________________
दक्षिणावर्तकम्बुरत्नम् ४] सरसामोदव्याख्यासहितम् ।
नेशः सकर्मकाज्ञानाद्विहितात्कर्मनाशजः । मोक्षो देहादिसंबन्धध्वंसः प्राभाकरैर्वृतः ॥ ३२ ॥ आत्मा तु जडबोधात्मा ज्ञानकर्मसमुच्चयात् । नित्याज्ज्ञानात्सुखं नित्यं मोक्षो भाट्टमते मतः॥३३॥ इति मीमांसकत्रय्याः प्रयान्त्याश्चानुजैमिनिम्। मानषटुमभीप्सन्त्याः प्रोक्तमेतन्मतत्रयम् ॥ ३४ ॥
न्ययोरननुष्टानान्नित्यनैमित्तिकानुष्टानाच्च नागामिकर्मोत्पादः विद्यमानस्य चोपभोगेन क्षयात्सकलकर्मोच्छेदलक्षणमपवर्गमाहुरिति । अत्र जीवेश्वरजगद्रूपाणि तु प्राग्वदेव प्रमाणान्यपि तथैव तत्राप्यन्यथानुपपत्त्यपरनाम्यापत्तिरभावापरनामिकानुपलब्धिश्चेति प्रमाणद्वयमधिकं बोध्यम् ॥ ३१ ॥ ननु 'तमेव विदित्वातिमृत्युमेति नान्यः पन्था विद्यतेऽयनाय' इत्यादिश्रुतिसहस्रैर्मुक्तेः ज्ञानकसाध्यलोक्तेः कथं ज्ञानं विनैव तत्सिद्धिमयं खीकुरुते । किंचास्त्वेवं नित्यादिकर्मव्यवस्था तथापि प्रारब्धक्रियमाणाभ्यामन्यस्य सर्ववैदिकसंमतस्य संचिताख्यस्य पुण्यादेः कथं वा नाश इत्याधरुच्या ज्ञानमपि मोक्षसाधनत्वेनाङ्गीकर्तुः प्राभाकरस्य मतं संक्षिपति-नेश इति । विहितात् 'तमेव धीरो विज्ञाय प्रज्ञां कुर्वीत ब्राह्मणः' इत्यादिविधिचोदितादित्यर्थः । ज्ञानादात्मज्ञानादिति यावत् । प्राभाकरैः प्रभाकराभिधस्य गुर्वपरनानो भट्टशिष्यस्य मतानुयायिनः प्राभाकरास्तैरित्यर्थः । ईशः न वृतः नैव स्वीकृतः । तथा उक्तहेतोरुक्तलक्षणो मोक्षस्तु वृत इति योजना । तदुक्तं सिद्धान्तबिन्दौ वेदान्तकल्पलतिकायां च 'नास्ति सर्वज्ञत्वायुपेते ब्रह्माम्नायस्य क्रियापरत्वेन तत्र तात्पर्याभावास्किंतु 'वाचं धेनुमुपासीत' इतिवज्जगत्कारणं परमाण्वादि वा जीवो वोपास्यः' इति मीमांसका इति प्राभाकरा अपि वैदिककर्मानुष्टानाद्विहितात्मज्ञानपूर्वकाद्देहेन्द्रियादिबन्धस्य धर्माधर्मपरिक्षयनिमित्तमात्यन्तिकोच्छेदं मोक्षं मन्यन्त इति च । इहापि जीवजगप्रमाणस्वरूपं प्राग्वदेव ॥ ३२ ॥ अत्राप्यभावस्य पुमर्थतानौचित्यरूपास्वरसात्तद्विरुद्धं भाट्टमतमुपन्यस्यति-आत्मा त्विति । एतदप्युक्तं तत्रैव 'जडवोधात्मक इति भाटाः' इति । भाटास्तु 'ज्ञानकर्मसमुच्चयादेवात्मनो जडबोधास्मकस्य नित्यज्ञानं नित्यसुखं चोदेति, ततश्च विषयविशेषानपेक्षया नित्यज्ञानेन नित्यसुखाभिव्यक्तिर्मुक्तिः' इत्याहुरिति च । अत्रापि ईशजगत्प्रमाणानि प्राभाकरवदेव । अक्षरार्थस्तु स्फुट एवेति ॥ ३३ ॥ एवमुक्तमीमांसकमतत्रयमुपसंहरंस्तदाचार्य तत्संमतप्रमाणसंख्यां च कथयति-इतीति । जैमिनिमेतन्नामानं मुनिमनुप्रयान्त्यास्तदनुसारिण्याः मानषट्कं प्रत्यक्षानुमानोपमानशब्दार्थापत्त्यनुपलब्ध्याख्यषदसंख्याकप्रमाणानि अभीप्सन्त्याः वाञ्छन्त्याः इति निरुक्कैकभविकादिप्रकारेण मीमांसकत्रय्याः त्रिविधमीमांसकानामेतदुक्तरूपं मतत्रयं प्रोक्त