________________
[ पूर्वार्ध
साहित्यसारम् । बोधादिपारम्पर्येण दुःखस्यानुदयोऽमृतम् । मानं चतुर्विधं चेति प्रोच्यते गौतमानुगैः ॥ ३०॥ नित्यादेः कृतितोऽन्यस्य त्यागादारब्धभोगतः।
मोक्षं कर्मक्षयं ज्ञानं विनैकभविका जगुः ॥ ३१ ॥ विभुमात्मानं नवविशेषगुणाश्रयं कल्पयन्तो जल्पन्ति । द्रव्यगुणकर्मसामान्य विशेषसमवायानां षण्णां पदार्थानां साधर्म्यवैधाभ्यां यत्तत्त्वज्ञानं तत्पूर्वकादात्मत. त्त्वसक्षात्कारादीश्वरोपासनासहितानां नवानां वैशेषिकगुणानां प्रागभावासहवृत्तिः प्रध्वंस एवात्मनः कैवल्यमितीति अहोशब्दप्रामाण्यमनङ्गीकुर्वतां वैशेषिकाणां कथं नामास्तिकत्वमित्याद्यखरसात्तत्प्रामाण्यवादिनां नैयायिकानां मतमुपन्यसतिमानादीति सार्धेनैव । प्रमाणप्रमेयादिषोडशपदार्थानामितियावत् । उद्देशादिभिः उद्देशलक्षणपरीक्षाभिरित्यर्थः । अत्मनोः जीवात्मपरमात्मनोः ॥ २९ ।। बोधादीति । ससाधनाजीवादिसाक्षात्कारात्सवासनमिथ्याज्ञाननिवृत्तौ तत्कार्याणां रागद्वषमोहानां निवृत्तिरित्यादिपरम्परयेति यावत् । अमृतमिति च्छेदः । चतुर्विध प्रत्यक्षानुमानोपमानशब्दाः प्रमाणानीति पारमर्षसूत्रोक्तचतुःप्रकारकमित्यर्थः । स्फुटमेवान्यत् । तथाचाहुर्वेदान्तकल्पलतिकाकृतः । नैयायिकास्तु प्रमाणप्रमेयसंशयप्रयोजनदृष्टान्तसिद्धान्तावयवतर्कनिर्णयवादजल्पवितण्डाहेत्वाभासच्छलजातिनिग्रहस्थानानामुद्देशलक्षणपरीक्षाभिरात्मशरीरेन्द्रियार्थबुद्धिमनःप्रवृत्तिदोषप्रेत्यभावफलदुःखापवर्गाख्यद्वादशविधप्रमेयनिष्कर्षणात्मद्वयसाक्षात्काराच्छ्रवणमनननिदिध्यासनपूवकात्सवासनमिथ्याज्ञाननिवृत्तौ तत्कार्याणां रागद्वेषमोहानां निवृत्तिस्ततस्तत्कार्ययोधर्माधर्मयोस्ततः पूर्वार्जितकर्मणां कार्यव्यूहपूर्वकभोगेन क्षयाच्छरीरान्तरानारम्भस्ततो बाधनालक्षणस्यैकविंशतिप्रभेददुःखस्यात्यन्तिकविमोक्षोऽपवर्ग इति कल्पयन्तीति । अत्र मवे जीवेशजगद्रूपं तु प्राग्वदेव बोध्यम् ॥३०॥ अन्यथानुपपत्तिश्चेदस्ति वसुप्रसाधिकेत्यादिभगवत्सुरेश्वराचार्यचरणारुणनलिनवचनात्पीनो देवदत्तो दिवा न भुङ्ग इत्याद्युदाहरणसहस्रसिद्धस्यार्थापत्त्यादिप्रमाणद्वय. स्यापलापादुक्तमतेऽप्यखरसात्प्रमाणषट्रकवादिनां मीमांसकानां मतत्रयमुपन्यसन्प्रथमं तत्रापि जघन्यमैकभविकानां सिद्धान्तं बोधयति-नित्यादेरिति । 'नित्यं सदा यावदायुर्न कदाचिदतिक्रमेत् । इत्युक्त्यातिकमे दोषश्रुतेरत्यागचोदनात्। फलाश्रुतेवीप्सया च तनित्यमिति कीर्तितम्' इति कालमाधवोदाहृतनित्यत्वबोधकनिमित्ताष्टकान्यतमघटितत्वे सति श्रुत्यादिविहितं संध्यावन्दनादि नित्यं कर्मेत्यर्थः । आदिना नैमित्तिकस्य जातेष्टयादिकर्मणः संग्रहः । कृतितः सर्वदा यथाकालमव्यङ्गमनुष्ठानादित्यर्थः । अन्यस्य काम्यादेरित्यर्थः । आरब्धेति । प्रारब्धस्य सुकृतादेर्मोगादितियावत् । ऐकभविकाः एकजन्ममात्रसाधनेन मुक्तिमानिनो मीमांसकविशेषा इत्यर्थः । ज्ञानं विनैव कर्मक्षयं मोक्षं जगुरितिसंबन्धः। तथाचोक्तं श्रीमधुसूदनसरखतीभिः । अपरे तु ऐकभविकन्यायेन आत्मज्ञानमन्तरेणापि निषिद्धका