाशयैरपरामृष्टो नित्यज्ञानादिरूपः प्रधा
SR No.023485
Book TitleSahityasaram
Original Sutra AuthorN/A
AuthorAchyutrai, Vasudev Lakshman Shastri
PublisherTukaram Javaji
Publication Year1906
Total Pages576
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy