SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ ९१ दक्षिणावर्तकम्बुरत्नम् ४] सरसामोदव्याख्यासहितम् । भिन्नाभिन्नो जगद्रान्तिर्मुक्तिश्चेशे विलीनता। योगाचारमते मानं प्रत्यक्षं चानुमानकम् ॥ २३ ॥ ज्ञानानुमेयं क्षणिकं बाह्य सौत्रान्तिका जगुः। स्वलक्षणं तदन्वक्षं चेति वैभाषिका अपि ॥ २४ ॥ मतद्वयेऽपि शिष्टं तु योगाचारमतं मतम् । शून्यं माध्यमिकाः प्राहुरन्यत्सर्वं भ्रमात्मकम् ॥ २५॥ जीवः पुर्यष्टकी देहमात्रो मुक्तिस्तु तस्य या । सततोर्ध्वगतिः सेति दिक्पटाः प्रोचुराहताः ॥ २६ ॥ मदित्यर्थः ईश्वरः ॥ २२ ॥ सच जीवेन जगता च सह भिन्नाभिन्नो भेदसहिष्ण्वभेदलक्षणतादात्म्यशाली जात्यादिवद्भवतीत्यन्वयः । स्फुटमेवान्यत्। उक्तं हि सिद्धान्तबिन्दावीश्वरं प्रकृत्य परिणामी नित्यः सर्वज्ञो भिन्नाभिन्न इति जैनाः' इति, क्षणिकः सर्वज्ञः' इति सौगता इति च । वेदान्तकल्पलतिकायामपि–'विज्ञानवादिनस्तु क्षणिकं विज्ञानस्कन्धं देहेन्द्रियादिव्यतिरिक्तमात्मत्वेन मन्यमानाश्चतुर्विधनैरात्म्यभाबनया तस्य सोपप्लवविज्ञानसंतानस्यात्यन्तोपरमं वा निरुपप्लवसर्वज्ञसंतानान्तर्भाव वा नोक्षमिच्छन्ति'इति॥२३॥ननु यदि विज्ञानमेवस्वप्नवद्धटादिकमिव समवभासते तदपि क्षणिकमेवेति चेत्तर्हि सोऽयं घट इति प्रत्यभिज्ञानं स्याद्दीपज्वालावदत्यन्तसादृश्यात्कथंचित्तदुपपत्तावपि तदर्थे तव प्रवृत्त्यनापत्ते ग्यस्यासत्वाद्भोक्तः क्षणिकत्वाच्चेत्याशङ्कयानुमेयक्षणिकभोग्यसत्त्ववादिनः सौत्रान्तिकसंज्ञस्य सुगतापरशिष्यस्यापि मतं संक्षिपति-ज्ञानानुमेयमित्यर्धेन । बाह्यं क्षणिकमपि वस्तु विद्यते ज्ञानग. म्यवायतिरेके वन्ध्यापुत्रवदिति प्रयोगः । एवं तर्हि घटं पश्यामीत्यनुभवस्य का गतिः किंचोक्तरूपस्यापि बाह्यस्य किं लक्षणमिति चेत्तत्र प्रत्यक्षत्वाद्यङ्गीकर्तुः वैभाषिकाभिधस्य वैनाशिकतृतीयशिष्यस्यापि सिद्धान्तं बोधयति-स्खलक्षणमित्यर्धेनैव । खं तत्तद्धटादित्वमेव लक्षणं यस्य तत्तथेत्यर्थः । तत् बाह्यम् । अन्वक्षं प्रत्यक्षं चेति वैभाषिका अपि जगुरियनुकृष्य संबन्धः । तथाचाहुः श्रीभाष्यरनप्रभाकाराः 'सौत्रान्तिको वैभाषिको योगाचारो माध्यमिकश्चेति चत्वारः शाक्यशिष्यास्तेष्वाद्ययोर्बाह्यार्थानां परोक्षत्वापरोक्षत्वमविवादेप्यस्तित्वसंप्रतिपत्तेः' इति ॥ २४ ॥ अस्त्वेवं यथाकथंचिन्मतद्वयेऽपि जगद्व्यवस्था जीवेशमानमोझाख्यपदार्थचतुष्टयं तु कथमिति चेद्विज्ञानवादिवदेवेत्याह-मतद्वयेऽपीयधैन । शेष्टमुर्वरितं जीवादीत्यर्थः । नन्वेतावतापि भोक्तभोग्ययोः क्षणिकत्वदूषणं तु तदवस्थमेवेत्यतो माध्यमिकनामधेयस्य शाक्यशिष्यस्यैव राद्धान्तमभिधत्ते-शून्यमिति । सर्वं भ्रमः दृश्यत्वात्स्वप्नवदतः शून्यमेव तत्त्वमिति प्राहुरित्यर्थः । उक्तं हि श्रीमधुसूदनसरखतीभिः 'माध्यमिकाः पुनः शून्यमात्रमात्मानमुपयन्तो न किंचिदपि तत्त्वमस्तीति शून्यभावनाप्रकर्षपर्यन्तात्तत्त्वज्ञानाच्छून्यभावमेवापवर्गमाहुरिति ॥ २५ ॥ एवं क्षपणकमतचतुष्टयं संक्षिप्य तत्र चरमोपन्यस्तमते यत्स
SR No.023485
Book TitleSahityasaram
Original Sutra AuthorN/A
AuthorAchyutrai, Vasudev Lakshman Shastri
PublisherTukaram Javaji
Publication Year1906
Total Pages576
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy