SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ सरसामोदव्याख्यासहितम् । द्रव्यादिसप्तकं मेयं जड आत्मा गुणी विभुः । सेशोपासनतस्तेषां साधर्म्यादिजबोधतः ॥ २८ ॥ नववैशेषिक गुणध्वंसः कणभुजोऽमृतम् । मानादिषोडशार्थानामुद्देशादिभिरात्मनोः ॥ २९ ॥ दक्षिणावर्तकम्बुरत्नम् ४ ] ९३ विध्यमात्रत्वमपि बोध्यम् । अत्रैतेषां प्रत्येकं तत्तच्छास्त्रोक्तानि मुक्तिसाधनानि तु नातीवोपयुक्तानीति मया नैवोपन्यस्तानीति । ननु भगवता विष्णुना सुराचार्येण च कथमिदं वेदविरुद्धशास्त्रप्रणयनमकारीति चेदसुरव्यामोहनार्थमेवेति जानीहि । किंबहुना वेदान्तपातञ्जलेतरास्तिकशास्त्राणामप्यंशतस्तथात्वमस्त्येव । तथाचोक्तं सप्तशतीव्याख्याने नागोजिभ हैः । पाद्मे पार्वतीपरमेश्वरसंवादे - 'शृणु देवि प्रवक्ष्यामि तामसानि यथाक्रमम् । येषां श्रवणमात्रेण पातित्यं ज्ञानिनामपि । प्रथमं हि मयैवोक्तं शैवं पाशुपताभिधम् । यच्छक्त्यावेशितैर्विप्रैः संप्रोतानि ततः परम् । कणादेन तु वै प्रोक्तं शास्त्रं वैशेषिकं महत् । गौतमेन तथा न्यायं सांख्यं तु कपिलेन वै । द्विजन्मना जैमिनिना पूर्ववेदप्रकाशकम् । निरीश्वरेण वादेन कृतं शास्त्रं महत्तरम् । धिषणेन तथा प्रोक्तं चार्वाकमतिगर्हितम् । दैत्यानां नाशनार्थाय विष्णुना बुद्धरूपिणा । वेदार्थवन्महाशास्त्रं मायावादमवैदिकम् । मयैव कथितं देवि जगतां नाशकारणात्' इति ॥ २७ ॥ एवं नास्तिकषट्दर्शनीमतान्युपन्यस्येदानी मास्तिकष दर्शनीमतोपन्यासमारभमाणः सन्मध्यपरिमाणत्वेनाभिमतस्यार्हतसंमतात्मनो ध्रुवं विनाशित्वात्तद्विभुत्ववादिनः कणादस्य मतमाह - द्रव्यादि इति सार्धेन । द्रव्यगुणकर्मसामान्यविशेषसमवायाभावाख्यपदाश्रंसप्तकमिति यावत् । मेयं प्रमाविषयमित्यर्थः । जडोऽचिद्रूपः । गुणी संख्या परिमाणपृथक्त्वसंयोगविभागबुद्धिसुखदुःखेच्छाद्वेषप्रयत्नधर्माधर्मसंस्काराख्यचतुर्दशगुणवानित्यर्थः । तत्र बुद्ध्यादयोऽष्टावात्ममात्रवर्तिनो गुणाः शेषास्तु द्रव्यान्तरवर्तिनोऽपीति ज्ञेयम् । विभुर्महत्परिमाणवान् । एतादृश आत्मा जीवोऽस्तीत्यन्वयः । अत्र कणभुज इति पदं प्रत्येकं योज्यम् । कणादस्य मत इत्यर्थः । सेशोपासनतः ईश्वरोपासनसहितादित्यर्थः । तेषां द्रव्यादिसप्तपदार्थानां साधर्म्यादिजबोधतः साधर्म्यवैधर्म्यजनितज्ञानाद्धेतोरिति यावत् ॥ २८ ॥ नवेति । नवसंख्याकाः ये आत्मनो बुद्धिसुखदुःखेच्छाद्वेषप्रयत्नधर्माधर्मभावनाख्याः वैशेषिकाभिधा गुणाः । तदुक्तम् ‘रूपं गन्धो रसः स्पर्शः स्नेहः सांसिद्धिको द्रवः । बुद्ध्यादिर्भावनान्तश्च शब्दो वैशेषिकागुणाः' इति । तेषां यो ध्वंसो नाशः प्रागभावासहवृत्तिरुच्छेद इत्यर्थः । स तावत्कणभुजो मते अमृतं कैवल्यं भवतीति संबन्धः । अत्र जीवे - वरजगन्मोक्षतत्साधनाभिधवस्तुपञ्चकोक्तावपि प्रमाणानुक्तेः पूर्वोक्तं प्रत्यक्षानुमानाख्यं प्रमाणद्वयमेवैतेषां कणादानामपि संमतमिति द्योतितम् । तदुक्तं षट्त'श्रीसारटीकायां कणादं प्रकृत्य अयं प्रमाणद्वयवादित्वात्पूर्वस्माच्छ्रेयानिति । निरुक्तमुक्तिप्रक्रिया तूक्ता श्रीमधुसूदनसरस्वतीभिः । काणादास्तु देहेन्द्रियादिव्यतिरिक्तं
SR No.023485
Book TitleSahityasaram
Original Sutra AuthorN/A
AuthorAchyutrai, Vasudev Lakshman Shastri
PublisherTukaram Javaji
Publication Year1906
Total Pages576
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy